संसक्तं सिक्तमूलादभिनवभुवनोद्यानकौतूहलिन्या
यामिन्या कन्ययेवामृतकरकलशावर्जितेनामृतेन ।
अर्कालोकः क्रियाद्वो मुदमुदयशिरश्चक्रवालालवालात्
उद्यन्बालप्रवालप्रतिमरुचिरहःपादपप्राक्प्ररोहः ॥३४॥
अन्वयः– अभिनवभुवनोद्यानकौतूहलिन्या कन्यया इव यामिन्या अमृतकरकलसावर्जितेन अमृतेन संसक्तं सिक्तमूलाद् उदयशिरश्चक्रवालालवालात् उद्यन् बालप्रवालप्रतिमरुचिः, अहः पादपप्राक्प्ररोहः अर्कालोकः वः मुदं क्रियात् ॥३४॥
व्याख्या– अभिनवं भुवनं संसार एव उद्यानं तत्र कौतूहलिन्या कौतुकिन्या कन्यया इव यामिन्या रात्र्या कर्त्र्या अमृतकरः सुधाकरः चन्द्रः स एव कलसः घटः तेन आवर्जितेन दत्तेन अमृतेन जलेन संसक्तं निरवच्छिन्नं क्रियाविशेषणं, सिक्तं मूलं यस्य तस्माद् उदयशिरश्चक्रवालम् उदयाद्रिशृङ्गमण्डलम् एव आलवालम् आवालं तस्मात् उद्यन् उद्भवन् बालप्रवालप्रतिमः बालप्रवालः इव बालप्रवालप्रतिमः अस्वपदविग्रहः, ('स्युरुत्तरपदेत्वमी निभसंकाशनीकाशप्रतीकाशोपमादयः' इत्यमरः) । (नूतनकिसलयतुल्यः प्रवालोऽस्री किसलये वीणादण्डे च विद्रुमे इति मेदिनी) । बालप्रवालप्रतिमा रुचिः कान्तिः यस्य सः, अहः दिवस एव पादपः, तस्य प्राक् प्ररोहः प्रथमाङ्कुरः अर्कालोकः सूर्यालोकः वः युष्माकं मुदम् आनन्दं क्रियात् करोतु । उपमारूपकयोः सङ्करः ॥३४॥
भावार्थः– नूतनभुवनोद्याने न, सृष्ट्यै कौतुकिनी कन्या इव यामिनी चन्द्ररूपेण घटेन उदयाचलस्य शिखरमण्डलरूपे आलवाले जलं दत्तवती । तेन सिक्तात् मूलात् उद्भूतः नवप्रवालतुल्यकानि दिवसवृक्षस्य प्रथमाङ्कुरः सूर्यालोकः युष्मान् आनन्दयतु । टिप्पणी-मनोहारिणीयं कल्पना उपमायाः परां कोटिं स्पृशति ॥३४॥
हिन्द्यर्थः– नया भवन-उद्यान बनाने के लिए कुतुहली कन्याके समान रात चाँद रूपी कलससे उदयाचलके शिरोमण्डल रूप आलवालमें पानी देने लगी । उस आलवालसे निर्गत, नई पल्लवकी भाँति दृश्यमान, दिवसरूप पेडका नया अङ्कुर, सूर्यके आलोक आप लोगोंको आनन्द प्रदान करें ॥३४॥
A night-like maiden desiring to make a new world-like garden waters the peak-like basin (alavala) of udayagiri with a moon-like pitcher. From that wet basin bursts forth a solar raylike sprout of the day-tree. May that ray emerging like a new shoot give you happiness. 34
తెలుగు అర్థం--
రేరాణికి ఒక కుతూహలం కలిగింది. ఉద్యాన వనం చేసుకొంటే ఎంత అందంగా ఉంటుంది అనిపించింది.
ఆమె అమృత కిరణుడిని జలకలశంగా స్వీకరించింది. భువనమంతా అమృతమనే జలంతో తడపసాగింది. చల్లని అణృతకిరణాలు చక్కని జలధారలుగా భాసిస్తున్నాయి.
ఉదయపర్వతశిఖరాల ప్రాంతాన్ని ఆ కొంత పొడవుగా చేసుకొంది. అందులో దినవృక్షాన్ని జాగ్రత్తగా నాటింది. ఆ వృక్షం చిగురాలకులు తొడిగింది. ఆకులు పల్లవాలు అందంగా అయినాయి. ఆ పల్లవ ప్రవాళ కాంతులు దశదిశల వ్యాపించాయి. లోకం కుంకుమాంకితమైంది.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment