Monday, June 25, 2018

सूर्यशतकम् - 82 (महाकवि-श्रीमयूरप्रणीतम्)

भासामासन्नभावादधिकतरपटोश्चक्रवालस्य तापात्-
छेदादच्छिन्नगच्छत्तुरगखुरपुटन्यासनिःशङ्कटङ्कैः ।
निःसङ्गस्यन्दनाङ्गभ्रमणनिकषणात्पातु वस्त्रिप्रकारं
तप्तांशुस्तत्परीक्षापर इव परितः पर्यटन् हाटकाद्रिम् ॥८२॥


अन्वयः– भासाम् आसन्नभावात् अधिकतरपटोः चक्रवालस्य तापात्। अच्छिन्नगच्छतुरगखुरपुटन्यासनिःशङ्कटङ्कैः छेदात् नित्सङ्गस्यन्दनाङ्गप्रमणनिकषणात् त्रिप्रकारं तत्परीक्षापरः इव हाटकाद्रिं परितः पर्यटन् तप्तांशुः वः पातु ॥८२॥

व्याख्या– अत्र स्वर्णकार इव सूर्यः हेमाद्रिं त्रिधा परीक्षते, भासाम् त्विषाम् आसन्नभावात् नैकट्यात्। अधिकतरपटोः पटुतरस्य चक्रवालस्य मण्डलस्य तापात् तापं विधाय इत्यर्थः (ल्यप् लोपे पञ्चमी), अनेन अग्निदाहो दर्शितः, अच्छिन्नं निरन्तरं गच्छन्तः ये तुरगाः अश्वाः तेषां खुरपुटन्यासः एव निःशङ्कटङ्कः, (टङ्कः पाषाणदारणः इत्यमरः), तैः छेदात्। छेदं सम्पाद्य, नित्सङ्गस्यन्दनाङ्गप्रमणनिकषणात् निःसङ्गम् असक्तं सत् चलत् यत् स्यन्दनाङ्गं चक्रं तस्य भ्रमणेन पूर्णनेन निकषणात् रेखां निपात्य इत्यर्थः, त्रिप्रकारं, तापनच्छेदननिकषणरूपेण त्रिधा तत्परीक्षापरः हेमाद्रेः हेमपरीक्षणरतः इव हाटकाद्रिं स्वर्णाद्रिं मेरुं परितः पर्यटन् परिक्रामन् तप्तांशुः उष्णांशुः रविः वः युष्मान् पातु रक्षतु । उत्प्रेक्षालङ्कारः ॥८२॥

भावार्थः– प्रथमतः निकटवर्तिनः मण्डलस्य तापेन, द्वितीयतः टङ्कायमानानां तुरगखुरपुटानां न्यासात् जायमानेन छेदेन, तृतीयतः निरन्तरं चलतः चक्रस्य गतिपथरेखया निकषणेन हेमाद्रेः स्वर्णं त्रिधा परीक्षमाणः इव अद्रिं परितः पर्यटन् रविः युष्मान् रक्षतु ॥८२॥

हिन्द्यर्थः– समीप होनेसे अति प्रचण्ड मण्डलके तापसे, निरन्तर चलते हुए अश्वोंके टङ्क (छोनी) के सदृश खुरोंसे काटकर और लग्न न होकर चलता हुआ रथचक्रके भ्रमण रेखा युक्त कसौटीसे तीन प्रकार परीक्षा करनेकी भाँति हेमाद्रिकी चार ओर घूमते दूर रवि आप लोगोंकी रक्षा करें ॥८२॥

आङ्ग्लार्थः-- The Sun moving around the golden mountain tests its gold in three-fold manner viz. by heating it with bright rays, by cutting with pickaxe-like hoofs of continuously running horses, and by rubbing with moving wheel of the chariot. May that Sun save you. 82

తెలుగు అర్థం--
    అడుగో! ప్రభాకర సార్వభౌముడు వస్తున్నాడు. మేరు పర్వతశిఖరం సమీపానికి దయచేశాడు. అడుగో కరణామూర్తి.
    సూర్యుడు మేరుపర్వత సమీపంలో ఉండటం చేత కాబోలు, కాంతి సముదాయం తీక్ష్ణమైంది. తాపం మరీ ఎక్కువైంది. సూర్యాశ్వాలు పరుగులు పెడుతున్నాయి. గరపనేలాయె. మండుటెండలో కూడా మహావేగం పుంజుకుంటున్నాయి. ఆ గుర్రాల గిట్టలు ఉక్కు ఉలులవలె స్వర్ణ పాషాణాలను ఛేదిస్తున్నాయి.
     ఆ సూర్యరథం ఆఘమేఘాలపై పరుగిడుతున్నది. రథచక్రం భ్రమణం వల్ల విశేషంగా ఒరిపిడి కలుగుతున్నది.
    ఆ సూర్యభగవానుడు ఈ విధంగా మువ్విధాలుగా బంగరు కొండను పరీక్షిస్తున్నాడా అన్నట్లున్నాడు.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment