शातः श्यामालतायाः परशुरिव तमोऽरण्यवह्नेरिवार्चिः
प्राच्येवाग्रे ग्रहीतुं ग्रहकुमुदवनं प्रागुदस्तोऽग्रहस्तः ।
ऐक्यं भिन्दन् द्युभूम्योरवधिरिव विधातेव विश्वप्रबोधे
वाहानां वो विनेता व्यपनयतु विपन्नाम धामाधिपस्य ॥५४॥
अन्वयः– श्यामालतायाः शातः परशुः इव, तमोऽरण्यवह्नेः अर्चिः इव, प्राक् प्राचि अग्रे एव ग्रहकुमुदवनं ग्रहीतुम् उदस्तोऽग्रहस्तः, द्युभूम्योः ऐक्यं भिन्दन् अवधिः इव, विश्वप्रबोधे विधाता इव, धामाधिपस्य वाहानां विनेता वः विपत् नाम व्यपनयतु ॥५४॥
व्याख्या– श्यामालतायाः श्यामा रात्रिः एव लता तस्याः शातः तीक्ष्णः परशुः कुठारः इव, तमोऽरण्यवह्नेः तमः एव अरण्यं तस्य वह्नेः अर्चिः शिखा इव, प्राक् आदौ प्राचि पूर्वस्यां दिशि, अग्रे एव दृश्यमानं ग्रहकुमुदवनं, ग्रहाः एव कुमुदवनं तत् ग्रहीतुम् उदस्तोऽग्रहस्तः, उदस्तः ऊर्ध्वः कृतः अग्रहस्तः इव, द्युभूम्योः द्यौश्च भूमिश्च द्युभूमी तयोः स्वर्गमर्त्ययोः ऐक्यं भिन्दन् अपनयन् अवधिः सीमा इव, विश्वप्रबोधे विश्वस्य प्रबोधे जागरणे विधाता प्रजापतिः इव, धाम्नां तेजसाम् अधिपस्य सूर्यस्य वाहानाम् अश्वानां विनेता चालकः अरुणः वः युष्माकं विपन्नाम विपदं, नाम इति अव्ययं तदर्थकम् व्यपनयतु विनाशयतु । मालोपमालङ्कारः ॥५४॥
भावार्थः– रात्रिलतायाः छेदने तीक्ष्णः कुठार इव तमोऽरण्यदहने वनाग्नेः शिखा इव द्योतमानः, प्राच्यां दिशि आदौ ग्रहरूपं कुमुदवनं ग्रहीतुं प्रसारितकरः इव, स्वर्गमर्त्ययोः सीमाभेदक इव लक्ष्यमाणः, जगज्जागृतिहेतुः ब्रह्मेव, सूर्याश्वानां चालकः अरुणः युष्माकं विपदं दूरयतु ॥५४॥
हिन्द्यर्थः– रात्रि रूपी लताकी छेदनेमें तीक्ष्णा कुठारकी भाँति, अन्धकाररूपी अरण्यमें प्रदीप्त अग्निज्वालाके समान, पूर्वदिशामें पहले नक्षत्र और कुमुदोंको अपहरण करनेकेलिए कर बढाने वाले, आकाश और पृथिवीकी एकरूपता दूर करनेवाली सीमा रेखाके सदृश, संसार सृष्टि करनेवाले विधाताके तुल्य, सूर्याश्वोंके चालक अरुण आप लोगोंके विपद दूर करं॥५४॥
आङ्ग्लार्थः-- The controller of the horses of the supreme source of energy (viz. Sun) appears as a sharp-edged axe of the nightcreeper, and as a flame of fire, visible in darkness-forest. He stretches his hands upwards to grab first the planet-lilies of the east. He looks like a demarcatng line between the earth and the sky. He also appears as the Vidhata (creator) in awakening the universe. May he remove all your difficulties. 54
తెలుగు అర్థం--
అడుగో, అనూరుడు కాంతికిరణాలతో కనిపిస్తున్నాడు. అతడు అతిలోకవీరుడు. అంతేకాదు. అసహాయ శూరుడు. ఆ అనూరుడు అడ్డంగా అల్లుకుపోయే రాత్రి అనే విషవృక్షాలకు గండ్రగొడ్డలి వంటివాడు.
ఆయన అంధకారమనే అరణ్యానికి దావాగ్ని వంటివాడు. అతడు అనూరుడే కానీ కార్యరంగంలో అనుపమాన ధీరుడు.
పద్మినికి బాధాకరములైన కలువలనే గ్రహాలను నేర్పుగా తొలగించటంలో సమర్థుడు. ఆయన భూమ్యాకాశాలు పెనవేసుకుని పోతుంటే బాటసారులకు తెలియచెప్పటానికి అవధి గీస్తున్నాడు. ఆయన విశ్వానికి జ్ఞాన ప్రబోదం చేయటంలో బ్రహ్మదేవుడంతటి వాడు. ఆదిత్య అశ్వసంచాలకుడైన అనూరుడు మీ అందరు ఆపదలను తొలగించుగాక.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment