Sunday, June 24, 2018

सूर्यशतकम् - 35 (महाकवि-श्रीमयूरप्रणीतम्)

भिन्नं भासारुणस्य क्वचिदभिनवया विद्रुमाणां त्विषेव
त्वङ्न्नक्षत्ररत्नद्युतिनिकरकरालान्तरालं क्वचिच्च ।
नान्तर्निःशेषकृष्णश्रियमुदधिमिव ध्वान्तराशिं पिबन्स्तात्-
और्वः पूर्वोऽप्यपूर्वोऽग्निरिव भवदघप्लुष्टयेऽर्कावभासः ॥३५॥


अन्वयः– क्वचित् विद्रुमाणां त्विषा इव अभिनवया अरुणस्य भासा भिन्नं क्वचित् त्वङ्गन्नक्षत्ररत्नद्युतिनिकरकरालान्तरालं, नान्तर्निःशेषकृष्णश्रियम् उदधिम् और्वः अग्निः इव ध्वान्तराशिं पिबन् पूर्वः अपि अपूर्वः अर्कावभासः भवदघस्तुष्टये स्तात् ॥३५॥

व्याख्या– क्वचित् विद्रुमाणां प्रबालानां त्विषा कान्त्या इव अभिनवया नूतनया अरुणस्य भासा द्युत्या भिन्नं संवलितं क्वचित् नक्षत्राणि रत्नानि इव नक्षत्ररत्नानि त्वङ्गता स्फुरतां नक्षत्ररत्नानां या द्युतिः कान्तिः तस्याः निकरेण समूहेन करालं विचित्रं, न अन्तः निःशषा कृष्णा श्रीः कान्तिः यस्मात् तं, ध्वान्तराशेः विशेषणम् उदधिपक्षे स्फुरन्ति नक्षत्राणि इव रत्नानि, तेषां द्युतिनिकरेण करालम् अन्तः मध्यात् न निर्गताः शेषकृष्णश्रियः वासुकिविष्णुपद्माः यस्मात् तम् उदधिम् और्वः अग्निः बाडवानलः इव ध्वानाराशिम् अन्धकारसमूहं पिबन् पूर्वः प्राक्तनः अपि अपूर्वः असाधारणः अर्कावभासः सूर्यरश्मिः भवताम् अघप्लुष्टये पापदहनाय स्तात् भवतु । अलङ्कारः उपमा, सा च पूर्णा ॥३५॥

भावार्थः– क्वचित् अरुणस्य कान्त्या इव विद्रुमाणां प्रभया युक्तं, क्वचित् नक्षत्राणामिव रत्नानां द्युतिनिकरैः दध्नि शेषकृष्णश्रीभिः शोभितम् उदधिं पिबन् वडवानलः इव, विद्रुमप्रभया समुद्र इव अरुणकान्त्या युक्तं, रत्नैः उदधिरिव, नक्षत्रैः उद्भासितं ध्वान्तराशिं पिबन् दृष्टपूर्वोऽपि अपूर्वः असाधारणः सूर्यमयूखः भवतां पापराशिं दहतु । प्रवालानां रत्नानां च कान्त्या समुद्र इव अरुणस्य नक्षत्राणां च प्रभया ध्वान्तराशिः संवलितः, शेषकृष्णश्रीभिः युक्तं समुद्रं पिबन् वडवाग्निः इव, अवशिष्टं भध्वान्तराशिं नाशयन् रश्मिराशिः वः पापं दहतु इत्यर्थ ॥३५॥

हिन्द्यर्थः– कहाँ-कहाँ प्रवालोंकी कान्तिसे समुद्रके सदृश, अरुणके नई प्रभासे युक्त, कहीं कहीं चमकती हुई ताराओंके सदृश रत्नोंके तेजसे विचित्र, अन्दरमें वासुकि विष्णु और लक्ष्मीको धारण करने वाले, काले समुन्द्रके जलको पीनेवाला वाडवाग्निके समान अन्धकारका नाश करनेवाले सूरजके पुराना होते हुए भी नवीन अनोखा तेज आप लोगोंके पाप क्षय करें ॥३५॥

आङ्ग्लार्थः-- The rays of the Sun remove the darkness like submarine fire consuming water of the ocean where in the shining corals look like the lustre of Aruna, gems emitting beams look as flickering stars and make the interior more vicious and wherefrom internal darkness is not removed. May those well-known and wonderful rays of the Sun burn all your sins. 35

తెలుగు అర్థం--
    అదిగో సూర్యోదయం అయింది. స్వామి సహస్ర కిరణాలు సువర్ణ ఆభరణాలై వసుంధరను అలంకరించాయి. ఆ కిరణకాంతులు అనేకరకాలు. ఎంత బాగున్నాయి!
    ఆ సూర్యదేవుని కిరణాలు భువన భవన ప్రాంగణంలో ఒకచోట పగడాలు ఆరబోశాయి. అవే మయూఖాలు మరొక చోట నక్షత్రాలనే రతనాల రాశుల వలె మిలమిల మెరుస్తున్నాయి. హరినీలమణులు పరిచినట్లు అంధకారం అక్కడక్కడా విలసిల్లుతున్నది. అంతర్నిఃశ్శేష కృష్ణశ్రీలతలతో ఆ దృశ్యం వినూతనంగా ఉన్నది.
    మరికొంత సేపు చూడగా చిమ్మచీకటి అనే సముద్రాన్ని బడబాగ్ని నోరు తెరిచి గ్రహిస్తున్నదా అనే ఊహ కలుగుతున్నది. ఇట్లా ఆధిత్య సత్య తేజస్సు వివిధ భంగిమలలో దృశ్యమానం అవుతున్నది. 

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment