नो मूर्च्छाच्छिन्नवाञ्छः श्रमविवशवपुर्नैव नाप्यास्यशोषी
पान्थः पथ्येतराणि क्षपयतु भवतां भास्वतोऽग्रेसरः सः ।
यः संश्रित्य त्रिलोकीमटति पटुतरैस्ताप्यमानो मयूखैः
आरादारामलेखामिव हरितमणिश्यामलामश्वपङ्क्तिम् ॥६०॥
अन्वयः– पटुतरैः मयूखैः ताप्यमानः यः आरात् आरामलेखामिव हरितमणिश्यामलाम् अश्वपङ्क्तिं संश्रित्य त्रिलोकीम् अटति, नोमूर्च्छाछिन्नवाच्छः, नैवश्रमविवशवपुः नापि आस्यशोषी, भास्वतः अग्रेसरः स पान्थः भवतां पथ्येतराणि क्षपयतु ॥६०॥
व्याख्या– पटुतरैः तीव्रैः मयूखैः किरणैः ताप्यमानः सन्तप्तः यः अरुणः आरात् समीपे, (आराद्दूरसमीपयोः इत्यमरः), आरामलेखाम् इव उपवनवृक्षश्रेणीमिव, हरितमणिश्यामलां हरितमणिरिव मरकतमणिरिव श्यामलां श्यामवर्णा, (उपमानानि सामान्यवचनैः इति समासः), अश्वपङ्क्तिम् अश्वश्रेणीं संश्रित्य आश्रित्य, त्रिलोकीं त्रयाणां लोकानां समाहारः त्रिलोकी, (अदन्ताद्द्विगुः स्त्रियामिष्टः), त्रिभुवनम् अटति धमति, नो मूर्च्छाछिन्नवाञ्छः छिन्ना वाञ्छा यस्य सः छिन्नवाञ्छः मूर्च्छया छिन्नवाञ्छः नो भवतीति नोमूर्च्छाछिन्नवाञ्छः, मोहात्। अत्यक्तजगद्भ्रमणाकाक्षः, नैव श्रमविवशवपुः, श्रमेण विवशं क्लान्तं वपुः शरीरं यस्य सः, नापि आस्यशोषी आस्ये वदने शोषः शुष्कता अस्यास्तीति आस्यशोषी भवति । भास्वतः सूर्यस्य अग्रेसरः अग्रगामी सः पान्थः अरुणः भवतां पथ्येतराणि अमङ्गलानि क्षपयतु नाशयतु । विशेषोक्तिरलङ्कारः ॥६०॥
भावार्थः– तीव्रातपतप्तः यः अरुणः समीपस्थाम् उपवनवृक्षपङ्क्तिमिव मरकतमणिवर्णाम् अश्वपङ्क्तिम् आश्रित्य त्रिभुवनं परिभ्रमति, सूर्यसत्रिकर्षात् तापं प्राप्यापि जगद्भ्रमणरूपं लक्ष्यं न त्यजति, न श्रान्तिं, नापि मुखे शुष्कताम् अनुभवति, सूर्यस्य अग्रगामी सः अरुणः भवताम् अमङ्गलं नाशयतु ॥६०॥
हिन्द्यर्थः– कडी धूपसे तपता हुआ जो अरुण पासवाले वनके सीमा वृक्षोंकी भाँति नीलमणि सदृश वर्णवाले अश्वोंका आश्रय कर तीन भुवन भ्रमण करते हैं, भ्रमसे भी अपने लक्ष्यसे विच्युत नहीं होते, फिर श्रमसे क्लान्त या शुष्कमुख नहीं होते, वह सूर्यके आगे चलनेवाले अरुण आप लोगोंके अमङ्गल नाश करें ॥६०॥
आङ्ग्लार्थः-- As a traveller, afflicted with scorching heat, takes rest under a shady tree of a garden and then proceeds further, so Aruna sitting ahead of the Sun takes resort to the horses of green emerald colour, resembling a range of trees and does not feel tired "or thirsty. Without deviating from his goal he moves across the three worlds. May that Aruna the fore-runner of the Sun, destroy all your evils. 60
తెలుగు అర్థం--
అడుగో! సూర్యరథంపై అరుణరాగరంజితుడై అనూరుడు దర్శనమిస్తున్నాడు.
సూర్యభగవానుని వాడి వేడి కిరణాల వల్ల అనూరుడు బాగా సంతప్యమానుడైనట్లున్నాడు. అయినా గారుత్మత మణులవలె శ్యామలమైన వర్ణంతో ఉన్న అశ్వసమూహాన్ని అతడు వనసమూహాన్ని చేరి ఉన్నట్లు సన్నిహితంగా చేరి ఉన్నాడు గదా. అందువల్ల అంత ఎండలోనూ అనూరుడు మూర్ఛపోలేదు. నిరంతరము ప్రయాణం చేస్తూ ఉన్నా కూడా డస్సిపోలేదు. వడగాడ్పులు వీస్తున్నా కూడా అతనికి నోరు ఎండిపోలేదు.
సూర్యునికి ముందు కూర్చొని ముల్లోకాలను ప్రతిరోజూ పర్యటించే ఆ బాటసారి అరుణుడు మీకు అహితాలు పోగొట్టి హితం చేకూర్చుగాక!
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment