Monday, June 25, 2018

सूर्यशतकम् - 99 (महाकवि-श्रीमयूरप्रणीतम्)

योनिः साम्नां विधाता मधुरिपुरजितो धूर्जटिः शङ्करोऽसौ
मृत्युः कालोऽलकायाः पतिरपि धनदः पावको जातवेदाः ।
इत्थं संज्ञा डवित्थादिवदमृतभुजां या यदृच्छाप्रवृत्ताः
तासामेकोऽभिधेयस्तदनुगुणगुणैर्यः स सूर्योऽवताद् वः ॥९९॥


अन्वयः– साम्नां योनिः विधाता, मधुरिपुः अजितः, धूर्जटिः असौ शङ्करः, मृत्युः कालः, अलकायाः पतिः अपि धनदः, जातवेदाः पावकः, इत्थं डित्थडवित्थादिवत् अमृतभुजां याः संज्ञाः यदृच्छाप्रवृत्ताः तासां तदनुगुणगुणैः यः एकः अभिधेयः सः सूर्यः वः अवतात् ॥९९॥

व्याख्या– साम्नां सामवेदमन्त्राणां योनिः प्रभवः विधाता इति, मधुरिपुः मध्वरिः विष्णुः अजितः इति, धूर्जटिः धूः भारभूता जटिः जटा यस्य सः शिवः असौ शङ्करः इति, मृत्युः यमः कालः इति, अलकायाः पतिः कुबेरः अपि धनदः इति, जातवेदाः अग्निः पावकः इति डित्थडवित्थादिवत् अमृतभुजां देवानां याः संज्ञाः इत्थं यदृच्छाप्रवृत्ताः तासाम् अनुगुणाः अनुकूलाः ये गुणाः तैः यः एकः सूर्यः अभिधेयः आख्यातुं योग्यः, विधात्रजितशङ्करकालधनदपावकादिशब्दैः यः सूर्यः एक एव अभिधातुं योग्यः स सूर्यः वः युष्मान् अवतात् रक्षतु ॥९९॥

भावार्थः– सामवेदीयमन्त्राणाम् उत्पत्तिहेतुः ब्रह्मा विधाता इति, मधुरिपुः अजित इति, धूर्जटिः शङ्कर इति, मृत्युः काल इति, अलकायाः पतिः धनदः इति, जातवेदाश्च पावक इति अभिधीयन्ते । एतानि नामानि तत्तद्देवेषु डित्थडवित्थादिवत् यदृच्छया प्रवृत्तानि । एतानि नामानि तत्त्वतः अर्थदृष्ट्या सूर्य एव प्रयोक्तव्यानि । तत्तन्नामभिः अभिधेयः सकलगुणाधारः सूर्यः युष्मान् रक्षतु ॥९९॥

हिन्द्यर्थः– सामवेदके उत्पत्तिकारीको विधाता, मधुरिपुको अजित, जटाजूटको धारण करने वालेको शङ्कर, मृत्युको काल, अलकापतिको धनद, जातवेदा (अग्नि) को पावक नामसे कहा जाता है । पर देवताओंके ये सब नाम डित्थ, डवित्थ (निरर्थक) शब्दतुल्य आकस्मिक भावसे दिया गया है । तत्त्वतः अर्थके अनुसार ये सब नाम सूर्यके ही होना ठीक है । इन सब नामसे वाच्य सूर्य आप लोगोंकी रक्षा करें ॥९९॥

आङ्ग्लार्थः-- Propagator of Samaveda is called Vidhata, madhuripu is Ajita, DhurjatI is Saiikara, Mrtyu is Kala, the master of Alaka is Dhanada and the Jatavedas is named as Pavaka. These names (vidhata etc.) of gods are wantonly given like dittha, davittha. The meanings denoted by these terms are truly applicable to the Sun who alone possesses all their qualities, May that Sun protect you. 99

తెలుగు అర్థం--
    అడుగో, సహస్రకిరణుడు ఆయన సహస్రనాముడు. సార్థకాఖ్యుడు దయచేస్తున్నాడు. తత్త్వజ్యోతులు ప్రకాశిస్తున్నాయి.
    సామప్రభువు అనే పేరు బ్రహ్మదేవుడికీ ఉంది. ప్రభాకరస్వామికీ ఉంది. అజితుడు అని విష్ణువుకు ఉంది. వివస్వతునికీ ఉంది. శంకరుడనే నామం ధూర్జటికీ ఉంది. సహస్రాంశుడికీ ఉంది. కాలుడు అనే ఆఖ్య మృత్యువుకూ ఉంది. జగచ్చక్షువైన సూర్యుడికీ ఉంది. ధనదుడనే అభిద కుబేరుడికీ ఉంది. విభాకరుడికీ ఉంది. పావకుడనే నామధేయం అగ్నిహోత్రుడికీ ఉంది. ఆదిత్యుడికీ ఉంది.
    ఐతే దేవతలకు ఈ పేర్లు డిత్థడవిత్థాదులవలె రూఢి చేత ఆరూఢములైనాయి. కాన ప్రవృత్తములు కావు. సూర్యుడికి నామాలు ప్రవృత్తి చేత సార్థకాఖ్యాలై రాణించాయి. దినమణికి ఇవి గుణగణాల చేత ప్రసిద్ధి పొంది అన్వర్థాలైనాయి. ఆ సహస్రమయూఖుడు మనలను మన్నించి రక్షించుగాక.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment