Monday, June 25, 2018

सूर्यशतकम् - 65 (महाकवि-श्रीमयूरप्रणीतम्)

एकाहेनैव दीर्घां त्रिभुवनपदवीं लङ्घयन् यो लघिष्ठः
पृष्ठे मेरोर्गरीयान् दलितमणिदृषत्त्वींषि पिंषञ्शिरांसि ।
सर्वस्यैवोपरिष्टादथ च पुनरधस्तादिवास्ताद्रिमूर्न्धि
ब्रध्नस्याव्यात् स एवं दुरधिगमपरिस्पन्दनः स्यन्दनो वः ॥६५॥


अन्वयः– यः एकाहेन एव दीर्घा त्रिभुवनपदवीं लङ्घयन् लघिष्ठः मेरोः पृष्टे दलितमणिदृषत्त्वींषि शिरांसि पिंषन् गरीयान्, सर्वस्य एव उपरिष्ठात्, अथ च पुनः अस्ताद्रि मूर्ध्नि अधस्तात् इव, एवं दुरधिगमपरिस्पन्दनः सः ब्रध्नस्य स्यन्दनः वः अव्यात् ॥६५॥

व्याख्या– यः रथः एकम् अहः एकाहः तेन एकेनैव दिवसेन, राजाह इत्यादिना टचि टिलोपः, दीर्घा त्रिभुवनपदवीं त्रयाणां भुवनानां समाहारः त्रिभुवनं, तस्य पदवीं मार्गं लङ्घयन् लघिष्ठः (क्षेपिष्ठः), मेरोः पृष्टे दलितमणिदृषत्त्वींषि दलिताः याः मणिदृषदः मणिशिला; तासां त्विट् येषु तानि शिरांसि शिखराणि पिंषन् चूर्णयन् गरीयान् ईयसुनि, प्रियस्थिर इत्यादिना गुरोर्गरादेशः सर्वस्य उपरिष्टात् ऊर्ध्वं विद्यमानः, अथच पुनः अस्ताद्रिमूर्ध्नि अस्ताचलस्य शिरोदेशे अधस्तात् इव नीचैः दृश्यमानः, एवं दुरधिगमं दुर्विज्ञेयं परिस्पन्दनं व्यापारः यस्य तथाभूतः, सः ब्रध्नस्य सूर्यस्य, (भास्कराहस्कर ब्रघ्नप्रभाकरविभाकराः इत्यमरः), स्यन्दनः रथः वः युष्मान् अव्यात् रक्षतु । लघिष्ठोऽपि गरीयान् उपरिस्थितोऽपि अधःस्थः इति विरोधः, दुरधिगमव्यापारत्वात् तत्परिहारः ॥६५॥

भावार्थः– सूर्यस्य रथः अतीव क्षिप्रगामी, यतः एकेनैव दिवसेन त्रिभुवनं परिक्रामति । मेरोः मणिशिलाभिः दीप्यमानानि शिखराणि पिनष्टि, अतः सोऽपि गरीयान् । पुनश्च सर्वस्य उपरिष्ठात् व्रजन्नपि अस्ताद्रिशिखरे अधोदृष्टः भवति, एवं दुरधिगमव्यापारः असौ रथः युष्मान् रक्षतु ॥६५॥

हिन्द्यर्थः– एक दिनमें दीर्घ त्रिभुवन मार्गको लंघन करनेसे जो लघिष्ठ हैं; मेरुके पृष्ठमें मणिशिलाओंकी कान्तिसे शोभित शिवकी भाँति शिखरोंको दलित करनेसे गरीयान् सबके ऊपर होनेसे भी अस्ताद्रि शिखरके नीचे भी चलनेवालेकी तरह, अचिन्त्य गतिवाला वह सूर्यरथ आप लोगोंकी रक्षा करें ॥६५॥

आङ्ग्लार्थः-- The Chariot of the Sun is the lightest, for it covers the long path of the three worlds in a day. It is heavier also as it pounds to dust the peaks shining with particles of gem-stones on the surface of Meru. It remains above all, but is seen below the peak of Astadri. Thus, the Chariot whose movement is beyond comprehension may protect you. 65

తెలుగు అర్థం--
    అదిగో, రమణీయ రవిరాజ రథం వస్తున్నది. వస్తూ వస్తూ ఎన్నెన్నో శుభములను తెస్తున్నది. ఆ రథం తత్త్వం తెలుసుకోవటం ఎవరికీ సాధ్యం కాదు.
    ఆ సూర్యస్యందనం ఒక్కరోజులోనే త్రిభువనమంతా అతి సులభంగా ప్రయాణం చేసి ‘లాఘవం’ ప్రదర్శిస్తున్నది. ఆ స్యందనం మేరుపర్వతం పైనుండే వజ్ర మణిమయ శిఖరాలను చక్రఘాతాలచేత చూర్ణం చేసి తన గౌరవం నిలుపుకొంటున్నది.
    ఆ రథం విశ్వం ఊర్ధ్వ భాగంపై విశిష్ట విలక్షణ కాంతులతో విరాజిల్లుతున్నది. సాయం సమయంలో అస్తాద్రిని చేరి విశ్వానికి క్రింది భాగంలో సంచరిస్తున్నది.
    ఈ రథం తత్త్వం ఎవరికీ అర్థమయ్యేది కాదు. ఇది లఘువో గురువో సర్వోపరియో సర్వమూల ప్రాయమో తెలియటం లేదు. ఇటువంటి అంతుపట్టని పరమాత్మ తత్త్వం గల సూర్యరథం ప్రజలను సంరక్షించుగాక. 

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment