Monday, June 25, 2018

सूर्यशतकम् - 49 (महाकवि-श्रीमयूरप्रणीतम्)

धुन्वन्तो नीरदालीर्निजरुचिहरिताः पार्श्वयोः पक्षतुल्याः
तालूत्तानैः खलीनैः खचितमुखरुचश्च्योतता लोहितेन ।
उड्डीयेव व्रजन्तो वियति गतिवशादर्कवाहाः क्रियासुः
क्षेमं हेमाद्रिहृद्यद्रुमशिखरशिरःश्रेणिशाखाशुका वः ॥४९॥


 ॥इत्यश्ववर्णनम् ॥
 
अन्वयः– निजरुचिहरिताः पार्श्वयोः पक्षतुल्याः नीरदालीः धुन्वन्तः तातूत्तानैः खलीनैः भ्योतता लोहितेन खचितमुखरुचः वियति गतिवशात् उड्डीय इव व्रजन्तः, हेमाद्रिहद्यद्रुमशिखरशिराश्रेणिशाखाशुकाः अर्कवाहाः वः क्षेमं क्रियासुः ॥४९॥

व्याख्या– निजा स्वकीया या रुचिः कान्तिः तद्वत् हरिताः हरिद्वर्णाः पार्श्वयोः पक्षतुल्याः पक्षसदृशाः नीरदालीः मेघसंहतीः धुन्वन्तः कम्पयन्तः तालूत्तानैः तालु यावत व्यापिभिः तालु सलग्नैः इत्यर्थः, खलीनैः कविकाभिः भ्योतता क्षरता लोहितेन रक्तेन खचितमुखरुचः खचिता युक्ता मुखस्य रुक् कान्तिः येषां ते तथोक्ताः, वियति आकाशे गतिवशात् उड्जीय इव व्रजन्तः धावन्तः, हृद्याः द्रुमाः हद्यद्रुमाः मनोहरवृक्षाः हेमाद्रौ ये हृद्यद्रुमाः तेषां शिखराणि इव शिराश्रेणिः येषां तथाभूताः, शाखाशुकाः शाखाचारिणः शुकाः शाकपार्थिवादिवत् समासः, शाखामृगवत् प्रयोगः । अर्कवाहाः सूर्यस्य अश्वाः, वाजिवाहार्वगन्धर्वहयसैन्धवसन्तयः इत्यमरः । वः युष्माकं क्षेमं मङ्गल क्रियासुः कुर्वन्तु । उक्तेक्षालङ्कारः उपमा च ॥४९॥

भावार्थः– अश्वाः शुकाश्च हरिद्वर्णाः शुकानां पक्षाः सन्ति, अश्वानामपि पार्श्ववर्तिनी मेघमाला पक्षतुल्या, शुकाः लोहितमुखाः अश्वा अपि खलीनक्षतरुधिरेण रक्तमुखाः, शुकाः वियति उड्डीय यान्ति, आकाशे द्रुतं धावन्तोऽश्वा अपि तादृशाः ॥४९॥
अतएव अश्वशुकयोः सादृश्यं कल्पितं कविना । कस्यचित् मनोहरवृक्षस्य उपरिभागे विद्यमानासु शाखासु विचरन्तः शुका इव हेमाद्रेः शिखरप्रदेशाकाशे धावन्तः सूर्यस्य अश्वाः युष्माकं मङ्गलं विदधतु ।
टिणणी-केवलं शकारानुप्रासदृष्ट्या शिरत्श्रेणि पदं नात्र प्रयोज्य, साङ्गत्याभात् । तत् परिवर्त्य सुखाकाङ्क्षीति पाठ्यम् सुखमानन्दं, सुण्यु खम् आकाशं वा उट्टयनार्थम् आकाड्क्षन्तः शाखाशुकाः । एवं विधाने नार्थे वाधा, नापि अनुप्रासे ॥४९॥

हिन्द्यर्थः– अपने वर्णके समान और पंखकी भोति प्रतीत तुर्यं मेघमालाको कम्पित करके उडने की भोति दौडनेवाले, तालु मे लगे हुए लगामके कारण रक्तस्राव होनेसे रक्तमुख, हेमाद्रि वृक्षके शिखरके समान शिर धारण करनेवाले और शाखाओंमें तोतेके समान दृश्य हुए सूर्यके अश्व आप लोगोका मङ्गल करे॥४९॥

आङ्ग्लार्थः-- Like green-coloured parrots perched on the tree tops of the beautiful peaks of the golden mountain, flying with flapping their wings in the sky, the horses of the Sun smeared with blood' oozing out of the wounds made by bits of bridles in their mouths, gallop on separating the clouds, resembling wings in both sides. May those horses bless you.49
 ॥इत्यश्ववर्णनम् ॥

తెలుగు అర్థం--
    అది మేరు పర్వత ప్రాంతం. పర్వతం పైన చెట్లు నిండి ఆ పర్వతం ఒక మహావృక్షంగా కనిపిస్తున్నది. ఆకుపచ్చని సూర్యుని అశ్వాలు అక్కడకు చేరినప్పుడు ఆ వృక్షశాఖలపైన అందమైన చిలుకలు వాలినట్లు కనిపిస్తున్నాయి.
    చిలుకల రంగు పచ్చన. సూర్యాశ్వాల రంగు పచ్చన. రెక్కలలాగా కనిపించేవి పెద్ద పెద్ద మేఘాలు. అశ్వాల కాంతి వాటిమీద పడి ఆ మేఘాలు కూడా చిలుకల రెక్కలవలె పచ్చగా కనిపిస్తున్నాయి. అనూరుడు అశ్వాల కళ్ళాలు లాగి పట్టటం చేత వాటి దవడలపై రక్తం కారి చిలుకల ముక్కుల వలె ఎర్రగా ఉంది భ్రమ కలిగిస్తున్నాయి.
    అచ్చంగా చిలకలలాగానే సూర్యుని గుఱ్ఱాలు దౌడు తీస్తున్నాయి. ఆ గమన వేగంలో అశ్వాలు పర్వత వృక్షశాఖలపై బారులు తీర్చి కూర్చున్న చిలుకలా అన్నట్లు భ్రాంతి కలిగిస్తున్నాయి.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment