दत्तार्घैर्दूरनम्रैर्वियति विनयतो वीक्षितः सिद्धसार्थैः
सानाथ्यं सारथिर्वः स दशशतरुचेः सातिरेकं करोतु ।
आपीय प्रातरेव प्रततहिमपयःस्यन्दिनीरिन्दुभासो
यः काष्ठादीपनोऽग्रे जडित इव भृशं सेवते पृष्ठतोऽर्कम् ॥५२॥
अन्वयः– यः दत्तार्घैः दूरनम्रैः सिद्धसाध्यैः वियति विनयतः वीक्षितः, प्रातरेव प्रततहिमपयःस्यन्दिनीः इन्दुभासः आपीय जडित इव अग्रे काष्ठादीपनः पृष्ठतः अर्कं भृशं सेवते, सः दशशतरुचेः सारथिः वः सातिरेकं सानाथ्यं करोतु ॥५२॥
व्याख्या– यः सारथिः दत्तार्घैः दत्तः अर्घः यैः तैः दत्तपूजाद्रव्यैः (मूल्येपूजाविधावर्घः इत्यमरः), दूरात् नम्रैः सिद्धाश्च साध्याश्च तैः, गन्धर्वगणदेवताभिः विनयतः सविनयं वियति आकाशे वीक्षितः दृष्टः, प्रातः प्रभाते, एवेति निश्चिये प्रततहिमपयःस्यन्दिनीः प्रततं बहु यत् हिमपयः हिमजलं तस्य स्यन्दिनीः स्राविणीः इन्दुभासः चन्द्रद्युतीः आपीय जडितः इव शीतार्त इव, अग्रे काष्ठादीपनः काष्टं प्रज्वाल्य काष्ठानां दिशाम् (दिशस्तु ककुभः काष्ठा इत्यमरः), आदीपनः प्रकाशकः सन् पृलतः अर्कं सूर्यं भृशं सेवते, पृष्ठतोऽर्क निषेवेत जठरेण हुताशनम् इति विधेः, सः दशशतरुचेः दशशतं रुचयः यस्य तस्य सहस्रांशोः सारथिः अरुणः वः युष्माकं सातिरेकम् अतिरेकः आधिक्यम् तेन सह सातिरेकम् अतिशयेन इत्यर्थः, सानाथ्यं सनाथः सप्रभुः तस्य भावः सानाथ्यं करोतु, सर्वेषु विषयेषु प्रभुत्वं सम्पादयतु इत्यर्थः ॥५२॥
भावार्थः– दूरात् नम्राः सिद्धाः साध्याश्च यम् अर्घादिभिः तर्पयितुम् उत्कण्ठिताः सन्तः आकाशे अपेक्षमाणास्तिष्ठन्ति, यः हिमजलस्राविणीः चन्द्ररुचः निपीय प्रभाते शीतार्त इव अग्रे काष्ठावलीः (इन्धनानि दिशश्च) उद्दीप्य पृष्टतः अर्कं सेवते, सहस्रांशोः सूर्यस्य सारथिः स अरुणः युष्मान् बहुषु क्षेत्रेषु अधिकारिणः करोतु ॥५२॥
हिन्द्यर्थः– जिसको आकाशमें दूरसे आनत होकर सिद्ध और साध्य आराधना करते हैं, जो सबेरे हिमांशुके हिम जल पानकर शीतपीडित मानवके समान सामने काष्ठाओंको (दिशाओंको और लकडियाँ) उद्दीपित कर पृष्ठ भागसे सूर्यकी सेवा करते हैं, सहस्रांशु सूर्यके वह सारथि आप लोगोंको बहुत क्षेत्रमें अधिकारी करें॥५२॥
आङ्ग्लार्थः-- As a man bitten by cold, burns fire and sits facing to it with back towards the Sun, so the charioteer of Sahasrarisu (Sun), as if shivering after drinking lunar rays, that shower dew-drops, illuminates the kasthas (directions) keeping the Sun at his back. May that charioteer bless you with all essentials. 52
తెలుగు అర్థం--
అడుగో, సూర్యసారథి అనూరుడు వస్తున్నాడు. రాత్రి తెల్లవార్లూ మంచు కురుస్తుంటే ఆ చంద్రకిరణాలను అదే పనిగా త్రాగటం వల్లన చల్లదనం తలిగిస్తున్నట్టుంది. గజగజా వణికిపోతున్నాడు.
అందుకే కాబోలు, ఆయన ముందుగా కాష్ఠా దీపనం చేస్తున్నాడు. అప్పుడు, దిక్కులు వెలిగి కొంచెం వెచ్చబడుతున్నాయి. ఆయన చలి కాచుకొంటున్నాడు. కాష్ఠ అంటే దిక్కులు అని కఱ్ఱలు అని రెండు అర్థాలు.
మరొక ప్రక్క భక్తితో సూర్యుని సేవిస్తూ హయాలు తోలుతున్నాడు. అదుగో, అల్లంత దూరం నుంచే సిద్ధులు, సాధ్యులు, ఆదిత్యుడికి అంజలి ఘటిస్తూ, వినయంతో అనూరుణ్ణి తిలకిస్తున్నారు.
సూర్యరథసారథి అయిన అనూరుడు మీకు రక్ష కలిగించుగాక.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment