॥अथ रथवर्णनम् ॥
पीनोरःप्रेरिताभ्रैश्चरमखुरपुटाग्रस्थितैः प्रातरद्रौ
आदीर्घाङ्गैरुदस्तो हरिभिरपगतासङ्गनिःशब्दचक्रः ।
उत्तानानूरुमूर्धावनतिहठभवद्विप्रतीपप्रणामः
प्राह्णे श्रेयो विधत्तां सवितुरवतरन् व्योमवीथीं रथो वः ॥६२॥
अन्वयः– प्रातः अद्रौ पीनोरःप्रेरिताङ्गैः चरमखुरपुटाग्रस्थितैः आदीर्घाङ्गैः हरिभिः उदस्तः अपगतासङ्गनिश्शब्दचक्रः उत्तानानूरुमूर्धावनतिहठभवद्विप्रतीपप्रणामः, प्राह्रे व्योमवीथीम् अवतरन् सवितुः रथः वः श्रेयः विधत्ताम् ॥६२॥
व्याख्या– प्रातः प्रभाते अद्रौ पर्वते मेरौ पीनोरःप्रेरिताग्रैः पीनं पृथुलं यत् उरः वक्षः तेन प्रेरितानि अभ्राणि मेघाः यैः तैः, चरमखुरपुटाग्रस्थितैः चरमं खुरपुटं तस्य अग्रे स्थितैः आदीर्घाङ्गैः आ समन्तात् दीर्घाणि अङ्गानि येषां तैः, हरिभिः अश्वैः उदस्तः ऊर्ध्वं नीतः ऊर्ध्वमुखः इत्यर्थः, अपगतासङ्गनिश्शब्दचक्रः अपगतः यः आसङ्गः भूमिसम्पर्कः तेन निःशब्दं चक्रं यस्य सः, उत्तानः ऊर्ध्वमुखः यः अनूरुः तस्य यः मूर्धा मस्तकं तस्य अवनत्या अवनमनेन हठेन बलात् भवन् सम्पन्नः विप्रतीपप्रणामः विपरीतप्रणतिः यस्मिन् सः, पाह्णे पूर्वाह्णे व्योमवीथीम् आकाशमार्गम् अवतरन् सवितुः सूर्यस्य रथः वः युष्माकं श्रेयः मङ्गलं विधत्तां विदधातु ॥६२॥
भावार्थः– प्रातः मेरुपर्वतोपरि मेघान् अपसार्य अग्रखुरान् उत्तोल्य धावद्धिः दीर्घकायैः अश्वैः ऊर्ध्वमुखीकृतः भूमिसम्पर्कराहित्यात् निश्शब्दचक्रः अनूरुमुखस्य पश्चात् अवनत्या बलात् वैपरीत्येन सम्पादितप्रणामः, पूर्वाह्णे आकाशपथम् अवतरन् सवितुः रथः युष्माकं मङ्गलं करोतु ॥६२॥
हिन्द्यर्थः– प्रभातमें पृथुल वक्षस्थलसे मेघोंको ढकेल कर जानेवाले और खुरोंके अग्रभाग पर दौड़नेसे दीर्घाङ्ग अश्वोंके द्वारा ऊर्ध्वमुख, भूमि पर चक्र न लगनेसे निश्शब्द, रथमें बैठे हुए अनुरूको पीछेसे झुके हुए सिरसे विलोम प्रणाम कराने वाला, सबेरे आकाश मार्गमें अवतीर्ण सूर्यके रथ आप लोगोंके मङ्गल विधान करें ॥६२॥
आङ्ग्लार्थः-- The horses stand on the tips of hoofs of hind legs, lengthen their bodies, push forward the clouds with their robust breasts and draw the chariot upwards in the early morning resulting in the reverse Pranama of Anuru with head bending backwards. The Chariot did not produce then any sound due to non-contact with land. That Chariot of the Sun, coming back to normal position in the path of the sky in forenoon, may Bless you with good fortune. 62
తెలుగు అర్థం--
అదిగో, ఉదయమవుతున్నది. అభ్యుదయమవుతున్నది. సూర్యరథం తూర్పు కొండశిఖరాల పైనుంచి వస్తున్నది.
గుర్రాలు తమ గమనం వేగం వల్ల విపుల వక్షాలతో జీమూత సమూహాలను చెదరగొడుతున్నాయి. ఆ అశ్వాలు పురవులు తీస్తూ ఉదయాద్రి పైన వెనక కాళ్ళ గిట్టలు మాత్రం ఒక్కసారి ఆనించినట్లు తోస్తున్నది. ఆ గుర్రాలు శరీరాలు సుదీర్ఘాలు. సువిశాలాలు, సుందర ఆయతాలు.
అలాంటి సర్వశ్రేష్ఠ గంధర్వజాతి హయాలు కనుకనే అవి నిత్యం సూర్యరథాన్ని లాగగలుగుతున్నాయి.
ఆ రథం ఏకచక్రశోభితం. ఆ స్యందనానికి ఎదురు లేదు. ఆ రథం చక్రాలకు అసలు రోదలే ఉండవు. అలాంటి అత్యద్భుత రథాన్ని అతివేగంగా చాకచక్యంగా సారథి నడుపుతున్నాడు. ఆ వేగగమనంలో అనూరుని నమస్కారమును అందుకొంటున్న ఆ సూర్యరథం మీకు శుభాలను అనుగ్రహించుగాక.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment