धूर्ध्वस्ताग्र्यग्रहाणि ध्वजपटपवनान्दोलितेन्दूनि दूरं
राहौ ग्रासाभिलाषादनुसरति पुनर्दत्तचक्रव्यथानि ।
श्रान्ताश्वश्वासहेलाधुतविबुधधुनीनिर्झराम्भांसि भद्रं
देयासुर्वो दवीयो दिवि दिवसपतेः स्यन्दनप्रस्थितानि ॥६६॥
अन्वयः– धूर्ध्वस्ताग्र्यग्रहाणि, ध्वजपटपवनान्दोलितेन्दूनि, ग्रासाभिलाषात् राहौ दूरात् अनुसरति, पुनः दत्तचक्रव्यथानि, श्रान्ताश्वश्वासहेलाधुतविबुधधुनीनिर्झराम्भांसि, दवीयोदिवि, दिवसपतेः स्यन्दनप्रस्थितानि वः भद्रं देयासुः ॥६६॥
व्याख्या– धुरा यानस्यपुरोभागेन, ध्वस्ताः दलिताः अग्र्यग्रहा मङ्गलादयः यैः तानि, ध्वजपटस्य पताकायाः पवनेन आन्दोलितः विकम्पितः इन्दुः चन्द्रः यै तानि ग्रासाभिलाषात् ग्रासेच्छया राहौ दूरात् अनुसरति अनुधावति, भावे सप्तमी, पुनः दत्ता चक्रेण व्यथा यैः तानि, श्रान्तानां क्त्वान्तानाम् अश्वानां श्वासेन हेलया धुतानि कम्पितानि विबुधधुन्याः स्वर्गङ्गायाः निर्झराम्भांसि प्रवाहजलानि यैः तानि, दवीयोदिवि दूरतरे व्योम्नि, दूर शब्दात् ईयसुनि, स्थूल दूर इत्यादिना सिध्यति । दिवसपतेः सूर्यस्य स्यन्दनप्रस्थितानि रथप्रसरणानि, सापेक्षत्वेऽपि गमकत्वात् समासः, वः युष्माकं भद्रं मङ्गलं देयासुः विदधतु ॥६६॥
भावार्थः– यदा सूर्यस्य रथः धुरा पुरोवर्तिनो ग्रहान् मङ्गलादीन् दलन् अग्रेऽसरत् तदा रथध्वजस्य पवनेन चन्द्रः आन्दोलितोऽभूत्, राहौ सूर्यं ग्रसितुं धावति, रथस्य चक्रेण पुनरपि तस्य व्यथा अजायत, श्रान्तानामश्वानां श्वासेन स्वर्गङ्गायाः प्रवाहः अकम्पत, दूरतरे व्योम्नि गच्छतः खे रथस्य ईदृक् गतिः युष्माकं मङ्गलं विदधातु ॥६६॥
हिन्द्यर्थः– अपने पुरोभागसे सम्मुख पतित ग्रहोंको मचलते हुए, रथके पताका वायुसे चन्द्रको कम्पित करने वाले, खानेकेलिए दूरसे दौड़नेवाले राहुको फिर चक्रव्यथा देनेवाले और थके हुए अश्वोंके साँससे स्वर्गङ्गाके जलको कम्पित कर दूर आकाशमें जानेवाले सूर्य रथके प्रस्थान आप लोगोंके मङ्गल विधान करें ॥६६॥
आङ्ग्लार्थः-- The movement of the Chariot of the lord of the day destroys the planets coming to the front, with the shaft. It swings the moon with the wind of the banner, inflicts pain with wheel on Rahu who pursues with the intention of swallowing and stirs the water of the heavenly river with heavy sighs of tired horses. May that Chariot moving far above in the sky give you happiness. 66
తెలుగు అర్థం--
అదిగో, మహారథం, మానవుల మనోరథం, సూర్యరథం, ఆకాశమహాపథంలో విశ్వోపకారియై అరుణరథం వస్తున్నది.
అదిగో, రథం అగ్రభాగం బాగా ప్రకాశిస్తున్నది. ఆ ప్రకాశంలోని తేజోజ్వాలలు కుజగ్రహాలకు అశనిపాతాలౌతున్నాయి. అదిగో, రథం పైన సౌవర్ణ పతాకం మెరుస్తున్నది. ఆ జెండా రెపరెపలగాలికి చంద్రుడంతటివాడు చలించిపోతున్నాడు.
అదిగో, ఆ పక్క చాటుచాటుగా వచ్చేది రాహువు. సూర్యుణ్ణే మింగాలని వాడి దురాలోచన. పొంచి పొంచి వస్తున్నాడు. వాడికి సూర్యరథం మఱల చక్రబాధ కలిగిస్తున్నది. అవిగో, సూర్యాశ్వాలు ఉదయం నుండి పరువెత్తి పరువెత్తి బడలికలు చెంది నిట్టూరుస్తున్నాయి పాపం. ఆ వేడి వేడి నిట్టూర్పులకు ఆకాశగంగాజల తరంగాలు చెదిరిపోతున్నాయి.
సూర్యరథం ఎంత అందంగా వస్తున్నది. బంగారు గంటలు మ్రోగుతున్నాయి. ఆ కింకిణీ ధ్వనులు ఆ రథగతులు ప్రజలకు సుగతులు కలిగించుగాక.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment