Monday, June 25, 2018

सूर्यशतकम् - 98 (महाकवि-श्रीमयूरप्रणीतम्)

व्यग्रैरग्र्यग्रहेन्दुग्रसनगुरु भरैर्नो समग्रैरुदग्रैः
प्रत्यग्रैरीषदुग्रैरुदयगिरिगतो गोगणैर्गौरयन् गाम् ।
उद्गाढार्चिर्विलीनामरनगरनगग्रावगर्भामिवाह्नाम्
अग्रे श्रेयो विधत्ते ग्लपयतु गहनं स ग्रहग्रामणीर्वः ॥९८॥


अन्वयः– अह्नाम् अग्रे उदयगिरिगत; यः अध्यग्रहेन्दुग्रसनगुरुभरैः इव व्यग्रैः नो समग्रैः उदग्रैः प्रत्यग्रैः ईषदुग्रैः गोगणैः उद्गाढार्चिर्विलीनामरनगरनगग्रावगर्भां गां गौरयन् श्रेयः विधत्ते सः ग्रहग्रामणीः वः गहनं ग्लपयतु ॥९८॥

व्याख्या– अह्नां दिवसानाम् अग्रे प्रभाते उदयगिरिगतः उदयाचलमाश्रितः यः सूर्यः अध्यग्रहाश्च इन्दुश्च तेषां ग्रसनम् ग्रासः तेन गुरुः भरः भारः येषां तैः इव व्यग्रैः नो समग्राः अर्चिभिः उदग्रैः उन्नतैः प्रत्यग्रैः नूतनैः ईषदुग्रैः अल्पोष्णैः (बालत्वात्)  गोगणैः किरणसमूहैः उद्गाढार्चिर्विलीनाम् उद्गाढाभिः अर्चिर्भिः किरणैः, विलीना व्याप्ता, अमरनगरनगग्रावगर्भाम् अमराश्च नगराणि च नगाश्च ग्रावाणश्च गर्भे यस्याः तां देवनगरवनपर्वतपाषाणपूर्णां, गां पृथिवीं, गौरयन् धवलयन् श्रेयः मङ्गलं विधत्ते सम्पादयति, सः ग्रहग्रामणीः ग्रहमुख्यः रविः वः युष्माकं गहनं दुखं ग्लपयतु शमयतु । [गहनं गहने दुःखे विपिने कलिलेऽपि च इति विश्वः] । वृत्त्यनुप्रासोऽलङ्कारः ॥९८॥

भावार्थः– दिवसारम्भे सूर्यः स्वतेजसा ग्रहान् चन्द्रं च ग्रसन् गुरु भरादिव व्यग्रैः अपूर्णैः अल्पोद्गतैः नूतनैः अनुष्णैः किरणैः देवतानगराद्रिपाषाणादिभिः पूर्णां पृथिवीम् आलोकयन् जगतां मङ्गलं कुरुते । ग्रहमुख्यः सः सूर्यः युष्माकं दुःखं शमयतु । टिप्पणी- 'ग' इत्यस्य चतुर्विंशतिवारप्रयोगः कवेः अनुप्रासमोहं प्रकटयति ॥९८॥

हिन्द्यर्थः– सब दिवसोंके प्रारम्भमें उदयगिरि पर जो प्रमुख ग्रह और चन्द्रको ग्रास करनेसे मानो भारी होकर चञ्चल, असमग्र, उन्नत, ईषदुग्र तथा नूतन किरणोंके प्रवाहसे देवता, नगर, पर्वत, प्रस्तरादियोंको गर्भमें धारण करनेवाली पृथिवीको धवलित कर मङ्गल विधान करता है, ग्रहराज वह सूर्य आप लोगोंके दुःख शान्त करें ॥९८॥

आङ्ग्लार्थः-- The Sun appears on Udayagiri in the early morning. He sends his fierce rays upwards, overpowers the leading planets and moon; and emits his newly emerging rays to white-wash the earth full of divinities, cities, mountains and stones. May that Sun the Chief of the planets, destroy your sins. 98

తెలుగు అర్థం--
    అడుగో, సహస్రకిరణుడు సత్వరం వస్తున్నాడు. సూర్యప్రభలు సర్వప్రదేశాలు వ్యాపిస్తున్నాయి. ఏమి ద్యుతికరాలు! వరాల వన్నెలు విరబోస్తున్నాయి.
    ఉదయపర్వతం మీద అభ్యుదయకరాలు కోకొల్లలుగా ప్రసరిస్తున్నాయి. ఈ కిరణాలు ప్రాచీనదిశలోని గ్రహాలను నక్షత్రాలను చంద్రుడిని అంధకారాసురుల్ని మింగేస్తున్నాయి. మొదట అసంపూర్ణంగా దిశాంగణం ఉన్న కిరణాలు క్రమక్రమంగా సంపూర్ణవ్యోమాన్ని ఆక్రమించి ప్రకాశిస్తున్నాయి.
    ఆ పూర్ణజ్యోతులు సంపూర్ణాలు. స్వయం ప్రకాశాలు. అవి తగినంత ఉష్ణంకలవై లోకానికి తగినవై రాణిస్తున్నాయి. అవి సువర్ణ కిరణాలు. కాసేపటికి అరుణకిరణాలు. మధ్యాహ్నానికి మహోష్ణకిరణాలు. భూమిమాతకు సురవ్ణ ఆభరణాలు. సూర్యుడు సువర్ణమేరుగిరి శిఖరాలను తన తీక్ష్ణ కిరణాలతో కరిగించి, భూమాతకు బంగారు మలాం పూత పూస్తున్నాడా అన్నట్లున్నాడు.
    ఆ సహస్ర కిరణుడు సహస్రవిధాలా ప్రజాసహస్రాలకు ఉపకృతి చేస్తుంటాడు.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment