Monday, June 25, 2018

सूर्यशतकम् - 101 (महाकवि-श्रीमयूरप्रणीतम्)

श्लोका लोकस्य भूत्यै शतमिति रचिताः श्रीमयूरेण भक्त्या
युक्तश्चैतान्पठेद्यः सकृदपि पुरुषः सर्वपापैर्विमुक्तः ।
आरोग्यं सत्कवित्वं मतिमतुलबलं कान्तिमायुःप्रकर्षं
विद्यामैश्वर्यमर्थं सुतमपि लभते सोऽत्र सूर्यप्रसादात् ॥१०१॥


अन्वयः– श्रीमयूरेण भक्त्या लोकस्य भूत्यै इति शतं श्लोका रचिताः । एतान् यः युक्त सकृदपि पठेत् स पुरुषः सर्वपापैः विमुक्तुः आरोग्यं, सत्कवित्वं, मतिम् अतुलबलं, कान्तिं आयुःप्रकर्षं, विद्याम् ऐश्वर्यम् अर्थं, सुतमपि अत्र सूर्यप्रसादात् लभते ॥१०१॥

हिन्द्यर्थः– श्री मयूर के द्वारा भक्तिसे लोगोंकी रक्षाके लिए एक सौ श्लोक रचना किये गये हैं । इनको भक्तिके साथ एक बार जो पढ़ता है, वह सर्व पापसे मुक्त होकर सूर्यकी दयासे नीरोग, सुकवि, बुद्धिमान्, बलवान् कान्तिमान्, दीर्घायु, विद्वान् धनशाली, ऐश्वर्यसम्पन्न और पुत्रवान् होता तै॥१०१॥

आङ्ग्लार्थः-- These hundred slokas have been composed by Sri Mayura out of devotion for the benefit of the people. One who reads them with sincerity even once becomes free from all sins and gets health excellent poetic talent, wisdom incomparable strength, lustre, longlife, learning, prosperity, riches, and offsprings by the grace of Sun God in this world. 101

తెలుగు అర్థం--
మయూరునిచే జనాల రక్షణకై వందశ్లోకాలు రచింపబడ్డాయి. భక్తితో ఒకసారి దీన్ని ఎవరు చదువుతారో వారు అని పాపాల నుండి విముక్తులవుతారు. సూర్యుని దయచేత స్వస్థులై, మంచి కవిత్వం, బలం, కీర్తి, దీర్ఘాయుష్షు, విద్వత్తు, ధనం,  ఐశ్వర్యం, పుత్రప్రాప్తి కలుగుతుంది.
    ఓ సూర్యదేవా, మహానుభావా, భువనేశ్వరా, భువనబాంధవా, నమో నమః. వేదాంతవేద్యా, జ్ఞానప్రదాయకా, మోక్షప్రదా, ఆనందనిలయా, నమో నమః.
    నీ దీప్తిని గురించి నలుబది మూడు నీ అశ్వాల గురించి ఆరు, నీ సారథిని గురించి పన్నెండు, నీ రథాన్ని గురించి పదకొండు, నీ మండలాలను గురించి ఎనిమిది, నిన్ను గురించి ఇరువది శ్లోకాలను మహాకవి మయూరుడు రచించాడు. వారికి నా ప్రణామాలు.
श्रीमयूरकविप्रणीतं सूर्यशतकं समाप्तम् ।


----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 100 (महाकवि-श्रीमयूरप्रणीतम्)

देवः किं बान्धवः स्यात् प्रियसुहृदथवाचार्य आहोस्विदर्यो
रक्षा चक्षुर्नु दीपो गुरुरुत जनको जीवितं बीजमोजः ।
एवं निर्णीयते यः क इव न जगतां सर्वथा सर्वदाऽसौ
सर्वाकारोपकारी दिशतु दशशताभीषुरभ्यर्थितं वः ॥१००॥


अन्वयः– असौ देवः जगतां बान्धवः किम्? प्रियसुहृत् अथवा आचार्यः, आहोस्वित् अर्यः, रक्षाचक्षुः दीपः नु? गुरुः उत जनकः, जीवितं, बीजम् ओजः स्यात् नु? एवं सर्वथा सर्वदा कः इव यः न निर्णीयते सर्वाकारोपकारी असौ दशशताभीषुः वः अभ्यर्थितं दिशतु ॥१००॥

व्याख्या– असौ देवः जगतां बान्धवः किम्, प्रियसुहृत् प्रियमित्रम् अथवा आचार्यः आहोस्वित् अर्यः स्वामी, रक्षाचक्षुः दीपः नु? नु इति प्रश्ने । गुरुः उत अथवा जनकः तातः, जीवितं, जीवनं, बीजं हेतुभूतम् ओजः बलं स्यात् नु? एवं सर्वदा सर्वथा कथमपि यः न निर्णीयते न स्थिरीक्रियते, सर्वाकारेण सर्वस्वरूपेण उपकारी सः दशशताभीषुः सहस्रांशुः वः अभ्यर्थितं कामनां दिशतु पूरयतु । उत्प्रेक्षालङ्कारः ॥१००॥

भावार्थः– सहस्रांशुः असौ देवः जगतां बान्धवः किम्? प्रियमित्रं किम्, अथवा आचार्यः, स्वामी वा? रक्षायै नेत्रयोः तापकः दीपः किम्? गुरुः अथवा जनकः किम्? सर्वेषां हेतुभूतं जीवनं किम्? अथवा शक्तिभूतं बलं किम्? एवं यः सर्वथा निर्णेतुं न शक्यते, परन्तु सर्वस्वरूपेण सर्वेषामुपकारकः सः सहस्रांशुः युष्माकमभिलाषं पूरयतु ॥१००॥

हिन्द्यर्थः– वह देव जगतोंके बान्धव है क्या? प्रिय मित्र अथवा आचार्य है क्या? अथवा प्रभु या रक्षा नेत्र दीप है क्या? गुरु या जनक, या जीवन, या आदिकारण, या बल है क्या? इस तरह जिसे हम किसी एकरूपसे निर्णय नहीं कर सकते, वह सर्व रूपसे उपकारी सहस्रांशु सूर्य आप लोगोंकी अभिलाषा पूर्ण करें ॥१००॥

आङ्ग्लार्थः-- Is this divine being a relative of the world, or a bosom friend, or the preceptor, or the venerable one, or the eye that offers protection, or a lamp or the teacher, or the father, or is the life-force, or strength ? Thus, the Sun who is not clearly ascertained as to what he actually is, but benefits in all these roles, may fulfil all your desires. 100

తెలుగు అర్థం--
    అడుగో, ప్రకాశం విరజిమ్ముతూ వేయి కాగడాల వెలుగులతో వేంచేస్తున్నాడు విభాకర స్వామి. ఆదిత్యస్వామి ఎవరు? మానవులకే కాక సమస్త చరాచరాలకు కూడా జీవచైతన్యం ప్రసాదించే ఈ సర్వోపకార పరాయణుడెవరు?
    జగములకితడు దేవదేవుడా? ప్రాణబంధువా? ప్రియాతిప్రియమిత్రుడా? అజ్ఞానాంధకారం రూపుమాపే ఆచార్యవర్యుడా! మూడులోకాలకు పూజనీయుడా! సకలజీవకోటికీ రక్షకుడా! లేక జ్ఞాననేత్రమా? ఒక విశిష్టమైన ప్రదీపమా? ఎవరు? అజ్ఞానతిమిరం దూరం చేసే జ్ఞానభాస్కరుడా? గురువరేణ్యుడా? మానవులను కన్నతండ్రా? తల్లా? సర్వకార్యకారణభూతుడా? పవిత్రజీవితమా? అన్నింటి  మూలస్థానమా?
    అని విద్వద్వర్యులు ఎంత ఆలోచించినా అందనివాడు ఆదిత్య సార్వభౌముడు. ఆయన ద్వాదశాత్ముడు. సూర్యనారాయణస్వామి. సర్వవేళలా సర్వులకు సర్వం ప్రసాదించే జగద్బంధువు. సర్వవిధాలా ఉపకారవ్రతం పూని ఉంటాడు. ఈ సహస్రకిరణుడు చరాచరాలకు ఆప్తుడై సహస్రాధికంగా ఈప్సితాలు నెరవేర్చుగాక.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 99 (महाकवि-श्रीमयूरप्रणीतम्)

योनिः साम्नां विधाता मधुरिपुरजितो धूर्जटिः शङ्करोऽसौ
मृत्युः कालोऽलकायाः पतिरपि धनदः पावको जातवेदाः ।
इत्थं संज्ञा डवित्थादिवदमृतभुजां या यदृच्छाप्रवृत्ताः
तासामेकोऽभिधेयस्तदनुगुणगुणैर्यः स सूर्योऽवताद् वः ॥९९॥


अन्वयः– साम्नां योनिः विधाता, मधुरिपुः अजितः, धूर्जटिः असौ शङ्करः, मृत्युः कालः, अलकायाः पतिः अपि धनदः, जातवेदाः पावकः, इत्थं डित्थडवित्थादिवत् अमृतभुजां याः संज्ञाः यदृच्छाप्रवृत्ताः तासां तदनुगुणगुणैः यः एकः अभिधेयः सः सूर्यः वः अवतात् ॥९९॥

व्याख्या– साम्नां सामवेदमन्त्राणां योनिः प्रभवः विधाता इति, मधुरिपुः मध्वरिः विष्णुः अजितः इति, धूर्जटिः धूः भारभूता जटिः जटा यस्य सः शिवः असौ शङ्करः इति, मृत्युः यमः कालः इति, अलकायाः पतिः कुबेरः अपि धनदः इति, जातवेदाः अग्निः पावकः इति डित्थडवित्थादिवत् अमृतभुजां देवानां याः संज्ञाः इत्थं यदृच्छाप्रवृत्ताः तासाम् अनुगुणाः अनुकूलाः ये गुणाः तैः यः एकः सूर्यः अभिधेयः आख्यातुं योग्यः, विधात्रजितशङ्करकालधनदपावकादिशब्दैः यः सूर्यः एक एव अभिधातुं योग्यः स सूर्यः वः युष्मान् अवतात् रक्षतु ॥९९॥

भावार्थः– सामवेदीयमन्त्राणाम् उत्पत्तिहेतुः ब्रह्मा विधाता इति, मधुरिपुः अजित इति, धूर्जटिः शङ्कर इति, मृत्युः काल इति, अलकायाः पतिः धनदः इति, जातवेदाश्च पावक इति अभिधीयन्ते । एतानि नामानि तत्तद्देवेषु डित्थडवित्थादिवत् यदृच्छया प्रवृत्तानि । एतानि नामानि तत्त्वतः अर्थदृष्ट्या सूर्य एव प्रयोक्तव्यानि । तत्तन्नामभिः अभिधेयः सकलगुणाधारः सूर्यः युष्मान् रक्षतु ॥९९॥

हिन्द्यर्थः– सामवेदके उत्पत्तिकारीको विधाता, मधुरिपुको अजित, जटाजूटको धारण करने वालेको शङ्कर, मृत्युको काल, अलकापतिको धनद, जातवेदा (अग्नि) को पावक नामसे कहा जाता है । पर देवताओंके ये सब नाम डित्थ, डवित्थ (निरर्थक) शब्दतुल्य आकस्मिक भावसे दिया गया है । तत्त्वतः अर्थके अनुसार ये सब नाम सूर्यके ही होना ठीक है । इन सब नामसे वाच्य सूर्य आप लोगोंकी रक्षा करें ॥९९॥

आङ्ग्लार्थः-- Propagator of Samaveda is called Vidhata, madhuripu is Ajita, DhurjatI is Saiikara, Mrtyu is Kala, the master of Alaka is Dhanada and the Jatavedas is named as Pavaka. These names (vidhata etc.) of gods are wantonly given like dittha, davittha. The meanings denoted by these terms are truly applicable to the Sun who alone possesses all their qualities, May that Sun protect you. 99

తెలుగు అర్థం--
    అడుగో, సహస్రకిరణుడు ఆయన సహస్రనాముడు. సార్థకాఖ్యుడు దయచేస్తున్నాడు. తత్త్వజ్యోతులు ప్రకాశిస్తున్నాయి.
    సామప్రభువు అనే పేరు బ్రహ్మదేవుడికీ ఉంది. ప్రభాకరస్వామికీ ఉంది. అజితుడు అని విష్ణువుకు ఉంది. వివస్వతునికీ ఉంది. శంకరుడనే నామం ధూర్జటికీ ఉంది. సహస్రాంశుడికీ ఉంది. కాలుడు అనే ఆఖ్య మృత్యువుకూ ఉంది. జగచ్చక్షువైన సూర్యుడికీ ఉంది. ధనదుడనే అభిద కుబేరుడికీ ఉంది. విభాకరుడికీ ఉంది. పావకుడనే నామధేయం అగ్నిహోత్రుడికీ ఉంది. ఆదిత్యుడికీ ఉంది.
    ఐతే దేవతలకు ఈ పేర్లు డిత్థడవిత్థాదులవలె రూఢి చేత ఆరూఢములైనాయి. కాన ప్రవృత్తములు కావు. సూర్యుడికి నామాలు ప్రవృత్తి చేత సార్థకాఖ్యాలై రాణించాయి. దినమణికి ఇవి గుణగణాల చేత ప్రసిద్ధి పొంది అన్వర్థాలైనాయి. ఆ సహస్రమయూఖుడు మనలను మన్నించి రక్షించుగాక.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 98 (महाकवि-श्रीमयूरप्रणीतम्)

व्यग्रैरग्र्यग्रहेन्दुग्रसनगुरु भरैर्नो समग्रैरुदग्रैः
प्रत्यग्रैरीषदुग्रैरुदयगिरिगतो गोगणैर्गौरयन् गाम् ।
उद्गाढार्चिर्विलीनामरनगरनगग्रावगर्भामिवाह्नाम्
अग्रे श्रेयो विधत्ते ग्लपयतु गहनं स ग्रहग्रामणीर्वः ॥९८॥


अन्वयः– अह्नाम् अग्रे उदयगिरिगत; यः अध्यग्रहेन्दुग्रसनगुरुभरैः इव व्यग्रैः नो समग्रैः उदग्रैः प्रत्यग्रैः ईषदुग्रैः गोगणैः उद्गाढार्चिर्विलीनामरनगरनगग्रावगर्भां गां गौरयन् श्रेयः विधत्ते सः ग्रहग्रामणीः वः गहनं ग्लपयतु ॥९८॥

व्याख्या– अह्नां दिवसानाम् अग्रे प्रभाते उदयगिरिगतः उदयाचलमाश्रितः यः सूर्यः अध्यग्रहाश्च इन्दुश्च तेषां ग्रसनम् ग्रासः तेन गुरुः भरः भारः येषां तैः इव व्यग्रैः नो समग्राः अर्चिभिः उदग्रैः उन्नतैः प्रत्यग्रैः नूतनैः ईषदुग्रैः अल्पोष्णैः (बालत्वात्)  गोगणैः किरणसमूहैः उद्गाढार्चिर्विलीनाम् उद्गाढाभिः अर्चिर्भिः किरणैः, विलीना व्याप्ता, अमरनगरनगग्रावगर्भाम् अमराश्च नगराणि च नगाश्च ग्रावाणश्च गर्भे यस्याः तां देवनगरवनपर्वतपाषाणपूर्णां, गां पृथिवीं, गौरयन् धवलयन् श्रेयः मङ्गलं विधत्ते सम्पादयति, सः ग्रहग्रामणीः ग्रहमुख्यः रविः वः युष्माकं गहनं दुखं ग्लपयतु शमयतु । [गहनं गहने दुःखे विपिने कलिलेऽपि च इति विश्वः] । वृत्त्यनुप्रासोऽलङ्कारः ॥९८॥

भावार्थः– दिवसारम्भे सूर्यः स्वतेजसा ग्रहान् चन्द्रं च ग्रसन् गुरु भरादिव व्यग्रैः अपूर्णैः अल्पोद्गतैः नूतनैः अनुष्णैः किरणैः देवतानगराद्रिपाषाणादिभिः पूर्णां पृथिवीम् आलोकयन् जगतां मङ्गलं कुरुते । ग्रहमुख्यः सः सूर्यः युष्माकं दुःखं शमयतु । टिप्पणी- 'ग' इत्यस्य चतुर्विंशतिवारप्रयोगः कवेः अनुप्रासमोहं प्रकटयति ॥९८॥

हिन्द्यर्थः– सब दिवसोंके प्रारम्भमें उदयगिरि पर जो प्रमुख ग्रह और चन्द्रको ग्रास करनेसे मानो भारी होकर चञ्चल, असमग्र, उन्नत, ईषदुग्र तथा नूतन किरणोंके प्रवाहसे देवता, नगर, पर्वत, प्रस्तरादियोंको गर्भमें धारण करनेवाली पृथिवीको धवलित कर मङ्गल विधान करता है, ग्रहराज वह सूर्य आप लोगोंके दुःख शान्त करें ॥९८॥

आङ्ग्लार्थः-- The Sun appears on Udayagiri in the early morning. He sends his fierce rays upwards, overpowers the leading planets and moon; and emits his newly emerging rays to white-wash the earth full of divinities, cities, mountains and stones. May that Sun the Chief of the planets, destroy your sins. 98

తెలుగు అర్థం--
    అడుగో, సహస్రకిరణుడు సత్వరం వస్తున్నాడు. సూర్యప్రభలు సర్వప్రదేశాలు వ్యాపిస్తున్నాయి. ఏమి ద్యుతికరాలు! వరాల వన్నెలు విరబోస్తున్నాయి.
    ఉదయపర్వతం మీద అభ్యుదయకరాలు కోకొల్లలుగా ప్రసరిస్తున్నాయి. ఈ కిరణాలు ప్రాచీనదిశలోని గ్రహాలను నక్షత్రాలను చంద్రుడిని అంధకారాసురుల్ని మింగేస్తున్నాయి. మొదట అసంపూర్ణంగా దిశాంగణం ఉన్న కిరణాలు క్రమక్రమంగా సంపూర్ణవ్యోమాన్ని ఆక్రమించి ప్రకాశిస్తున్నాయి.
    ఆ పూర్ణజ్యోతులు సంపూర్ణాలు. స్వయం ప్రకాశాలు. అవి తగినంత ఉష్ణంకలవై లోకానికి తగినవై రాణిస్తున్నాయి. అవి సువర్ణ కిరణాలు. కాసేపటికి అరుణకిరణాలు. మధ్యాహ్నానికి మహోష్ణకిరణాలు. భూమిమాతకు సురవ్ణ ఆభరణాలు. సూర్యుడు సువర్ణమేరుగిరి శిఖరాలను తన తీక్ష్ణ కిరణాలతో కరిగించి, భూమాతకు బంగారు మలాం పూత పూస్తున్నాడా అన్నట్లున్నాడు.
    ఆ సహస్ర కిరణుడు సహస్రవిధాలా ప్రజాసహస్రాలకు ఉపకృతి చేస్తుంటాడు.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 97 (महाकवि-श्रीमयूरप्रणीतम्)

द्वीपे योऽस्ताचलोऽस्मिन् भवति खलु स एवापरत्रोदयाद्रिः
या यामिन्युज्ज्वलेन्दुद्युतिरिह दिवसोऽन्यत्र तीव्रातपः सा ।
यद्वश्यौ देशकालाविति नियमयतो नो तु यं देशकालौ
अव्यात्स स्वप्रभुत्वाहितभुवनहितो हेतुरह्नामिनो वः ॥९७॥


अन्वयः– अस्मिन् द्वीपे यः अस्ताचलः भवति, स एव अपरत्र उदयाद्रिः खलु, इह उज्ज्वलेन्दुद्युतिः या यामिनी अन्यत्र सा तीव्रातपः दिवसः । यद्वश्यौ देशकालौ, यं तु देशकालौ नो नियमयतः, इति स्वप्रभुत्वाहितभुवनहितः अह्नां हेतुः सः इनः वः अव्यात् ॥९७॥

व्याख्या– अस्मिन् द्वीपे यः अस्ताचलः अस्ताद्रिः स एव अपरत्र अन्यस्मिन् द्वीपे उदयाद्रिः खलु । इह अस्मिन् द्वीपे या उज्ज्वलेन्दुद्युतिः उज्ज्वला इन्दुद्युतिः चन्द्रकान्तिः यस्यां सा तथाभूता यामिनी रात्रिः, अन्यत्र सा तीव्रातपः तीव्रः आतपः यस्मिन् तथाभूत दिवसः । देशश्च कालश्च देशकालौ यद्वश्यौ यदधीनौ, यं सूर्यं तु देशकालौ नो नियमयतः न नियन्त्रयतः । इति इत्थं स्वप्रभुत्वाहितभुवनहितः, स्वस्य प्रभुत्वेन आहितं सम्पादितं भुवनानां जगतां हितं येन सः, अह्नां दिवसानां हेतुः सः इनः सूर्यः वः युष्मान् अव्यात् रक्षतु । वृत्त्यनुपासोऽलङ्कारः ॥९७॥

भावार्थः– अस्मिन् द्वीपे यः अस्ताचलः स एव अन्यस्मिन् (देशे) द्वीपे उदयाद्रिः भवति । इह या चन्द्रशोभिनी यामिनी देशान्तरे सा प्रचण्डरश्मिः दिवसः भवति । सूर्यः देशं कालं च नियमयति, तं तु देशकालौ न नियन्त्रयतः । इत्थं प्रभावशाली जगद्धितकरः सूर्यः युष्मान् रक्षतु ॥९७॥

हिन्द्यर्थः– इस द्वीपमें जो अस्ताचल है दूसरे द्वीपमें वह उदयाद्रि है । यहाँ जो चन्द्रमासे शोभित रात्रि है, देशान्तरमें वह प्रचण्ड रश्मिवाला दिवस है, जो देश और कालको नियमित करता है, पर देश और काल जिसको नियमित नहीं करते हैं, इस प्रकार अपनी प्रभुताके साथ जो जगतका हित साधन करता है, दिवसका हेतु वह सूर्य आप लोगोंकी रक्षा करें ॥९७॥

आङ्ग्लार्थः-- The Astacala of this region is the Udayadri of other. The moon-lit night here, is a hot day there. Time and clime do not restrain the Sun, rather they are restrained by him. May that Sun who is the master of the day, and who utilises his power for the benefit of the world, protect you. 97

తెలుగు అర్థం--
    అడుగో, సర్వసమున్నతుడు, సర్వాధీశుడు సవితృదేవుడు వస్తున్నాడు. సప్తాశ్వరథం మీద దయచేస్తున్నాడు. సర్వలోకాలూ ఆయనవే. సర్వతేజఃస్వరూపాలు ఆయనవే.
    ఆయనకు అస్తాద్రి, ఉదయాద్రి సమానమే. చూచే ప్రేక్షకులకు మాత్రమే వేరు. ప్రజలకు దేశాలకు వేరు. స్వామని ఒక్కొక్కరికి ఒక్కొక్క విధంగా కనిపిస్తాడు. కమలాలకు తన కాంతుడు వలెనే సాక్షాత్కరిస్తాడు. జగత్తులో అందరికి ఆప్తబంధువు లాగా సహాయపడతాడు. ద్వీపాలు దేశాలు వేరు కానీ సూర్యుడొక్కడే.
    ఒక ద్వీపంలో స్వామి వెలుగు ముందు రెండవుతుంది. అదే వెలుగు మరో ద్వీపంలో పండువెన్నెల కాస్తుంది. అన్నీ వెలుగులు ఆయనవే. ఇలా దేశకాలాలకు ఆయన అధిపతి. ఆయన ఒక్కడే అన్ని దేశాలకు ద్వీపాలకు అన్నిలోకాలకు ఆధారభూతుడు.   
    దేశకాలాలు ఆయనకు హద్దులు పెట్టలేవు. ఆయన అంతర్యామి ఆదిత్యుడు.  నిత్యసత్య వ్రతుడు. సుదినాలు సుందరంగా ప్రకాశించటానికి ఆదిత్యుడే కారణభూతుడు. అట్టివాడు అనుంగు మిత్రుడు వస్తున్నాడు. శుభమండలం తెస్తున్నాడు.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 96 (महाकवि-श्रीमयूरप्रणीतम्)

एतत्पातालपङ्कप्लुतमिव तमसैवैकमुद्गाढमासीत्
अप्रज्ञाताप्रतर्क्यं निरवगति तथालक्षणं सुप्तमन्तः ।
यादृक्सृष्टेः पुरस्तान्निशि निशि सकलं जायते तादृगेव
त्रैलोक्यं यद्वियोगादवतु रविरसौ सर्गतुल्योदयो वः ॥९६॥


अन्वयः– यद्वियोगात् एतत् सकलं त्रैलोक्यं निशि निशि तादृगेव जायते, यादृक् सृष्टेः पुरस्तात् पातालपङ्कस्तुतमिव तमसा एव उद्गाढम् अन्तः सुपाम् अप्रज्ञाताप्रतर्क्यं निरवगति तथा अलक्षणम् एकम् आसीत् सर्गतुल्योदयः असौ रविः वः अवतु ॥९६॥

व्याख्या– यद्वियोगात् यस्य रवेः वियोगात् विच्छेदात् एतत् सकलं त्रैलोक्यं त्रिलोकी एव त्रैलोक्यं, चतुर्वर्णादीनां स्वार्थं उपसंख्यानम् इति स्वार्थे ष्यञ् तादृक् एव जायते सम्पद्यते, यादृक् सृष्टेः पुरस्तात् प्राक् पातालपङ्कप्लुतमिव पातालपङ्के मग्नमिव तमसा अन्धकारेण एव उद्गाढं व्याप्तम् अन्तः सुप्तम् अन्तर्निद्रम् अप्रज्ञातं च तत् अप्रतर्क्यं चेति अप्रज्ञाताप्रतर्क्यम् अविज्ञेयं, निरवगति, निर् नास्ति अवगतिः यस्य तत् दुरधिगमं तथा अलक्षणम् अवर्णनीयम् एकम् अद्भुतं किमपि आसीत् सर्गतुल्योदयः सर्गतुल्यः सृष्टितुल्यः उदयो यस्य सः असौ रविः सूर्यः वः युष्मान् अवतु रक्षतु ॥९६॥

भावार्थः– सृष्टेः प्राक् प्रलयकाले एतत् त्रिभुवनं यथागभीरपङ्कमग्रमिव अन्धतमसा आच्छन्नम् अविज्ञेयं, गाढनिद्रापत्रं, निश्चलं, दुश्चिन्त्यं तथा अवर्णनीयमासीत् सूर्याभावे दृश्यमानम् एतत् त्रिभुवनं तथैव प्रतिनिशं सम्पत्स्यते । सः असौ सृष्टितुल्योदयः रविः युष्मान् रक्षतु ॥९६॥

हिन्द्यर्थः– जिसके वियोगसे यह सारे तीन भुवन रात रातमें उसी तरह हो जाते हैं, जैसे सृष्टिके पहले पाताल पङ्कमे डूबे हुएकी तरह घन अन्धकारमें गभीर निद्रामग्न अचिन्तनीय अविज्ञेय और भेदक चिह्नोंसे रहित हुआ था । सृष्टिके तुल्य उदयवाले यह सूर्य आप लोगोंकी रक्षा करें ॥९६॥

आङ्ग्लार्थः-- The three worlds relapse to the earlier stage of creation every night due u>the departure of the Sun. They plunge into deep sleep and become unknowable, inscrutable, and inconceivable as if covered with mire of the nether region. May that Sun whose appearance coincides with the onset of the process of creation protect you. 96

తెలుగు అర్థం--
    అడుగో అరుణకరుణమూర్తి అరుదెంచాడు. ప్రజలబ్రతుకులు ఫలించాయి.
    అర్యముడు రాకపోతే ఎంత అంధకారం. త్రైలోక్యం తిమిరావృతమై భయావహమౌతుంది. ప్రభాకరుడు లేకపోతే ముల్లోకాలు పాతాళపుటడుగుల్లో బడి మహాతమస్సులో మునిగి తెలివితేటలు కోల్పోతాయి. నిద్రాముద్రితమై కన్నులు మూతలు పడి పెద్ద మొద్దుతనంతో లోకాలు స్పృహ కోల్పోతాయి.
    అనూహ్యంగా అగోచరము సృష్టికి పూర్వంనాటి స్తబ్దధత్వము కలిగి ఉంటాయి. నిజంగా ఈ సృష్టి పూర్వస్థితికి చేరుకుంటుందా అనిపిస్తుంది.
    ఈ సూర్యభగవానుడు సృష్టితోపాటు అవతరించి అంధకార స్థితి రూపుమాపాడు. జగద్బంధువు దయాసింధువు దయ చూచాడు. దయచేశాడు.
    ఇక శుభవృష్టి వర్షిస్తుంది. పుణ్యపుష్పాలు పూస్తాయి. ఈ ఉదయం అందరికి అభ్యుదయం అగుగాక.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 95 (महाकवि-श्रीमयूरप्रणीतम्)

तीर्थानि व्यर्थकानि ह्रदनदसरसीनिर्झराम्भोजिनीनां
नोदन्वन्तो नुदन्ति प्रतिभयमशुभश्वभ्रपातानुबन्धि ।
आपो नाकापगाया अपि कलुषमुषो मज्जतां नैव यत्र
त्रातुं यातेऽन्यलोकान् स दिशतु दिवसस्यैकहेतुर्हितं वः ॥९५॥


अन्वयः– यत्र अन्यलोकं त्रातुं याते, ह्रदनदसरसीनिर्झराम्भोजिनीनां तीर्थानि व्यर्थकानि, अशुभश्वभ्रपातानुबन्धि प्रतिभयम् उदन्वन्तः न नुदन्ति, नाकापगायाः आपः अपि मज्जतां नैव कलुषमुषः (भवन्ति) दिवसस्य एकहेतुः सः वः हितं दिशतु ॥९५॥

व्याख्या– यत्र यस्मिन् रवौ अन्यलोकं भुवनान्तरं त्रातुं रक्षितुं गते, ह्रदनदसरसीनिर्झराम्भोजिनीनां, ह्रदाः अगाधजलाशयाः नदाः शोणादयः, प्राक् स्रोतसो नद्यः, प्रत्यक्स्रोतसो नदाः (नर्मदां विना) सरस्यः कासाराः निर्झरा झराः, अम्भोजिन्यः पुष्करिण्यः, तासां तीर्थानि, तत्तत्सम्बद्धानि तीर्थस्थानानि व्यर्थकानि विफलानि भवन्ति । अशुभश्वभ्रपातानुबन्धि, अशुभश्वभ्रं नरकः तस्मिन् पातः पतनम् तम् अनुबध्नातीति अशुभश्वभ्रपातानुबन्धि नरकपातसम्बन्धि, प्रतिभयं प्रीतिं उदन्वन्तः उदधयः न नुदन्ति नापनयन्ति, नाकापगायाः स्वर्णद्याः मन्दाकिन्याः आपः जलानि अपि मज्जतां स्नातां नैव कलुषमुषः कलुषं पापं मुष्णन्तीति कलुषमुषः (मुष्+क्विप्) पापक्षयिण्यः भवन्ति, दिवसस्य एकहेतुः सः सूर्यः वः युष्माकं हितं दिशतु विदधातु ॥९५॥

भावार्थः– सूर्ये अन्यलोकं त्रातुं गते, ह्रदनदसरोनिर्झरादिसम्बद्धानि तीर्थानि निष्फलानि भवन्ति, गङ्गायाः जलमपि मज्जतां पापं हर्तुं न प्रभवति, समुद्राः नरकपातभयम् अपनेतुं न क्षमन्ते, दिवसस्य एको हेतुः सः सूर्यः युष्माकं हितं साधयतु ।
टिप्पणी- तव यद्युदयो न स्यादन्ध जगदिदं भवेत् ॥९५॥
न च धर्मार्थकामेषु प्रवर्तेरन् मनीषिणः॥-म०भा० ३-३-५३

हिन्द्यर्थः– जो सूर्य अन्य लोकोंकी रक्षा करनेकेलिए चले जाने पर ह्रद, नदी, झील (सरसी), निर्झर तथा पुष्करिणी सम्बन्धी तीर्थ व्यर्थ हो जाते हैं, समुद्र नरकपातसम्बन्धी पापको दूर नहीं कर पाता है, स्वर्गङ्गाका जल भी मज्जन करने वालोंके पापको नष्ट नहीं कर सकता है, दिवसके हेतु वह सूर्य आप लोगोंके हित साधन करें ॥९५॥

आङ्ग्लार्थः-- When the Sun goes away to look after other regions, sacred bathing places like lakes, rivers, tanks and ponds full of lotuses turn useless. The oceans fail to ward off the fear of falling into inauspicious ditch-like hell. Even waters of heavenly river Gaiiga become ineffective to wash away the sins of those who dip therein. May that sole source of the day (Sun) do good to you. 95

తెలుగు అర్థం--
    అడుగో, పూర్వపర్వతం పై పుణ్యమూర్తి పూషణుడు ఉదయిస్తున్నాడు. లోకాలకు శోకాల బాధ తొలగింది. అజ్ఞానం అంతరించింది.
    ఈ మహానుభావుడు రాకపోతే అంతా అంధకారబంధురమే కదా! జలాశయాలు, నదీనదాలు, సరోవరాలు, సెలయేళ్లు, నీళ్ళు ఉండి కూడా నిష్ర్పయోజనాలే. పుణ్యతీర్థాలని పేరు పెట్టుకున్నాయే కానీ ఆ పూషణ పుణ్యపురుషుడు రాకపోతే అవి పెట్టుకున్న పేర్లన్నీ పెట్టుపేరులే. రవి ప్రకాశించకపోతే అవి పుణ్యం ఈయని తీర్థాలే కదా.
    నరక అగ్ని గర్తంలో తోయబడే నరజాతి పాపాగ్నులను సప్తసాగరాలు సైతం బాపి ఆర్పలేవు కదా. దినమును సుదినము చేయాలంటే సూర్యదేవుడు రావలసిందే. వచ్చి స్పృశించవలసిందే. అప్పుడే వారు పవిత్రులవుతారు. అలా సుదినం కలగచేయజాలిన ఏకైక కారణభూతుడు భువనబాంధవుడు. ఆ ప్రభాకరుడు ప్రజలకు పుణ్యం ప్రసాదించి పాపం పరిహారం చేస్తాడు.
    సూర్యాధిష్ఠితం అయితేనే సమస్తతీర్థాలు సప్తసాగరాలు ఆకాశగంగ సమర్థాలు అవుతాయి.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 94 (महाकवि-श्रीमयूरप्रणीतम्)

साद्रिद्यूर्वीनदीशा दिशति दश दिशो दर्शयन् द्राग्दृशो यः
सादृश्यं दृश्यते नो सदशशतदृशि त्रैदशे यस्य देशे ।
दीप्तांशुर्वः स दिश्यादशिवयुगदशादर्शितद्वादशात्मा
शं शास्त्यश्वांश्च यस्याशयविदतिशयाद्दन्दशूकाशनाद्यः ॥९४॥


अन्वयः– यः साद्रिमूर्वीनदीशाः दश दिशः द्राक् दर्शयन् दृशः दिशति, सदशशतदृशि त्रैदशे देशे यस्य सादृश्यं नो दृश्यते, अशिवयुगदशादर्शितद्वादशात्मा, दन्दशूकाशनाद्यः यस्य अतिशयात् आशयवित् अश्वांश्च शास्ति, सः दीप्तांशुः वः शं दिश्यात् ॥९४॥

व्याख्या– यः सूर्यः साद्रिमूर्वीनदीशाः अद्रिश्च, द्यौश्च, उर्वी च नदीशाश्च अद्रिद्यूर्वीनदीशाः तैः सह वर्तमानाः सपर्वताकाशपृथिवीसागराः दश दिशः द्राक् झटिति दर्शयन् प्रकाशयन् दृशः नेत्राणि दिशति परिचालयति, सदशशतदृशि, दशशतदृक् इन्द्रः तेन सह वर्तमाने त्रैदशे तिस्रो दशा येषां ते त्रिदशाः देवाः, तेषामयं त्रैदशः तस्मिन् देशे सुरलोके यस्य सूर्यस्य सादृश्यं साम्यं नो दृश्यते, नोपलभ्यते, अशिवयुगदशादर्शितद्वादशात्मा अशिवयुगम् अमङ्गलकालः प्रलय इत्यर्थः, तस्य दशा स्थितिकालः, तस्यां दर्शिताः प्रकाशिताः द्वादश आत्मानो येन सः, दन्दशूकाः सर्पाः अशनं खाद्यं यस्य सः गरुडः, तस्य आद्यः ज्येष्ठः अरुणः यस्य सूर्यस्य अतिशयात् विशेषतः आशयवित् आशयम् अभिप्रायं वेत्ति जानातीति आशयवित् (विद्+क्विप्) अश्वान् शास्ति चालयति, सः दीप्तांशुः उष्णांशुः सूर्यः वः युष्माकं शं मङ्गलं दिश्यात् विदधातु ॥९४॥

भावार्थः– यः सूर्यः पृथिव्याकाशगिरिसागरैः साकं दशदिशः आलोकयन् प्राणिनामवलोकनशक्तिं जनयति, स्वर्गेऽपि यच्छदृशः कश्चन नावलोक्यते यः पुनः प्रलयकाले द्वादश रूपाणि धारयति, अरुणः यस्य इच्छानुसारम् अश्वान् चालयति, सः सूर्यः युष्माकं मङ्गलं विदधातु । अनुप्रासोऽलङ्कारः ।
टिप्पणी– उर्वीति कथनेन गिरिसागरादीनामन्तर्भुक्तिं जानन्नपि कविः सौरशक्तिप्रकटनार्थमौपलाक्षणिकपदैः तथा निर्दिशति ।

कृत्वा द्वादशधात्मानं द्वादशादित्यतां गतः।
संहृत्यैकोऽर्णवं सर्वं त्वं शोषयसि रश्मिभिः॥
म०भा० ३-३-५९ श्लोके 'द' इत्यस्य प्रयोगो लक्षणीयः ।

हिन्द्यर्थः– जो सूर्य गिरि, समुद्र, आकाशादिसे सारी पृथिवीके साथ दश दिशाओंको आलोकित कर दर्शनशक्ति प्रदान करते हैं, इन्द्रके राज्य स्वर्गमें भी जिसके समान कोई नहीं है, सर्पभक्षक गरुडके बड़ा भाई अरुण जिसके इच्छानुसार अश्वोंको चालित करता है, और जो प्रलयकालमें द्वादश रूप धारण करते हैं, वह उष्णांशु सूर्य आप लोगोका मङ्गल करे॥९४॥

आङ्ग्लार्थः-- The Sun makes visible the ten quarters along with mountains, sky, earth and the seas immediately. He reveals his twelve forms at the inauspicious time of dissolution. There is no one equal to him in the region of gods ruled by Indra. The elder brother of the eater of serpents (Aruna) is fully aware of his intention and controls accordingly the horses. May that brilliant Sun give you happiness. 94

తెలుగు అర్థం--
    అడుగో! అంశుమాలి రథం మీద వస్తున్నాడు. ద్వాదశాత్ముడు వైభవంగా దయ చేస్తున్నాడు.
    ఏమి ప్రకాశం! ఏమి తేజస్సు! స్వామి వస్తుంటే పర్వతాలు బంగారు కొండలై దండిగా వెలుగుతుంటాయి. వసుంధర తన సంపదలన్నీ స్వామి పాదాల ముందు వారు పోసి ప్రణమిల్లుతున్నది. సప్తసముద్రాలు స్వామికి అర్ఘ్యపాద్యాలిచ్చి సాష్టాంగ నమస్కారాలు చేస్తున్నాయి. దశదిశా లతాంగులు జ్యోతులు వెలిగించి హారతులు యిస్తున్నారు. సూర్య సార్వభౌముని వైభవం ముందు దేవేంద్రవైభవం సాదృశ్యమే లేదు.
    ఆ స్వామి సప్తాశ్వాలు అనూరుడి సారథ్యంలో ఎంత వేగంగా నడుస్తాయి. అనూరుడంటే విష్ణువాహనభూతుడైన గరుడాశ్వారులవారి అగ్రజుడు కదా. ఆదిత్యుడు ద్వాదశాత్ముడై ప్రళయకాలంలో అవసరమైన తన పండ్రెండు మూర్తులను ప్రకాశింపచేస్తాడు.
    ఆ సవితృస్వామి అందరినీ ఆదుకుంటూ ప్రజలకు సౌభాగ్యాలను ప్రసాదించుగాక.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 93 (महाकवि-श्रीमयूरप्रणीतम्)

यः स्रष्टापां पुरस्तादचलवरसमभ्युन्नतेर्हेतुरेको
लोकानां च त्रयाणां स्थित उपरि परं दुर्विलङ्घ्येन धाम्ना ।
सद्यः सिद्ध्यै प्रसन्नद्युतिशुभचतुराशामुखः स्ताद्विभक्तो
द्वेधा वेधा इवाविष्कृतकमलरुचिः सोऽर्चिषामाकरो वः ॥९३॥


अन्वयः– यः द्वेधा विभक्तः वेधा इव आविष्कृतकमलरुचिः अपां स्रष्टा, पुरस्तात् अचलवरसमभ्युन्नतेः एकः हेतुः, परं दुर्विलङ्घ्येन धाम्ना त्रयाणां लोकानां च उपरिस्थितः, प्रसन्नद्युतिशुचिचतुराशामुखः अर्चिषाम् आकरः सः सद्यः वः सिद्ध्यै स्तात् ॥९३॥

व्याख्या– द्वेधा विभक्तः वेधाः ब्रह्मा इव यः सूर्यः आविष्कृतकमलरुचिः आविष्कृता समुत्पादिता कमलानां रुचिः शोभा येन सः, पद्मयोनित्वात् ब्रह्मा, विकासकत्वात् सूर्यश्च पद्मशोभाकारकौ; अपां जलानां स्रष्टा अप एव ससर्जादौ ब्रह्मा, आदित्याज्जायते वृष्टिः इति हेतोः उभौ, जलानां स्रष्टारौ, पुरस्तात् आदौ अचलवराणां कुलाचलानां समभ्युन्नतेः एकः हेतुः, स्रष्टृत्वाद् ब्रह्मा, पूर्वस्यां दिशि उदयेन अचलवरस्य मेरोः गौरववर्धकः सूर्योऽपि परम् अत्यन्तं दुर्विलङ्घ्येन अलङ्घनीयेन धाम्ना स्थानेन ब्रह्मा, तेजसा सूर्यश्च त्रयाणां लोकानां त्रिभुवनस्य उपरि स्थितौ, 'प्रसन्नद्युतिशुचिचतुराशामुखः- प्रसन्ना निर्मला द्युतिः यासां तथाभूताः शुचयः शुभ्राः चतस्रः आशाः दिशः इव (अवस्थितानि) मुखानि यस्य सः, चतुर्मुखः ब्रह्मा, सूर्यपक्षे- प्रसन्नद्युत्या उज्ज्वलप्रभया शुचीनि चत्वारि आशामुखानि दिङ्मुखानि येन सः, अन्तर्भावितण्यर्थः शुचिः अथवा- प्रसन्नद्युतिषु शुचिषु चतसृषु आशासु मुखं यस्य सः, ब्रह्मा सूर्यश्च, अर्चिषाम् तेजसाम् आकरः खनिः सः सूर्यः सद्यः अचिरादेव वः युष्माकं सिद्ध्यै समृद्ध्यै स्तात् भवतु । अलङ्कारः पूर्णोपमा ॥९३॥

भावार्थः– चतुर्मुखः ब्रह्मा पद्मयोनिरूपेण पद्यानां गौरववर्धकः आदौ जलानां स्रष्टा, कुलाचलानाम् अत्युन्नतेः हेतुः, अनभिभवनीयं पदमधिकृत्य त्रिभुवनस्य उपरि स्थितः । द्विधा विभक्तः ब्रह्मा इव पद्मानां विकासकः वृष्टिवारिस्रष्टा, मेरोः गौरववृद्धिहेतुः अलङ्घ्यतेजसामाधार; चतुर्दिग्दीपकः सर्वोपरि विद्यमानः सूर्यः युष्माकं समृद्धिं विदधातु ॥९३॥

हिन्द्यर्थः– जो दो भागमें विभक्त ब्रह्माके समान पद्मोंकी शोभा वर्द्धित करता है, जलके स्रष्टा है, पूर्व दिशामें श्रेष्ठ पर्वत (मेरु) की उन्नति (गौरव) का कारण है, अलङ्घ्य तेजसे तीन भुवनोंके ऊपर विराजमान है, निर्मल कान्तिसे चार दिशाओंके मुख (चतुर्मुख) विमल बनानेवाले और तेजके आधार वह सूर्य आप लोगोंकी समृद्धि विधान करें ॥९३॥

आङ्ग्लार्थः-- Sun, the abode of light, like another Brahma invests beauty in lotuses, creates water, brings to light the great height of mountains and shines far above the three worlds with matchless brilliance. He also makes the faces of four quarters bright with light and Brahma with his brilliant faces, faces four quarters. May that Sun give you success. 93

తెలుగు అర్థం--
    అడుగో, ఆదిత్యుడు ఉదయిస్తున్నాడు. ఆయన అచ్చంగా అపరబ్రహ్మలాగానే ఉన్నాడే. అన్ని గుణాలు ఇరువురికి సమానమే.
    ఇరువురు జలస్రష్టలు. ఇరువురు అచల అభ్యున్నత్యేక కారణాలు. ఐతే కులపర్వత అభ్యున్నతికి హేతుభూతుడు బ్రహ్మదేవుడు. ఉదయపర్వత అభ్యున్నతికి ఏకైక కారణుడు సూర్యదేవుడు. ఇరువురు దుర్విలంఘ్య ధామముచే త్రిలోకాలలో విశిష్ట ఉన్నత స్థానం పొందినారు. ధామము అంటే స్థానం గృహం కాంతి అని. సూర్యుడు కాంతికి నెలవై తిరస్కరింపరాని తేజస్సుచే విశిష్టమైన స్థానమైనాడు. బ్రహ్మదేవుడు గొప్ప స్థానంలో అతరులకు అలభ్యంగా విశిష్టంగా కడు విరాజిల్లుతున్నాడు. అది దుర్విలంఘ్యం.
    ఇరువురు నిర్మలకాంతిచేత ప్రకాశిస్తున్న చతురాశా మపఖాలు కలవారు. సూర్యుడు నాలుగు దిక్కులు నాలుగు ముఖాలుగా ప్రకాశిస్తున్నాడు. బ్రహ్మదేవుడు నాలుగు ముఖాలతో విరాజిల్లుతున్నాడు.
    ఇరువురు ఆవిష్కృత కమలరుచులు గలవారు. పద్మకాంతి గల బ్రహ్మ కమలం నుండి జన్మించాడు. సూర్యుడు కమలబాంధవుడై కమలకాంతులను వెలయింపచేస్తాడు. అలా బ్రహ్మకు సూర్యుడికి అనేక గుణాలతో సమానత్వం ఉంది. అట్టి అరుణుడు అందరిని రక్షించుగాక. 

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 92 (महाकवि-श्रीमयूरप्रणीतम्)

प्राक्कालोन्निद्रपद्माकरपरिमलनाविर्भवत्पादशोभो
भक्त्या त्यक्तोरुखेदोद्गति दिवि विनतासूनुना नीयमानः ।
सप्ताश्वाप्तापरान्तान्यधिकमधरयन्यो जगन्ति स्तुतोऽलं
देवैर्देवः स पायादपर इव मुरारातिरह्नां पतिर्वः ॥९२॥


अन्वयः– प्राक्कालोन्निद्रपद्माकरपरिमलनाविर्भवत् पादशोभः सप्ताश्वाप्तापरान्तानि जगन्ति अधिकम् अधरयन् विनतासूनुना भक्त्या त्यक्तोरुखेदोद्गति दिवि नीयमानः यः अपरः मुरारातिः इव देवैः अलं स्तुतः, अह्नां पतिः सः देवः वः पायात् ॥९२॥

व्याख्या– प्राक्काले आदौ उन्निद्रा जागरिता या पद्मा लक्ष्मीः तस्याः कराभ्यां परिमलनेन संवाहनेन आविर्भवन्ती सञ्जाता पादयोः शोभा यस्य सः, सूर्यपक्षे- प्राक्काले पूर्वाह्ने उन्निद्राणि विकसितानि यानि पद्मानि तेषाम् आकरः समूहः तेषां परिमलनेन परिग्रहणेन विमर्दनगन्धिना रजसा आविर्भवन्ती पादशोभा किरणशोभा यस्य सः; मुरारिपक्षे- आप्तापरान्तानि, आप्तानि व्याप्तानि अपरान्तानि अपरसीमाः येषां तानि सर्वतो व्याप्तानीत्यर्थः, सप्त जगन्ति सप्त भुवनानि आशु शीघ्रम् अधिकम् अधरयन् अधः कुर्वन् 'स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम्' इति श्रुतेः । सूर्यपक्षे- सप्तभिः अश्वैः आप्ताः अपरान्ताः अपरसीमाः येषां तानि जगन्ति अधिकम् अधरयन् नीचैः कुर्वन् उज्वैर्गमनात् पृथिवी निम्ना क्षुद्रा च प्रत्यैयतेत्यर्थः । मुरारिपक्षे- विनतासूनुना गरुडेन भक्त्या उरुः महान् खेदः उरुखेदः, त्यक्तः उरुखेदः यस्यां तथाभूता, उद्गतिः ऊर्ध्वगमनं यस्मिन् तद् यथा स्यात् तथा दिवि सुरलोके नीयमानः उह्यमानः, सूर्यपक्षे- ऊर्वोः खेदः ऊरुखेदः जङ्घनखेदः त्यक्तोरुखेदोद्गति पूर्ववत्, भक्त्या दिवि आकाशे विनतासूनुना अनूरुणा नीयमानः, रथमारुह्य चालनात् ऊरुराहित्याच्च अनूरोः ऊरुखेदाभावः । यः सूर्यः अपरः मुरारातिः मुरारिः इव देवैः अलं स्तुतः, सः देवः अह्नां पतिः दिननाथः सूर्यः वः युष्मान् पायात् रक्षतु । श्लिष्टा उपमा ॥९२॥

भावार्थः– प्रभाते पद्मायाः कराभ्यां संवाहनेन विष्णोः यथा पादशोभा जायते, विकसित-पद्मरजोभिः तथा सूर्यस्य पादशोभा (किरणशोभा) जायते, विनतानन्दनः गरुडः ऊर्ध्वयात्राखेदम् अगणयन् भक्त्या सुरलोके विष्णुं वहति । वैनतेयः अरुणोऽपि भक्त्या ऊरुखेदमगणयन् सकलं जगत् अधः कुर्वन् आकाशे सूर्यं नयति । देवैः सर्वदा स्तुतः विष्णुरिव पूज्यः दिनेशः सूर्यः युष्मान् रक्षतु ॥९२॥

हिन्द्यर्थः– प्रभातमें पद्माके करसे संवाहित होकर जिस विष्णुके पादशोभा प्रकट होती है, सात भुवनोंको शीघ्र (आशु) नीचे रखकर विनतानन्दन गरुड भक्तिसे ऊपर उड़नेके महान श्रमकी परवाह न करके जिसको स्वर्गमें घुमाता है और जिसे देवता स्तुति करते हैं, उस विष्णुके समान प्रभातमें कर (किरण) पातके द्वारा पद्मोंको विकसित करनेसे जिस सूर्यके पाद (किरण) शोभान्वित होती है ऊपर जानेसे जो जङ्घाखेद होता है उसको गणना न कर विनतानन्दन अरुण सम्पूर्ण जगतको नीचे रखकर भक्तिसे सात अश्वोंकी सहायतासे जिसे आकाशमें ले चलता है और देवगण जिसकी स्तुति करते हैं, वह दिनपति सूर्य आप लोगोंकी रक्षा करें ॥९२॥

आङ्ग्लार्थः-- By touching the hordes of blooming lotuses in the early morning the foot of the Sun looks beautiful. The son of Vinata (Aruna) leads him in the heaven out of devotion forgetting his severe pain while going upwards. The Sun moves above all over worlds with his seven horses. Thus, the master of the day (Sun) is praised profusely by gods like Muran whose foot looks beautiful when massaged by goddess Laksmi rising early and who is carrid by the Son of Vinata (Garuda) forgetting severe pain, and who surpasses the seven worlds quickly. May that Sun protect you. 92

తెలుగు అర్థం--
    అడుగో ఆదిత్య మూర్తి! అచ్చంగా ఆదినారాయణమూర్తిలా ఉన్నాడు. ఆయన సూర్యనారాయణుడు కదా!
    ప్రాక్కాలంలో ప్రభాకరుడు పద్మాక్షునివలె ఉన్నాడు.  పద్మహస్తపద్మాలు తాకగా శ్రీవిష్ణు పాదపద్మాలు మరీ ప్రభలీనుతున్నాయి. శ్రీహరి చిరునవ్వుతో శోభిల్లుతున్నాడు.
    అలానే సూర్యనారాయణుడు కూడా పూర్వాహ్ణంలో విప్పారిన పద్మాలతో ప్రకాశించే పాదకిరణాల శోభతో ప్రకాశిస్తున్నాడు. విష్ణుసేవకుడైన గరుత్మంతుడు సూర్యసారథి ఇరువురూ వినతా సూనులే సేవిస్తున్నారు. ఊరువుల బాధను పరిగణించటంలేదు గరుడుడు. అరుణుడికి అసలు ఊరువులు లేవనే బాధే లేదు. ఇరువురు స్వామిసేవాపరాయణులే. గరుడుడు వాహనమైనాడు అనూరుడు రథం తోలుతున్నాడు. సప్తాశ్వాలు అనూరుడు తోలుతుండగా సప్తలోకాలు గరుడుడు సంచరిస్తున్నాడు.
    కనుక శ్రీమహావిష్ణువు శ్రీసూర్యనారాయణుడు సమానులే సుమా!

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 91 (महाकवि-श्रीमयूरप्रणीतम्)

भूमिं धाम्नोऽभिवृष्ट्या जगति जलमयीं पावनीं संस्मृताव-
प्याग्नेयीं दाहशक्त्या मुहुरपि यजमानात्मिकां प्रार्थितार्थैः ।
लीनामाकाश एवामृतकरघटितां ध्वान्तपक्षस्य पर्व-
ण्वेवं सूर्योऽष्टभेदां भव इव भवतः पातु बिभ्रत् स्वमूर्तिम् ॥९१॥


अन्वयः– जगति धाम्नः भूमिम्, अभिवृष्ट्या जलमयीं, संस्मृतौ अपि पावनीं, दाहशक्त्या आग्नेयीं, मुहुः प्रार्थितार्थैः अपि यजमानात्मिकां, ध्वान्तपक्षस्य पर्वणि अमृतकरघटिताम् आकाश एव लीनाम् एवं भव इव अष्टभेदां स्वमूर्तिं बिभ्रत् सूर्यः भवतः पातु ॥९१॥

व्याख्या– जगति संसारे धाम्नः तेजसः मूर्तिं स्थानम् क्षितिरूपाम् अभिवृष्ट्या वर्षणेन जलमयीं आदित्याज्जायते वृष्टिर्वृष्टेरन्नं  ततः प्रजाः इति आगमोक्तेः संस्मृतौ अपि स्मरणे अपि पावनीं पवित्रकारिणीम् किंच पवनस्य इयं पावनी, तां वायुरूपाम् दाहशक्त्या उत्तापेन आग्नेयीम् अग्निरूपाम् मुहुः प्रार्थितार्थैः प्रार्थितार्थप्रदानेन यजमानात्मिकाम् ध्वान्तपक्षस्य कृष्णपक्षस्य पर्वणि अमावास्यायाम् अमृतकरः सुधांशुः तेन घटितां सङ्गताम् चन्द्ररूपाम् आकाशे एव लीनाम् आकाशरूपाम् एवं भवः शिवः इव अष्टभेदाम् अष्टप्रकारां स्वमूर्तिं बिभ्रत् धारयन् सूर्यः भवतः युष्मान् पातु रक्षतु ॥९१॥

भावार्थः– जगति सर्वतेजसः आधाररूपेण भूमिरूपाम् वर्षणेन जलरूपाम्, स्मरणमात्रेण पावनात् पवनरूपाम् दाहशक्त्या अग्निरूपाम् ईप्सितार्थप्रदानात् यजमानरूपाम् अमावास्यायां चन्द्रेण सह मिलनात् सूर्यचन्द्ररूपाम् आकाशे विलयात् आकाशरूपाम् शिवेन तुल्याम् अष्टमूर्तिं दधानः सूर्यः युष्मान् रक्षतु ।
टिप्पणी– पृथिवी सलिलं तेजो वायुराकाशमेव च । सूर्याचन्द्रमसौ सोमयाजी चेत्यष्टमूर्तयः । अभिशानशाकुन्तलस्य नान्दीश्लोके शिवोऽष्टमूर्तिरिति वर्णितः । महाभारतेऽपि (३.४९.८) तथा दर्शितः ॥९१॥

हिन्द्यर्थः– तेजके स्थान होनेसे भूमिरूप, वृष्टिसे जलरूप, स्मरणके मात्र पावन (पवित्र) करनेसे पवनरूप, दाहशक्तिके कारण अग्निरूप, ईप्सित अर्थदान करनेसे यजमानरूप, अमावास्यामें चन्द्रके साथ मिलनेसे सूर्य चन्द्र रूप, आकाशमें लीन होनेसे आकाशरूप धारण कर अष्टमूर्ति शिवके समान परिलक्षित सूर्य आप लोगोंकी रक्षा करें ॥९१॥

आङ्ग्लार्थः-- The Sun is the origin of light. By creating rains in this earth, he displays his watery form; he indicates his wind-form as he purifies those who utter his name; he possesses fire-form as he has power to burn; he has Yajamana form as he gives desired objects; as he is hidden in the sky he displays his sky-form and as he meets the moon on Amavasya he reveals both Sun and-moon forms. Thus the Sun has eight forms like Siva. May he give good fortune to you. 91

తెలుగు అర్థం--
    అడుగో, అర్యముడు అష్టతనూ విరాజితుడైన విశ్వేశ్వరుడి వలె ప్రకాశిస్తున్నాడు. ఎంత తేజోమయ స్వరూపం! అతడు అచ్చంగా పరంధాముడే సుమా.
    ఆదిత్యుడు కాంతికి ఆశ్రయభూతుడు, భువనబాంధవుడు, పూజ్యుడు, భూమిమయ తనూవిరాజమానుడు. అహస్కరుడు, వర్షప్రదాత. భూమికి వర్షమూ హర్షమూ ప్రసాదించే ఆయన జలబాంధవుడు, జలమయతనూశోభితుడు.
    చిత్రభానుడు పావనచరిత్రుడు. అందుచే ఆయన పవనమయ తనూసుందరుడు. అంశుమాలి దాహకతేజోదీప్తుడు. అగ్నిమయతనూమంగళుడు. సహస్రాంశువు ఆకాశంతరవర్తి. మహాకాశం దహరాకాశం హృదయాకాశం ఆయన నివాసస్థానాలు. అందువలన ఆయన ఆకాశమయ తనూ శివంకరుడు. గ్రహపతి ప్రార్థితార్థ ప్రాప్తి గలవాడు. యజ్ఞయాగ నిర్వాహకుడు. కనుక యజమాన తత్త్వజ్ఞ శిరోమణి. ఆ ఖద్యోతనుడు అమావాస్య నాడు చంద్రుడితో కలిసి సంచరిస్తాడు. కాబట్టి అరుణుడు చంద్రమయ తను ప్రభాకరుడు. తరణి తనదైన ప్రత్యేకమైన ప్రభాపూర్ణతనువు దాల్చి ఉంటాడు. పూషణుడు కదా!
    ఇలా ఆదిత్యుడు ఆదిశంకరుడి వలె అష్టతనూ వంద్యుడై అలరారుతున్నాడు.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 90 (महाकवि-श्रीमयूरप्रणीतम्)

नाकौकः प्रत्यनीकक्षतिपटुमहसां वासवाग्रेसराणां
सर्वेषां साधु पातां जगदिदमदितेरात्मजत्वे समेऽपि ।
येनादित्याभिधानं निरतिशयगुणैरात्मनि न्यस्तमस्तु
स्तुत्यस्त्रैलोक्यवन्द्यैस्त्रिदशमुनिगणैः सोंऽशुमान् श्रेयसे वः ॥९०॥


अन्वयः– इदं जगत् साधुपातां सर्वेषां नाकौकः प्रत्यनीकक्षतिपटुमहसां वासवाग्रेसराणाम् अदितेः आत्मजत्वे समेऽपि येन निरतिशयगुणैः आदित्याभिधानम् आत्मनि न्यस्तं, त्रैलोक्यवन्द्यैः त्रिदशमुनिगणैः स्तुत्यः सः अंशुमान् वः श्रेयसे अस्तु ॥९०॥

व्याख्या– इदं जगत् साधु सम्यक् पातां रक्षतां सर्वेषां नाकौकः प्रत्यनीकक्षतिपटुमहसां, नाकः स्वर्गः एव ओकः गृहं येषां ते नाकौकसः देवाः, तेषां प्रत्यनीकाः शत्रवः, तेषां क्षतौ क्षतिसम्पादने पटु क्षमं महः तेजः शक्तिः येषां तेषाम् [महस्तूत्सवतेजसोः' इत्यमरः], वासवाग्रेसराणां वासवः इन्द्रः अग्रेसरः पुरोगामी मुख्य इत्यर्थः येषां तेषाम् इन्द्रादीनाम् अदितेः आत्मजत्वे पुत्रत्वे समेऽपि समानेऽपि, येन अंशुमता निरतिशयगुणैः निर् नास्ति अतिशयः उत्कर्षः यस्मात् तथाभूतैः गुणैः आत्मनि स्वस्मिन् आदित्याभिधानम् आदित्य इति नाम न्यस्तम् आरोपितम्, त्रैलोक्यवन्द्यैः त्रिभुवनपूज्यैः त्रिदशमुनिगणैः देवर्षिसङ्धैः स्तुत्यः पूज्यः सः अंशुमान् सूर्यः वः युष्माकं श्रेयसे मङ्गलाय अस्तु भवतु ॥९०॥

भावार्थः– देवशत्रुविनाशकाः जगत्पालकाः इन्द्रादयः सर्वे देवाः अदितेस्तनयाः सूर्योऽपि अदितेस्तनयः । परन्तु गुणैः गरीयान् सूर्य एव आदित्य इति अभिधीयते, नान्यः कोऽपि । त्रिभुवनवन्द्यैः देवर्षिभिः स्तुत्यः सोऽयमंशुमान् युष्माकं मङ्गलं विदधातु ॥९०॥

हिन्द्यर्थः– इस जगतको ठीक भावसे रक्षा करनेवाले देवशत्रुओंके विनाशक इन्द्र आदि सब देवताएँ और सूर्य भी अदितिके तनय हैं, पर अनेक असाधारण गुणोंके कारण केवल सूर्य ही आदित्य नामसे ख्यात हैं । त्रिभुवनवन्द्य देवर्षिगण जिसके स्तुति करते हैं, वह अंशुमान् सूर्य आप लोगोंके मङ्गलकारी हों ॥९०॥

आङ्ग्लार्थः-- The Sun and all other gods like Indra are the sons of Aditi; they nourish this world; they have strength to inflict injuries on the enemies of the dwellers of heaven. But the Sun alone is called Aditya. He is praised by the divine sages who are revered in three worlds. May that Sun give good fortune to you.90

తెలుగు అర్థం--
    అడుగో! ఆదిత్యచక్రవర్తి విజయం చేస్తున్నాడు. అంతటా ఆహ్లాదం వెల్లివిరిసింది.
    అదితి కడుపు పండింది. అమ్మ చరితార్థత చెందింది. అదితికి అనేకమంది సంతానం అందరూ అసహాయశూరులే. కొందరు దేవశాత్రవులైన రాక్షసకోటిని హతమార్చేవారు. మరి కొందరు మహావీరాధివీరులు, జగద్రక్షణ భారం వహించినవారు. ఇంకా కొందరు దేవతాపుత్రులు ఇంద్రాదులు అందరూ గొప్పవారే.
    కానీ అందరిలో సర్వగుణాలను పుణికిపుచ్చుకున్నవాడు పూషణుడే. అదితి కొడుకని ఆయనను ఆదిత్యుడు అన్నారు. ఆయన అందరికీ ఆరాధనీయుడు. త్రైలోక్యవంద్యుడని దేవతలచేత యోగీశ్వరులచేత ప్రభువుల చేత ప్రజలచేత పద్మాలచేత స్తుతింపబడుతున్నాడు. ఆయనకు వేలాది నామాలున్నా ఆదిత్యుడునే సార్థకనామం ఆయనకే దక్కింది.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 89 (महाकवि-श्रीमयूरप्रणीतम्)

एतद्यन्मण्डलं खे तपति दिनकृतस्ता ऋचोऽर्चींषि यानि
द्योतन्ते तानि सामान्ययमपि पुरुषे मण्डलेऽणुर्यजूंषि ।
एवं यं वेद वेदत्रितयमयमयं वेदवेदी समग्रो
वर्गः स्वर्गापवर्गप्रकृतिरविकृतिः सोऽस्तु सूर्यः श्रिये वः ॥८९॥


अन्वयः– दिनकृतः एतद् यन्मण्डलं खे तपति ताः ऋचः, यानि अर्चींषि द्योतन्ते तानि सामानि, मण्डले अयमपि अणुः पुरुषः यजूंषि, एवं वेदत्रितयमयं यं वेदवेदी समग्रः वर्गः वेद, स्वर्गापवर्गप्रकृतिः अविकृतिः सः अयं सूर्यः वः श्रिये अस्तु ॥८९॥

व्याख्या– दिनकृतः अहस्करस्य सूर्यस्य एतत्. यत् मण्डलं खे आकाशे तपति द्योतते ताः ऋचः ऋग्वेदमन्त्राः यानि अर्चींषि तेजांसि द्योतन्ते दीप्यन्ते तानि सामानि, सामवेदमन्त्राः मण्डले अयमपि अणुः सूक्ष्मः पुरुषः यजूंषि, यजुर्वेदमन्त्राः एवं वेदत्रितयमयं यं सूर्यं वेदवेदी वेदज्ञः समग्रः वेद जानाति, स्वर्गश्च अपवर्गश्च स्वर्गापवर्गौ तौ एव प्रकृतिः यस्य सः स्वर्गमोक्षस्वरूपः स्वयम् अविकृतिः विकाररहितः सः अयं सूर्यः वः युष्माकं श्रिये मङ्गलाय भवतु ॥८९॥

भावार्थः– सूर्यमण्डलं ऋग्वेदः, किरणाः सामानि, मण्डलमध्यवर्ती अणुः पुरुषः यजुर्वेदः, इति वेदविदः विदन्ति । एवं वेदत्रितयमयः स्वर्गमोक्षस्वरूपः विकाररहितः सोऽयं सूर्यः युष्माकं मङ्गलं विदधातु ।
टिप्पणी- सर्गापवर्गप्रकृतिः इति पाठो विधेयः । सर्गः सृष्टिः, अपवर्गः क्रियावसानं प्रलय इत्यर्थः, एव प्रकृतिः यस्य तथाभूतः  सृष्टिप्रलयात्मा । पुनश्च तदृचः करणीयम् ॥८९॥

हिन्द्यर्थः– दिनकर सूर्यके यह जो मण्डल आकाशमें तप रहा है, ये ऋचाएँ हैं, द्योतमान किरणें, सामवेदके मन्त्र हैं, मण्डलमें जो अणुपुरुष हैं वे यजुर्वेदके मन्त्र हैं; वेदत्रयरूपी देवको सब वेदज्ञ ही ऐसे समझते हैं, स्वर्ग और मोक्षके हेतु (या सृष्टि और प्रलयात्मा) वह निर्विकार सूर्य आप लोगोंके मङ्गल करें ॥८९॥

आङ्ग्लार्थः-- The circle of the Sun which emits rays in the sky is the rk, the rays that shine are Samas, that subtle primeval being in its middle is yajus. One who is well-versed in Vedic lores knows that Sun alone is the combination of three Vedas; and is identical with heaven and liberation. He is not subject to change. May that Sun give you prosperity. 89

తెలుగు అర్థం--
    అడుగో! వేదత్రయీ దేహుడు దయచేస్తున్నాడు. “సూర్య నారాయణా! వేదపారాయణా! అని బ్రాహ్మణోత్తములు అర్ఘ్య పాద్యాలు సమర్పిస్తున్నారు.
    ఆ ప్రకాశించే ఆదిత్యమండలంలో మహామహిమాన్విత కాంతులు వేదఋక్కులు. త్రిసంధ్యా సమయాలలో విరాజిల్లే ప్రభలు సామవేద సంహితలు. ఆ మండలంలో మనోహరంగా ప్రసరించే అణురూపుడగు అర్యముడు అనంతుడు. ఆయన ఆత్మస్వరూపుడు. ఆత్మయే యజుర్వేదం ఆ నవగ్రహమూర్తి ఎవరూ గుర్తింపలేరు.
    ఇలా విహరించే స్వామి వేదత్రయీతనుడు అని వేదవేత్తలు వేయివిధాల వినుతిస్తారు. ఆయన వికృతి ఎరుగనివాడు. సుకృతి అంటే అతడే. విమలచరిత్రుడు. అతి పవిత్రుడు. ఆయన ద్వాదశాత్ముడు. మోక్షప్రదుడు.
    ఆ స్వామి సకల సంపదాయురారోగ్యం భాగ్యాలు ప్రసాదిస్తాడు.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 88 (महाकवि-श्रीमयूरप्रणीतम्)

कैलासे कृत्तिवासा विहरति विरहत्रासदेहोढकान्तः
श्रान्तः शेते महाहावधिजलधि विना छद्मना पद्मनाभः ।
योगोद्योगैकतानो गमयति सकलं वासरं स्वं स्वयम्भूः
भूरित्रैलोक्यचिन्ताभृति भुवनविभौ यत्र भास्वान् स वोऽव्यात् ॥८८॥


अन्वयः– यत्र भुवनविभौ भूरि त्रैलोक्यचिन्ताभृति कृत्तिवासाः विरहत्रासदेहोढकान्तः कैलासे विहरति, श्रान्तः पद्मनाभः अधिजलधि छद्मना विना महाहौ शेते, स्वयम्भूः योगोद्योगैकतानः स्वं सकलं वासरं गमयति, सः भास्वान् वः अव्यात् ॥८८॥

व्याख्या– यत्र यस्मिन् भुवनविभौ जगत्प्रभौ सूर्ये भूरि बहुलं त्रैलोक्यस्य चिन्तां बिभर्ति इति तस्मिन् त्रैलोक्यचिन्ताभृति, क्विप् च इति भृञः, क्विप् त्रिभुवनदायित्वं वहति, कृतिः चर्म वासः वसनं यस्य सः कृत्तिवासाः शिवः, विरहत्रासात् देहे ऊढा कान्ता येन सः, विरहभयेन देहे प्रियां धारयन्, कैलासे विहरति, श्रान्तः क्लान्तः पद्मनाभः विष्णुः छद्मना विना कपटं विना, आत्मनः श्रान्तत्वं प्रकाश्य इत्यर्थः, अधिजलधि, जलधौ इति अधिजलधि, विभक्त्यर्थे अव्ययीभावः, समुद्रे, महांश्चासौ अहिश्चेति महाहिः, तस्मिन् महोरगे शेषे शेते, स्वयम्भूः ब्रह्मा योगोद्योगैकतानः, योगश्चित्तवृत्तिनिरोधः तस्य उद्योगे एकतानः एकनिष्ठः सन् स्वं स्वकीयं सकलं वासरं सर्वं दिवसं गमयति यापयति, सः भास्वान् सूर्यः वः युष्मान् अव्यात् रक्षतु ॥८८॥

भावार्थः– यस्मिन् सूर्ये त्रिभुवनचालनदायित्वं वहति, शिवः स्वकान्तां धारयन् कैलासे सुखं विहरति; विष्णुः आत्मनः श्रान्तिं स्पष्टं प्रकाश्य समुद्रे शेषोपरि शेते; ब्रह्मापि योगसाधनरतः सकलं स्वं वासरं गमयति, सः सूर्यः युष्मान् रक्षतु ।
टिप्पणी- 'मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः, दैवे युगसहस्रे द्वे ब्राह्मः' (अहोरात्रः) इत्यमरः ॥८८॥

हिन्द्यर्थः– जगदीश सूर्य त्रिभुवन भरणकी भार लेने पर, शिव विरह आशङ्कासे अपनी कान्ताको धारण कर कैलास में विहार करते हैं; श्रान्त विष्णु समुद्रमें बिना कपटतासे शेष नाग पर शयन करते हैं; ब्रह्मा अपना सम्पूर्ण दिवस योगनिष्ठ होकर बिताते हैं, वह सूर्य आप लोगोंकी मङ्गल करें ॥८८॥

आङ्ग्लार्थः-- When the Sun looks after the three worlds, Lord Siva holds his consort close to his body for fear of separation and strolls in Kailasa mountain; Lord Visnu feeling very tired sleeps in the ocean on great snake (Sesa) without any pre-text. Lord Brahma spends his days deeply immersed in meditation. May that Sun save you. 88

తెలుగు అర్థం--
    అడుగో, భువనబాంధవుడు వస్తున్నాడు. ముల్లోకాల యోగక్షేమాలు చూస్తున్నాడు. అన్ని బాధ్యతలు తాను వహిస్తున్నాడు కదా అని త్రిమూర్తులు స్వేచ్ఛగా ఉన్నారు.
    గజచర్మాంబరధారి విరహబాధ భరించలేక విశాలాక్షి అన్నపూర్ణను అర్ధదేహంలో ఇముడ్చుకుని కైలాసంలో హాయిగా ఉన్నాడు. ఆదివిష్ణువు క్షీరసాగరంపైన ఆదిశేషుణ్ణి తల్పంగా చేసుకొని లక్ష్మీదేవి పాదసంవాహన జరుపుతుండగా యోగనిద్రను పూనాడు.
    భూభారం పనులన్నీ అరవిందబిందువు చూస్తున్నాడు కదా అని అరవిందహూతి బ్రహ్మదేవుడు యోగదీక్షలో ఏకాగ్రచిత్తంలో కూర్చున్నాడు. ఇలా అన్ని నిర్వహించే త్రిమూర్తులు విశ్రాంతి తీసుకొంటున్నారు. ఆ పనులన్నీ ప్రభాకరస్వామి నిర్వహిస్తున్నాడు. అలాంటి ఆదిత్యమూర్తి వస్తున్నాడు.
ప్రభాకరుడు ప్రజలను కాపాడుగాక.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 87 (महाकवि-श्रीमयूरप्रणीतम्)

व्यापन्नर्तुर्न कालो व्यभिचरति फलं नौषधीर्वृष्टिरिष्टा
नेष्टैस्तृप्यन्ति देवा न हि वहति मरुन्निर्मलाभानि भानि ।
आशाः शान्ता न भिन्दन्त्यवधिमुदधयो बिभ्रति क्ष्माभृतः क्ष्मां
यस्मिंस्त्रैलोक्यमेवं न चलति तपति स्तात्स सूर्यः श्रिये वः ॥८७॥


अन्वयः– यस्मिन् तपति कालः व्यापन्नर्तुः न, ओषधिः फलं न व्यभिचरति, वृष्टिः इष्टा, देवाः इष्टैः न तृप्यन्ति नहि, मरुत् वहति, भानि निर्मलाभानि, आशाः शान्ताः, उदधयः अवधिं न भिन्दन्ति, क्ष्माभृतः क्ष्मां बिभ्रति, त्रैलोक्यम् एवं चलति, सः सूर्यः वः श्रिये स्तात् ॥८७॥

व्याख्या– यस्मिन् सूर्ये तपति, भावे सप्तमी, कालः वसन्तादिः व्यापन्नर्तुः विनष्टर्तुः न भवति, ओषधिः धान्ययवादिः फलं न व्यभिचरति, यथाकालं फलं प्रसूते इत्यर्थः, वृष्टिः इष्टा अनुकूला, देवाः इष्टैः यागादिभिः न तृप्यन्ति नहि तृप्यन्ति एव, मरुत् वायुः वहति, भानि नक्षत्राणि [नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम् इत्यमरः], निर्मला आभा कान्तिः येषां तानि निर्मलद्युतीनि भवन्ति, भशब्दोऽत्र भाधारनभोमण्डलवाची; आशाः दिशः शान्ताः प्रसन्नाः, उदधयः अवधिं सीमां न भिन्दन्ति न लघयन्ति, क्ष्माभृतः राजानः पर्वताश्च क्ष्मां पृथिवीं बिभ्रति धारयन्ति, त्रैलोक्यम् त्रिभुवनम् एवं चलति, सः सूर्यः वः युष्माकं श्रिये मङ्गलाय स्तात् भवतु ॥८७॥

भावार्थः– यस्मिन् सूर्ये तपति, ऋतवः यथाकालम् आयान्ति यान्ति च, धान्यव्रीह्यादयः वृक्षलताश्च पुष्पफलं धारयन्ति, वृष्टिः यथाकालं भवति, देवाः यज्ञादिभिः तृप्यन्ति, वायुः सम्यक् वहति, नभोमण्डलं विमलं भवति, दिशः प्रसन्नाः दृश्यन्ते, सागराः सीमां न लङ्घयन्ति, राजानः गिरयश्च पृथिवीं पुष्णन्ति, एवं विश्वं यथारीति प्रचलति, सः सूर्यः युष्माकं मङ्गलं विदधातु ।
टिप्पणी- न चलति स्थाने 'प्रचलति' इति विधेयम् अन्यथा नञः आधिक्यं स्यात् ॥८७॥

हिन्द्यर्थः– जिस सूर्यके प्रकाशसे ऋतुएँ नियत समय पर आती हैं; वृक्षलताएँ बिना विध्नसे फल धारण करती हैं; ठीक समय पर वृष्टि होती है, देवताएँ यज्ञादिसे तृप्त होते हैं; वायु बहता है; ताराएँ निर्मल कान्ति धारण करते हैं; दिशाएँ निर्मल होती हैं; समुद्र वेलालंघन नहीं करता; पर्वत पृथिवीको परिपुष्ट करते हैं; इस तरह ठीकसे तीन भुवन चलता है; वह सूर्य आप लोगोंका मङ्गल करें ॥८७॥

आङ्ग्लार्थः-- When the Sun shines, the cycle of seasons does not deviate its course; plants never fail to bear fruits in time; rains fall in due course; the gods are pleased with sacrifices, wind blows favourably; the stars shine brilliantly; the quarters remain calm; the seas never transgress their limits; and the kings/mountains look after earth well. May that Sun confer good fortunes on you. 87

తెలుగు అర్థం--
    అడుగో, కర్మసాక్షి సాక్షాత్కరించాడు. అందరినీ అనుగ్రహించాడు. కర్మసాక్షి రాకపోతే కాలచక్రమే ఆగిపోతుంది. ఇది సుదినం అయింది.
    ఆ స్వామి కనిపించని దినం దుర్దినం కదా! కమల బాంధవుడు ప్రకాశిస్తేనే ఋతుధర్మం సరిగ్గా సాగుతుంది. ఓషధులు ఫలవంతమవుతాయి.
    వేయిచేతులు రేనివల్లనే హర్షంగా వర్షాలు కురుస్తాయి. సవితృ దేవుడివల్లనే యాగాలు యజ్ఞాలు సక్రమంగా సాగుతాయి. యజ్ఞాలవల్లనే దేవతా సమూహం సంతోషిస్తుంది. తృప్తితో పరాలు ప్రసాదిస్తుంది. విశ్వకల్యాణం జరుగుతుంది.
    వనజబాంధవుడి వల్లనే వాయువులు క్రమంగా వీస్తున్నాయి. ఏ వాయువులు ఎప్పుడు వీచాలో వివస్వతుడికే ఎరుక. సూర్యుడి వల్లనే చుక్కలు మెరుస్తున్నాయి. లేకపోతే అంతా చీకటే.
    సప్తాశ్వుడి వల్ల సాగరాలు మేరమీరక కట్టబడి ఉన్నాయి. భువనబంధువు వల్లనే భూభరాలు భూమిని భరిస్తున్నాయి. మూడు లోకాల నియమబద్ధంగా నిర్మలంగా నిలకడగా ప్రకాశిస్తున్నాయి. జీవకోటి ఆ స్వామి వల్లనే జీవిస్తున్నది. ఆ ఆదిత్యమూర్తి అందరికీ అధికసంపదలిడుగాక!

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 86 (महाकवि-श्रीमयूरप्रणीतम्)

क्रामँल्लोलोऽपि लोकाँस्तदुपकृतिकृतावाश्रितः स्थैर्यकोटिं
नॄणां दृष्टिं विजिह्मां विदधदपि करोत्यन्तरत्यन्तभद्राम् ।
यस्तापस्यापि हेतुर्भवति नियमिनामेकनिर्वाणदायी
भूयात्स प्रागवस्थाधिकतरपरिणामोदयोऽर्कः श्रिये वः ॥८६॥


अन्वयः– यः लोलः लोकान् क्रामन् अपि तदुपकृतिकृतौ स्थैर्यकोटिम् आश्रितः, नॄणां दृष्टिं विजिह्यां विदधत् अपि अन्तः अत्यन्तभद्रां करोति, नियमिनां तापस्य हेतुः अपि एकनिर्वाणदायी भवति, प्रागवस्थाधिकतरपरिणामोदयः सः अर्कः वः श्रिये भूयात् ॥८६॥

व्याख्या– यः लोलः चञ्चलः लोकान् भुवनानि क्रामन् लङ्घयन् अपि तदुपकृतिकृतौ तेषां लोकानाम् उपकृतिकृतौ उपकारकरणे स्थैर्यकोटिं स्थिरतायाः अन्तिमपर्यायम् आश्रितः, नॄणां लोकानां दृष्टिं दृशं विजिह्यां कुञ्चितां विदधत् कुर्वन् अपि, (अरालं वृजिनं जिह्ममूर्मिमत् कुञ्चितं नतम् इत्यमरः), अन्तः अभ्यन्तरे अत्यन्तभद्रां सुप्रसन्नां करोति, नियमिनां योगिनां तापस्य दुःखस्य हेतुः अपि एकः निर्वाणदायी मुक्तिदायी भवतीति विरोधः, तापस्य उष्णतायाः इति तत्परिहारः, प्रागवस्थाधिकतरपरिणामोदयः । प्रागवस्थायाः पूर्वावस्थायाः अधिकतरः परिणामः परिणतिः यस्य तथाभूतः उदयः यस्य तथाभूतः सः अर्कः वः युष्माकं श्रिये मङ्गलाय भूयात् । विरोधोऽलङ्कारः ॥८६॥

भावार्थः– यः सूर्यः सत्वरं जगन्ति लङ्घयन्नपि तेषामुपकारकरणे अतीवस्थिरः लोकानां दृष्टिं स्वतापेन कुञ्चितां कुर्वन्नपि अनार्दृष्टिं सुप्रसन्नां कुरुते, पुनश्च योगिनां दुःखस्य उष्णतायाः हेतुः अपि मुक्तिदायी भवति, उदयावस्थायाः क्रमशः प्रचण्डतरः ऊर्ध्वगामी स सूर्यः युष्माकं मङ्गलं विदधातु ॥८६॥

हिन्द्यर्थः– जो सूर्य शीघ्र संसारको आक्रमण (लंघन) करनेसे भी उपकार करनेमें दृढ है, लोगोंकी दृष्टिको कुञ्चित करनेसे भी अन्तरात्माको विशेष भावसे प्रसन्न करता है, योगियोंके तापदायी होनेसे भी मोक्षदाता है, पूर्व उदयकालीन अवस्थासे अधिक परिवर्तनके साथ जानेवाले वह सूर्य आप लोगोंके मङ्गल विधान करें ॥८६॥

आङ्ग्लार्थः-- Though the Sun moves fast in worlds, still is very firm in doing good acts. It dazzles the eyes of people but purifies their internal senses. It causes heat but gives liberation to ascetics. May that Sun, more mature than before, bring you all prosperity. 86

తెలుగు అర్థం--
    అడుగో, అహస్కరుడు ఆతృతతో అరుదెంచాడు. లోకాల కన్నిటికి వెలుగు చూపాలి కదా! అదీ ఆరాటం.
    లోకంలో ఎక్కడా క్షణం నిలువక చంచలుడై ఒకటే పరుగు తీస్తున్నాడు. ఆయన నడకే అంత. ఆయన నడకలో చంచలుడుగా కనిపించినా లోకాలకు ఉపకారం చేయటంలో అచంచలుడు. అందువల్ల లోకులు ప్రభాకరుణ్ణి చంచలుడనీ, అచంచలుడనీ అంటారు.
    మార్తాండుడి తేజస్సు మహోగ్రంగా ఉంటుంది. మానవులు కన్నులెత్తి వీక్షించటానికి శక్యం కాదు. మానవులను ఎదురుగా చూడనివ్వడే కానీ అన్నింటినీ కనినింపజేసేది ఆయనే. అంతరంగంలో చూపును ఆయన ప్రసాదిస్తాడు. అందుకని ఆయన్ని లోకులు చూపు చెరుపువాడు అనీ చూపు ఇచ్చువాడు అనీ అంటారు. సూర్యుడు సామాన్యులకు తాపకారకుడు. యోగులకు నిర్వాణం అందిస్తూ అత్యంతిక సుఖకారకుడు.
    పూర్వ పరిస్థితికంటే రాను రాను అధికాధిక పరిణతి గల వాడై సవితృ దేవుడు సుఖాన్ని అనుగ్రహిస్తాడు. 

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 85 (महाकवि-श्रीमयूरप्रणीतम्)

लोटँल्लोष्टाविचेष्टः श्रितशयनतलो निःसहीभूतदेहः
सन्देही प्राणितव्ये सपदि दश दिशः प्रेक्षमाणोऽन्धकाराः ।
निःश्वासायासनिष्ठः परमपरवशो जायते जीवलोकः
शोकेनेवान्यलोकानुदयकृति गते यत्र सोऽर्कोऽवताद्वः ॥८५॥


अन्वयः– यत्र उदयकृति अन्यलोकान् गते सपदि दश दिशः अन्धकाराः प्रेक्षमाणः जीवलोकः शोकेन इव लोष्टाविचेष्टः लोटन् श्रितशयनतलः, निःसहीभूतदेहः, निःश्वासायासनिष्ठः, प्राणितव्ये सन्देही, परमपरवशः जायते, सः अर्कः वः अवतात् ॥८५॥

व्याख्या– यत्र उदयकृति अभ्युन्नतिकारके सूर्ये अन्यलोकान् गते, सपदि सहसा दश दिशः अन्धकाराः प्रेक्षमाणः जीवलोकः प्राणिजगत् शोकेन इव लोष्टाविचेष्टः लोष्टवत् मृत्खण्डवत् अविचेष्टः चेष्टाशून्यः लोटन् भूमौ पतन् श्रितशयनतलः, श्रितं शयनतलं येन सः शय्यामाश्रितः, निःसहीभूतदेहः, अनिःसहः निःसहः भूतः निःसहीभूतः, (अभूततद्भावे च्विः), देहः यस्य सः दुर्वहशरीरः, निःश्वासे यः आयासः श्रमः, तस्मिन् निष्ठा यत्नः यस्य सः, प्राणितव्ये जीवितव्ये सन्देही, परमपरवशः अतीव पराधीनः जायते ईश्वरमवलम्बते च, सः अर्कः वः अवतात् रक्षतु । उत्प्रेक्षालङ्कारः, वाक्यार्थहेतुकं काव्यलिङ्गं च ॥८५॥

भावार्थः– जगदुन्नतिविधायके यस्मिन् रवौ लोकान्तरं गते, दशदिशः तमसाच्छन्नाः विलोकयन् जीवलोकः शोकेन इव लोष्टवत् निश्चेष्टः दुर्वहदेहः सन् भूमौ लुठन् शय्यामाश्रयति, निःश्वासे कष्टमनुभवन् जीवनधारणे सन्देही अतीव अवशः जायते, ईश्वरम् अवलम्बते च, सः रविः युष्मान् रक्षतु ॥८५॥

हिन्द्यर्थः– जगतके अभ्युदयकर्ता जो सूर्य अन्य लोकमें चल जाने पर सहसा दश दिशाओंको अन्धकारनिमग्न देखते हुए प्राणीजगत शोकसे मानो लोटेके समान चेष्टारहित होकर थकावटसे शय्याका आश्रय लेता है, अपने जीवनमें प्रीत और अत्यन्त विवश होकर साँस भरता है, वह सूर्य आप लोगोंकी रक्षा करें॥८५॥

आङ्ग्लार्थः-- When the Sun moves away to other world, seeing all the ten quarters dark, the animals as if overwhelmed with sorrow lie on ground like a lump of clay, feel weak, pant heavily and go to sleep apprehending their lives at stake. They then submit themselves to god. May that Sun protect you. 85

తెలుగు అర్థం--
    అడుగో ఆపద్బాంధవుడు. ఆదిత్యమూర్తి వస్తున్నాడు. ఎంతోకాలం అయినట్లైంది. పోయిన ప్రాణం వచ్చినట్లయింది. ఆయన ఉంటేనే బ్రతుకు కదా!
    పరోపకారార్థం పరంధాముడు పరదేశం పర్యటనకు వెళితే ఇక్కడ జీవలోకం శోకంలో మునిగి పోతుంది. ఎవని ముఖానా వెలుగు అనేదే ఉండదు. ప్రతివాడు మృత్పిండం వలె చేష్టావిహీనమై కనిపిస్తాడు, మంచం పడతాడు. స్పృహ కోల్పోతాడు. అసలు జీవించి ఉన్నారా, లేదా అనే సందేహానికి గురి అవుతారు.
    పది దిక్కుల అంధకారం క్రమ్ముకుంటుంది. పండుకొన్న వాళ్ళు పండుకొన్నట్టే ఉంటారు. పరాధీనులౌతారు. లోకబాంధవుడు లేకపోతే లోకం శోకంలో మునిగిపోతుంది. అంధకారంలో కొట్టుమిట్టాడుకొని నిట్టూర్పులు నిగుడుస్తుంది.
    ఓ కమలబాంధవా, లోకబాంధవా, ప్రజలకు ప్రగతి ప్రసాదించు దేవా!

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 84 (महाकवि-श्रीमयूरप्रणीतम्)

ध्वान्तस्यैवान्तहेतुर्न भवति मलिनैकात्मनः पाप्मनोऽपि
प्राक् पादोपान्तभाजां जनयति न परं पङ्कजानां प्रबोधम् ।
कर्ता निःश्रेयसानामपि न तु खलु यः केवलं वासराणां
सोऽव्यादेकोद्यमेच्छाविहितबहुबृहद्विश्वकार्योऽर्यमा वः ॥८४॥


अन्वयः– यः ध्वान्तस्य एव न अन्तहेतुः मलिनैकात्मनः पाप्मनोऽपि, प्राक् पङ्कजानां न, परं पादोपान्तभाजां प्रबोधं जनयति, केवलं वासराणां न, निःश्रेयसानामपि कर्ता खलु, एकोद्यमेच्छाविहितबहुवृहद्विश्वकार्यः सः अर्यमा वः अव्यात् ॥८४॥

व्याख्या– यः अर्यमा न ध्वान्तस्य अन्धकारस्य एव अन्तहेतुः, विनाशहेतुः, मलिनैकात्मनः मलिनस्वरूपस्य पाप्मनः पापस्य अपि अन्तहेतुः भवति । प्राक् पूर्व पङ्कजानां न, परन्तु पादोपान्तभाजां चरणाश्रितानां प्रबोधं विकासं चैतन्यं च जनयति, यः न केवलं वासराणां दिवसानां कर्ता, अपि तु निःश्रेयसानां कल्याणानां, निश्चितं श्रेयो निःश्रेयसम्, (अचतुर विचतुर इत्यादिना अजन्तो निपात्यते), मोक्षस्यापि कर्ता खलु, एकोद्यमेच्छाविहितबहुबृहद्विश्वकार्यः एकश्चासौ उद्यमश्चेति एकोद्यमः तस्मिन् या इच्छा, तया विहितानि सम्पादितानि बहूनि बृहन्ति विश्वकार्याणि येन सः, अर्यमा सूर्यः वः युष्मान् अव्यात् रक्षतु ॥८४॥

भावार्थः– सूर्यः न केवलं ध्वान्तं दूरयति, पापमपि नाशयति, सः न केवलं पङ्कजानां, चरणाश्रितानां भक्तानामपि प्रबोधं (विकासं चैतन्यं च) जनयति, सः न केवलं दिवसानां, मङ्गलानां मोक्षस्य च कर्ता खलु, एकया एव प्रचेष्टया बहु विश्वकार्यं कुर्वाणः सः सूर्यः युष्मान् रक्षतु ॥८४॥

हिन्द्यर्थः– जो अन्धकारको ही विनाश नहीं करते साथ मलिन पाप को, पहले केवल पद्मोंके नहीं, पाद (किरण) सेवा करने वालोंके भी प्रबोध (विकास, चैतन्यका जागरण) करते हैं; जो दिनकर हैं, और मोक्षकारक भी हैं, एक उदय होनेकी इच्छासे विश्वके बहुत बृहत्कार्य करनेवाले वह सूर्य आप लोगोंकी रक्षा करें ॥८४॥

आङ्ग्लार्थः-- The Aryama not only removes darkness but also washes the vices. It awakens the lotuses alongwith arousing consciousness of the devotees, who pray at his feet. He is not only the harbinger of day but also is the giver of liberation. Thus, with one attempt he performs many activities in the universe. May that Aryama save you. 84

తెలుగు అర్థం--
    అడుగో! శుభంకరుడైన సూర్యనారాయణమూర్తి ఉదయిస్తున్నాడు. అంశువులతో అందరినీ ఆశీర్వదిస్తున్నాడు.
    సూర్యభగవానుడు తన కిరణ ప్రసారం చేత ప్రగాఢ తమోరాక్షసుల్ని పారద్రోలి జ్ఞానం వెదజల్లుతున్నాడు. ఆ కార్యంతో పాటు ప్రజల పాపపంకిలాన్ని కడిగేస్తున్నాడు.
    పద్మినీ వల్లభుడు జలజాలకు వికాసం చేకూర్చాడు. జీవకోటికి తమ తమ కార్యకలాపాలు చేసుకోవటానికి అన్ని విధాల ఉపయోగపడటానికి కారణభూతుడైన కర్మసాక్షి మందహాసం చేస్తూ వస్తున్నాడు.
    వేదత్రయీ తనుడు సూర్యదేవుడు యోగీశ్వరులకు మోక్షద్వారాలు తెరుస్తాడు. సవితృస్వామి ఒక్క కార్యం చేత చరాచరాలకు ఎన్నో ఉపకారాలు కలిసి వచ్చేలా చేస్తుంటాడు. విశ్వకల్యాణ కారకుడైన విభాకరస్వామి ప్రజల కామితములు నెరవేర్చుగాక.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 83 (महाकवि-श्रीमयूरप्रणीतम्)

नो शुष्कं नाकनद्या विकसितकनकाम्भोजया भ्राजितं तु
प्लुष्टा नैवोपभोग्या भवति भृशतरं नन्दनोद्यानलक्ष्मीः ।
नो शृङ्गाणि द्रुतानि द्रुतममरगिरेः कालधौतानि धौता-
नीद्धं धाम द्युमार्गे म्रदयति दयया यत्र सोऽर्कोऽवताद्वः ॥८३॥


अन्वयः– यत्र द्युमार्गे इद्धं धाम दयया म्रदयति (रवौ) विकसितकनकाम्भोजया नाकनद्या नो शुष्कम् तु भ्राजितम् नन्दनोद्यानलक्ष्मीः नैव जुष्टा, भृशतरम् उपभोग्या भवति, अमरगिरेः कालधौतानि शृङ्गाणि नो द्रुतानि, द्रुतं धौतानि, सः अर्कः वः अवतात् ॥८३॥

व्याख्या– यत्र यस्मिन् अर्के द्युमार्गे आकाशपथे इद्धं दध्नि धाम तेजः दयया म्रदयति सङ्कोचयति, भावे सत्ममी, विकसित कनकाम्भोजया विकसितं प्रस्फुटितं कनकाम्भोजं हेमनलिनं यस्यां तया नाकनद्या स्वर्णद्या गङ्गया नो शुष्कं, तु परंतु भ्राजितं राजितम् नन्दनोद्यानस्य लक्ष्मीः नन्दनोपवनश्रीः नैव स्तुष्टा नैव दग्धा, प्रत्युत भृशतरं बहुलम् उपभोग्या भवति, अमरगिरेः मेरोः कालधौतानि सौवर्णानि शृङ्गाणि शिखराणि नो द्रुतानि नो विगलितानि, वैपरीत्येन द्रुतं शीघ्रं भासा धौतानि, सः अर्कः रविः वः अवतात् रक्षतु ॥८३॥

भावार्थः– आकाशमार्गे यस्मिन् सूर्ये स्वस्य दीप्तं तेजः सङ्कोचयति, हेमनलिनराजिता स्वर्गङ्गा न शुष्का, प्रत्युत शोभिता, नन्दनोद्यानलक्ष्मीः न दग्धा, परन्तु नितरामुपभोग्या भवति, सुमेरोः हिरण्मयानि शृङ्गाणि न विगलितानि, परं शीघ्रं सौरप्रभया क्षालितानि, सः सूर्यः युष्मान् रक्षतु ॥८३॥

हिन्द्यर्थः– सूर्य आकाशमार्गमें अपनी दीप्त किरणोंको दयासे मृदु करने पर विकसित कमलोंको धारण करनेवाली स्वर्गङ्गा शुष्क नहीं हुई, पर शोभा पाई, नन्दन उद्यानकी लक्ष्मी (शोभा) नहीं जल गई, पर उपभोग्या हुई, हेमाद्रिके सुवर्ण शृङ्ग नहीं पिघल गया पर चमकने लगा, वह सूर्य आप लोगोंकी रक्षा करे॥८३॥

आङ्ग्लार्थः-- When the Sun makes out of kindness its radiant rays mild the Svargariga looks beautiful with blooming of golden lotuses, in stead of getting dry. The beauty of Nandanodyana (divine garden) becomes enjoyable, in stead of being burnt, and the golden peaks of Meru get immediately washed, in stead of melting. May that Sun protect you all. 83

తెలుగు అర్థం--
    అడుగో, ఆదిత్యుడు ఆకాశగంగాతీరం చేరాడు. ఎంతో హాయిగా ఉన్నది. స్వర్ణదీ సువర్ణ కమలాల నుంచి కమ్మని వాసనలు నాసికా పుటాలకు విందు చేస్తున్నాయి.
    కమలాప్తుడు నదీతీరానికి చేరగానే వనజాలు ఎక్కడ వాడిపోతాయోనని తన ఉష్ణకిరణధాటి తగ్గించాడు. కిరణాలు చల్లబరిచాడు. అందువల్ల గంగాజలాలు ఇగిరిపోకుండా మిలమిలలాడుతున్నాయి. జల ప్రవృద్ధం చేత స్వర్ణజలజాలు వికసించి వినూతన కమలకషాయ గంధాన్ని అందిస్తున్నాయి. పద్మినీవల్లభుడు పరమానందం చెందుతున్నాడు.
    ఆ ప్రాంతంలో నందనోద్యానవనం శోభాయమానంగా ఉన్నది. ఆ ఉద్యానవనం ఎక్కడ వాడిపోతుందోనని వనజాక్షుడు తన తీక్ష్ణ కిరణాలవేడిని ఉపసంహరించాడు. నందనవనం ఇప్పుడు భోగయోగ్యంగా ఉన్నది.
     సూర్యదేవుడు మేరుశిఖరాలు అధిరోహించి తన వేడికి స్వర్ణశిఖరాలు ఎక్కడ కరిగి నీరవుతాయోనని తగినట్టు కిరణ ప్రసారం చేయసాగాడు. లోకబాంధవుడు కదా. ఆ ఆదిత్యమూర్తి అందరిని ఆదరించుగాక!

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 82 (महाकवि-श्रीमयूरप्रणीतम्)

भासामासन्नभावादधिकतरपटोश्चक्रवालस्य तापात्-
छेदादच्छिन्नगच्छत्तुरगखुरपुटन्यासनिःशङ्कटङ्कैः ।
निःसङ्गस्यन्दनाङ्गभ्रमणनिकषणात्पातु वस्त्रिप्रकारं
तप्तांशुस्तत्परीक्षापर इव परितः पर्यटन् हाटकाद्रिम् ॥८२॥


अन्वयः– भासाम् आसन्नभावात् अधिकतरपटोः चक्रवालस्य तापात्। अच्छिन्नगच्छतुरगखुरपुटन्यासनिःशङ्कटङ्कैः छेदात् नित्सङ्गस्यन्दनाङ्गप्रमणनिकषणात् त्रिप्रकारं तत्परीक्षापरः इव हाटकाद्रिं परितः पर्यटन् तप्तांशुः वः पातु ॥८२॥

व्याख्या– अत्र स्वर्णकार इव सूर्यः हेमाद्रिं त्रिधा परीक्षते, भासाम् त्विषाम् आसन्नभावात् नैकट्यात्। अधिकतरपटोः पटुतरस्य चक्रवालस्य मण्डलस्य तापात् तापं विधाय इत्यर्थः (ल्यप् लोपे पञ्चमी), अनेन अग्निदाहो दर्शितः, अच्छिन्नं निरन्तरं गच्छन्तः ये तुरगाः अश्वाः तेषां खुरपुटन्यासः एव निःशङ्कटङ्कः, (टङ्कः पाषाणदारणः इत्यमरः), तैः छेदात्। छेदं सम्पाद्य, नित्सङ्गस्यन्दनाङ्गप्रमणनिकषणात् निःसङ्गम् असक्तं सत् चलत् यत् स्यन्दनाङ्गं चक्रं तस्य भ्रमणेन पूर्णनेन निकषणात् रेखां निपात्य इत्यर्थः, त्रिप्रकारं, तापनच्छेदननिकषणरूपेण त्रिधा तत्परीक्षापरः हेमाद्रेः हेमपरीक्षणरतः इव हाटकाद्रिं स्वर्णाद्रिं मेरुं परितः पर्यटन् परिक्रामन् तप्तांशुः उष्णांशुः रविः वः युष्मान् पातु रक्षतु । उत्प्रेक्षालङ्कारः ॥८२॥

भावार्थः– प्रथमतः निकटवर्तिनः मण्डलस्य तापेन, द्वितीयतः टङ्कायमानानां तुरगखुरपुटानां न्यासात् जायमानेन छेदेन, तृतीयतः निरन्तरं चलतः चक्रस्य गतिपथरेखया निकषणेन हेमाद्रेः स्वर्णं त्रिधा परीक्षमाणः इव अद्रिं परितः पर्यटन् रविः युष्मान् रक्षतु ॥८२॥

हिन्द्यर्थः– समीप होनेसे अति प्रचण्ड मण्डलके तापसे, निरन्तर चलते हुए अश्वोंके टङ्क (छोनी) के सदृश खुरोंसे काटकर और लग्न न होकर चलता हुआ रथचक्रके भ्रमण रेखा युक्त कसौटीसे तीन प्रकार परीक्षा करनेकी भाँति हेमाद्रिकी चार ओर घूमते दूर रवि आप लोगोंकी रक्षा करें ॥८२॥

आङ्ग्लार्थः-- The Sun moving around the golden mountain tests its gold in three-fold manner viz. by heating it with bright rays, by cutting with pickaxe-like hoofs of continuously running horses, and by rubbing with moving wheel of the chariot. May that Sun save you. 82

తెలుగు అర్థం--
    అడుగో! ప్రభాకర సార్వభౌముడు వస్తున్నాడు. మేరు పర్వతశిఖరం సమీపానికి దయచేశాడు. అడుగో కరణామూర్తి.
    సూర్యుడు మేరుపర్వత సమీపంలో ఉండటం చేత కాబోలు, కాంతి సముదాయం తీక్ష్ణమైంది. తాపం మరీ ఎక్కువైంది. సూర్యాశ్వాలు పరుగులు పెడుతున్నాయి. గరపనేలాయె. మండుటెండలో కూడా మహావేగం పుంజుకుంటున్నాయి. ఆ గుర్రాల గిట్టలు ఉక్కు ఉలులవలె స్వర్ణ పాషాణాలను ఛేదిస్తున్నాయి.
     ఆ సూర్యరథం ఆఘమేఘాలపై పరుగిడుతున్నది. రథచక్రం భ్రమణం వల్ల విశేషంగా ఒరిపిడి కలుగుతున్నది.
    ఆ సూర్యభగవానుడు ఈ విధంగా మువ్విధాలుగా బంగరు కొండను పరీక్షిస్తున్నాడా అన్నట్లున్నాడు.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 81 (महाकवि-श्रीमयूरप्रणीतम्)

॥अथ सूर्यवर्णनम्

सिद्धैः सिद्धान्तमिश्रं श्रितविधि विबुधैश्चारणैश्चाटुगर्भं
गीत्या गन्धर्वमुख्यैर्मुहुरहिपतिभिर्यातुधानैर्यतात्म ।
सार्धं साध्यैर्मुनीन्द्रैर्मुदितमतमनो मोक्षिभिः पक्षपातात्
प्रातः प्रारभ्यमाणस्तुतिरवतु रविर्विश्ववन्द्योदयो वः ॥८१॥


अन्वयः– सिद्धैः सिद्धान्तमिश्रं, विबुधैः श्रितविधि, चारणैः चाटुगर्भं, गन्धर्वमुख्यैः गीत्या, अहिपतिभिः मुहुः, यातुधानैः यतात्म, साध्यैः सार्धं, मुनीन्द्रैः मुदिततममनः मोक्षिभिः पक्षपातात् प्रातः प्रारभ्यमाणस्तुतिः विश्ववन्द्योदयः, रविः वः अवतु ॥८१॥

व्याख्या– सिद्धैः देवविशेषः सिद्धान्तमिश्रं सिद्धान्तसम्बलितं, विबुधैः श्रितविधि श्रितः विधिः यस्मिन् कर्मणि तद् यथा स्यात् तथा विधिम् अनुसृत्य, चारणैः चाटुगर्भं चाटूक्तिर्पूर्णं, गन्धर्वमुख्यैः गीत्या गानेन, अहिपतिभिः फणीन्द्रः मुहुः, यातुधानैः राक्षसैः यतात्म आत्मसंयमपूर्वकं, साध्यैः गणदेवताभिः अर्घेण सह, (मूल्ये पूजाविधावर्घः इत्यमरः), मुनीन्द्रैः मुदिततममनः सानन्दं, मोक्षिभिः मुक्तिकामिभिः पक्षे साध्ये योगे पातः स्थितिः तस्मात् (ल्यब् लोपे पञ्चमी), प्रात; प्रारभ्यमाणस्तुतिः प्रारभ्यमाणा क्रियमाणा स्तुतिः प्रार्थना यस्य सः, प्र+आङ्+रभ्+शानच् कर्मणि, विश्वैः सर्वैः वन्द्यः स्तुत्यः उदयः यस्य सः रविः सूर्यः वः युष्मान् अवतु रक्षतु ॥८१॥

भावार्थः– सिद्धाः सिद्धान्तमनुसृत्य, देवाः यथाविधि, चारणाः चाटुपूर्वकं, किन्नरमुख्याः गानेन, फणीन्द्राः पुनः पुनः, राक्षसाः आत्मसंयममाश्रित्य, साध्याः सम्पूज्य, मुनीन्द्राः सानन्दं, मुक्तिकामिनश्च योग माध्यमेन प्रातः सर्वैः वन्द्यः यं रविं स्तुवन्ति, सः रविः युष्मान् रक्षतु ।
टिणणी-पक्षः साध्योयोगः तस्मिन् पातःस्थितिः तस्मात् पक्षस्तु मासार्धेगृहसाध्ययोः इति हैमः । साध्यो योगान्तरे सुरे इति मेदिनी ॥८१॥

हिन्द्यर्थः– सिद्धगण सिद्धान्तपूर्ण वाक्यों में, देवताएँ विधिके अनुसार, चारण चाटूक्ति से, मुख्य गन्धर्वगण गीत से, सर्पराज वारम्बार, राक्षस संयमके साथ, साध्यगण पूजापूर्वक मुनियों बड़े आनन्द से, और मुक्तिकामा लोग योग से प्रभातमें जिसकी स्तुति करते हैं, विश्ववन्योदय वह रवि आप लोगोंकी रक्षा करें ॥८१॥

आङ्ग्लार्थः-- The Siddhas pray according to their doctrines, the Vivudhas (Gods wise people) following their Sastras, the Caranas with flattering words, the Gandharvas with singing, the chief of serpents repeatedly, the Yatudhanas controlling their impulses, the Sadhyas offering argha, and the illustrious sages with full pleasure. People aspiring for salvation also pray him by meditation. Thus, the Sun whose uprising in the morning is all, may protect you. 81

తెలుగు అర్థం--
    అడుగో! శుభం సుందరంగా సూర్యదేవుడు సాక్షాత్కరించాడు. యోగీశ్వరబృందం స్వామిని హృదయపూర్వకంగా ఆహ్వానిస్తున్నది.
    సిద్ధపురుషులు సిద్ధాంత భాగం తీసి విధివిహితంగా వినయాంజలి ఘటిస్తున్నారు. దేవతా సమూహం వేదోక్త ప్రకారంగా ప్రణామాలు చేస్తున్నది. చారగణం స్వామి గుణవర్ణనం కావిస్తున్నది. గంధర్వవర్గం మనోహరమంజుల మధురగానం ప్రారంభించింది.
    పన్నగరాజులు ఫణాలు విప్పి ప్రణమిల్లుతున్నారు. యాతుధానులు ఆత్మనిగ్రహంతో నమస్కారాలు చేస్తున్నారు. సాధ్యులు సాంజలులై అర్ఘ్యప్రదానం చేస్తున్నారు.
    మహామునీంద్రులు ప్రసన్నహృదయాలతో సంస్తుతి గావిస్తున్నారు. యోగీంద్రులు స్వాత్మభావనతో ప్రశంసిస్తున్నారు. అటువంటి శుభసమయంలో విశ్వవంద్యుడైన రవిరాజు మెల్లమెల్లగా దయచేస్తున్నాడు. ఆదిత్యుడు అందరికీ ఆసీస్సులు అనుగ్రహిస్తున్నాడు.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 80 (महाकवि-श्रीमयूरप्रणीतम्)

चक्षुर्दक्षद्विषो यन्न तु दहति पुरः पूरयत्येव कामं
नास्तं जुष्टं मरुद्भिर्यदिह नियमिनां यानपात्रं भवाब्धौ ।
यद्वीतश्रान्ति शश्वद् भ्रमदपि जगतां भ्रान्तिमभ्रान्ति हन्ति
ब्रध्नस्याख्याद् विरुद्धक्रियमथ च हिताधायि तन्मण्डलं वः ॥८०॥

 
॥इति मण्डलवर्णनम् ॥

अन्वयः– यत् दक्षद्विषः चक्षुः पुरः कामं न दहति तु पूरयति एव, यत् मरुद्भिः न आस्तम् अपि तु जुष्टम् यत् इह भवाब्धौ नियमिनां यानपात्रम् यत् शश्वत् वीतश्रान्ति भ्रमदपि अभ्रान्ति जगतां भ्रान्तिं हन्ति, विरुद्धक्रियम् अथच हिताधायि, ब्रध्नस्य तत् मण्डलं वः अव्यात् ॥८०॥

व्याख्या– यत् मण्डलं दक्षद्विषः शिवस्य चक्षुः, तु किन्तु पुरः अग्रतः कामं कन्दर्पं न दहति, न भस्मीकरोति, कामम् अभिलाषं पूरयति एव, यत् मरुद्भिः वायुभिः न आस्त न क्षिप्तम् परन्तु मरुद्भिः देवैः जुष्टं सेवितम् यत् इह भवाब्धौ भवसागरे नियमिनां योगिनां यानपात्रं नौकास्वरूपं भवति, यत् शश्वत् सर्वदा वीता त्यक्ता श्रान्तिः यस्मिन् तत् भ्रमत् अपि भ्रमणं कुर्वत् अपि अभ्रान्ति निःसंशयं जगतां भ्रान्तिं भ्रमम् आलोकदानेन हन्ति नाशयति, विरुद्धा विपरीता क्रिया कर्म यस्य तत् विरुद्धक्रियम् अथच हिताधायि हितमाधातुं शीलमस्येति, ताच्छील्ये णिनिः, हितकरं ब्रध्नस्य सूर्यस्य तत् मण्डलं वः युष्मान् अव्यात् रक्षतु । विरोधोऽलङ्कारः ॥८०॥

भावार्थः– यत् मण्डलं शिवस्य नेत्रं सत् अपि कामं न दहति, सर्वेषां कामं (अभिलाषं) पूरयति, यत् चालयितुं मरुतः न प्रभवन्ति, प्रत्युत मरुतः (देवाः) सेवन्ते, भवसागरतरणे यत् योगिनां नौकासदृशं भवति, यत् सर्वदा भ्रमदपि जगतां भ्रमं भ्रान्तिं निर्भ्रमं दूरीकरोति, एवं स्वयं विरुद्धक्रियमपि लोकानां हितकारकं तत् सूर्यमण्डलं युष्मान् रक्षतु ॥८०॥

हिन्द्यर्थः– जो दक्षशत्रु (शिव)के नेत्र होनेसे भी कामको दग्ध नहीं करता है, पर कामको (कामना को) पूरण करता है; जिसे मरुत् (वायु) चालित नहीं कर सकता, पर मरुतों (देवताएँ) पूजा करते हैं, जो इस संसार-सागरमें उतरने के लिए योगियोंकी नाव है जो विश्रामके बिना बहुवार जगतको भ्रमण करनेसे (स्वयं भ्रमी होने से) भी ठीक रूपसे जगतका भ्रम दूर करता है, ऐसे विरुद्ध कर्म करने वाला होकर भी हित साधन करने वाला सूर्यमण्डल आप लोगोंका रक्षा करें ॥८०॥

आङ्ग्लार्थः-- The circle of the Sun is the eye of Siva (enemy of Daksa) which does not burn Kama (cupid) but fulfils kama (all desires). Winds do not fling it away, rather serve it. It acts like a boat to ferry the saints in the ocean of the world. It moves all over the worlds without feeling fatigued. It removes the ingorance completely. Thus, though of contrasting nature, it is conducive to welfare of all. May that circle of the Sun save you. 80

తెలుగు అర్థం--
    అదిగో, అది అర్కమండలం! అది అఖండ జ్యోతిర్మయం. దాని చర్య చిత్రాతి చిత్ర భరితం.
    ఆదిత్యమండలం ఆదిశంకరుడి మూడవనేత్రం వలె ఉన్నది. ఆనేత్రం చంచలుడైన కాముడికి దాహకారణం. భక్తులమనోరథాలు తీర్చటంలో కామదం. అక్కడ కామదాహకం, ఇక్కడ కామదం.
    ఆ ఆదిత్యమండలం మహాయోగీస్వరులకు సంసారసాగరం దాటించే నావ. ఆ నావ ప్రభంజనం చేత భంజింపబడదు. దేవతలచేత సేవింపబడుతూ ఉంటుంది. అటు మరుత్తులంటే వాయువులు ఇటు మరుత్తులంటే దేవతలు.
    అట్లే ఆ ఆదిత్యమండలం విశ్రామం లేక నిరంతరం భ్రమిస్తూ ఉంటుంది. అయినా లోకుల భ్రాంతిని అభ్రాంతిగా చేస్తుంది అంటే మిథ్యా జ్ఞానాన్ని నిస్సంశయంగా అణచివేస్తుంది.
    ఇలా విభాకరమండలం విరుద్ధక్రియలు చేస్తూ కూడా ప్రజలకు హితమే చేస్తూ ఉంటుంది కానీ అహితం చేయదు. మేళ్ళు చేకూర్చటం దానిపని.
    అట్టి సూర్యమండలం మహీస్థలిలోనూ మహాకాశంలోనూ అందరికి మహాశ్రేయములు చేకూరుస్తుంది.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 79 (महाकवि-श्रीमयूरप्रणीतम्)

उद्यद्द्यूद्यानवाप्यां बहुलतमतमःपङ्कपूरं विदार्य
प्रोद्भिन्नं पत्रपार्श्वेष्वविरलमरुणच्छायया विस्फुरन्त्या ।
कल्याणानि क्रियाद्वः कमलमिव महन्मण्डलं चण्डभानोः
अन्वीतं तृप्तिहेतोरसकृदलिकुलाकारिणा राहुणा यत् ॥७९॥


अन्वयः– द्यूद्यानवाप्यां बहुलतमतमत्पङ्कपूरं विदार्य उद्यत् पत्रपार्श्वेषु अविरलं विस्फुरन्त्या अरुणच्छायया प्रोद्भिन्नं, तृप्तिहेतोः अलिकुलाकारिणा राहुणा असकृत् अन्वीतं कमलमिव चण्डभानोः यत् महत् मण्डलं वः कल्याणानि क्रियात् ॥७९॥

व्याख्या– द्यूद्यानवाप्यां द्यौः आकाशम् एव उद्यानं तस्य वापी सरसी तस्यां, बहुलतमम् प्रभूततमं, (प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु इत्यमरः) । यत्तमः तिमिरं तदेव पङ्कपूरः पङ्कप्रवाहः तं विदार्य उद्यत् उद्धृतं, पत्रपार्श्वेषु वाहनपार्श्वेषु च अविरलं विस्फुरन्त्या प्रोल्लसन्त्या अरुणच्छायया अरुणकान्त्या अनूरुप्रभया च प्रोद्भित्रं विकसत्। तृप्तिहेतोः तृप्त्यर्थम् अलिकुलाकारिणा अलीनां कुलम् अलिकुलं तस्य आकार इव आकारः अस्यास्तीति तेन, भ्रमरपुञ्जसदृशेन राहुणा असकृत्पुनः पुनः अन्वीतं अनुसृतं, कमलं पद्ममिव चण्डभानोः तीक्ष्णांशोः सूर्यस्य यत् महत् मण्डलं तत् वः युष्माकं कल्याणानि मङ्गलानि क्रियात् करोतु । उपमालङ्कारः ॥७९॥

भावार्थः– आकाशोद्यानस्य पुष्करिण्याः तमस्तुल्यं अतिबहलं पङ्कस्तरम् उद्भिद्य प्रोद्भूतम् अरुणकान्तिपत्रविशिष्टं, राहुसदृशैः भ्रमरैरनुगम्यमानं, कमलमिव, पङ्काभम् अन्धकारराशिमुद्भिद्य वाहनपार्श्वे अरुणकान्त्या देदीप्यमानं भ्रमरपुञ्जसदृशवर्णेन राहुणा बहुवारमनुसृतं सूर्यमण्डलं युष्माकं मङ्गलं विदधातु ।
टिप्पणी-तत्। पदमाहरणीयम् । अथवा यत् पदं परिवर्त्य तत् करणीयम् ॥७९॥

हिन्द्यर्थः– आकाशरूपी उद्यानके तालाबमें घन अन्धकार रूपी पङ्कप्रवाहको भेदकर जाते हुए, पत्र पार्श्वमें पतित अरुण किरणसे विकसित हुए, अलिकुलतुल्य राहु द्वारा बहुवार आक्रान्त कमलके समान सूर्यमण्डल आप लोगोंके मङ्गल विधान करे॥७९॥

आङ्ग्लार्थः-- The grand circle of the Sun like lotus of shining ruby (Aruna) colour beside the Patra (leaf/horses), followed frequently by bee-like Rahu for gratification, emerges from the deep layer of darkness mud in the tank of heaven-garden. May that solar circle do good to you.79

తెలుగు అర్థం--
    అదిగో, మంగళప్రదమైన మార్తాండ మండలం మహనీయంగా ఉన్నది. ఎంత మనోహర మండలం! అందులో ఆఖండల వైభవం అఖండంగా ఉన్నది.
     ఆకాశం అందాలు చిందే ఉద్యానవనం. ఆ వనంలో రకరకాల రంగురంగుల పూలు లతలు లతాగుల్మాలు ఎన్నో! ఆ ఉద్యానవనంలో నయనానందకరంగా తూర్పు దిక్కున నడబావి. ఆ బావిలో చిమ్మచీకటి అనే అడుసు దట్టంగా పేరుకొని ఉంటే ఉష్ణరశ్మి ఉష్ణకిరణాలు అనే పదునైన పలుగులతో పరిశుభ్రం చేశాడు. ఇప్పుడెంత బాగుంది నడబావి. శుభ్రమైన జలం ఊరుతున్నది.
    ఆ నడబావిలో మహాపద్మంలా ప్రకాశిస్తున్నది భాస్కర మండలం. పద్మం పక్క పత్రాలు పద్మ పార్శ్వాలు అరుణ చ్ఛాయలతో అద్భుతంగా అమోఘంగా ప్రకాశిస్తున్నాయి.
    ఆకాశాన ఆ బావి. బావిలో ఆ పద్మాల పక్కన కెంజిరంగు కాంతులు కన్నులవిందు చేస్తున్నాయి. ఆ పుష్పసౌందర్యానికి తుమ్మెదలు మూగుతున్నాయి. ఆ పుష్పం పూషణుడు వలె ఉన్నాడు. తుమ్మెదల దండు రాహువులా ఉన్నది. అళులు అరవిందాన్ని అనుసరిస్తున్నట్టు రాహువు రవిని వెంటాడుతున్నాడు. ఆదిత్యుడది లెక్కచేయటం లేదులే.
    ఆ అరుణమండలం అందరి ఆర్తిని హరించుగాక.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 78 (महाकवि-श्रीमयूरप्रणीतम्)

शुष्यन्त्यूढानुकारा मकरवसतयो मारवीणां स्थलीनां
येनोत्तप्ताः स्फुटन्तश्चटिति तिलतुलां यान्त्यगेन्द्रा युगान्ते ।
तच्चण्डांशोरकाण्डत्रिभुवनदहनाशङ्कया धाम कृत्स्नं
संहृत्यालोकमात्रं प्रलघु विदधतः स्तान्मुदे मण्डलं वः ॥७८॥


अन्वयः– युगान्ते मारवीणां स्थलीनाम् ऊढानुकाराः मकरवसतयः शुष्यन्ति, येन उत्तप्ताः अगेन्द्राः चट् इति स्फुटन्तः तिलतुलां यान्ति, अकाण्डत्रिभुवनदहनाशङ्कया कृत्स्नं धाम संहृत्य प्रलघु आलोकमात्रं विदधतः चण्डांशोः तत् मण्डलं वः मुदे स्तात् ॥७८॥

व्याख्या– युगान्ते युगावसाने प्रलयकाले मारवीणां मरोः इमाः मारव्यः तासां स्थलीनाम् ऊढानुकाराः ऊढः धृतः अनुकारः सादृश्यं याभिः तथाभूताः सत्यः, मकरवसतयः समुद्राः शुष्यन्ति, येन सूर्यमण्डलेन उत्तप्ताः अगेन्द्राः महापर्वताः चट् इति स्फुटन्तः तिलतुलां यान्ति तिलसादृश्यं लभन्ते, खण्डविखण्डिता भवन्तीत्यर्थः,अकाण्डे असमये त्रिभुवनस्य त्रिलोक्याः दहनाशङ्कया दाहाशङ्कया कृत्स्नं सम्पूर्णं धाम तेजः संहत्य सङ्कोच्य प्रलघु क्षीणम् आलोकमात्रं आलोकः एव आलोकमात्रम् अस्वपदविग्रहः, विदधतः धारयतः चण्डांशोः उष्णांशोः सूर्यस्य तत् मण्डलं वः युष्माकं मुदे आनन्दाय स्तात् भवतु ॥७८॥

भावार्थः– युगावसाने यस्य रवेः तेजसा शुष्काः समुद्राः मरुभूमितुल्याः दृश्यन्ते । पर्वता अपि उत्तप्ताः स्फुटन्तः खण्डविखण्डिताः तिलवत् भवन्ति । 'अकाले त्रिभुवनं दग्धं मास्तु' इति चिन्तया यः स्वं तेजः संहृत्य आलोकमात्रं गृह्णाति, तस्य चण्डांशोः मण्डलं युष्मान् आनन्दयतु ॥७८॥

हिन्द्यर्थः– प्रलयकालमें समुद्रको शुष्क कर मरुसदृश बनानेवाला, पर्वतको उत्तप्त कर तट् तड् ध्वनिसे खण्डित कर तिल सदृश करनेवाला, असमयमें ही त्रिभुवन दहनकी आशङ्कासे अपने तेजको संकुचित कर केवल आलोक धारण करनेवाला उष्णांशुका मण्डल आप लोगोंको आनन्द प्रदान करें ॥७८॥

आङ्ग्लार्थः-- The circle of the Sun makes the seas look like deserts at the time of dissolution by drying up their waters. The mountains get heated, and burst into small pieces like sesame seeds producing 'tad' sound. Apprehending untimely destruction of the universe, the Sun withdraws his full brightness and emits light only. May that circle of the Sun give you pleasure. 78

తెలుగు అర్థం--
    అదిగో, అర్కమండలం అరుదెంచింది. ఈ తేజో మండలం దర్శనం మహాపాతక నాశనం. ఎంత తేజస్సు! లోపల ఇంకెంత తేజమో! పైకి ఈ తేజస్సు మాత్రమే మనం సహించలేకున్నాము.
    లోపల ఎంత వేడిమి సహించో పైకి సుందరంగా కనిపిస్తున్నది సూర్యమండలం. లోకం కోసం పొట్టలో పెనుమంటలు పెట్టుకుని ప్రాణికోటికి చాలినంతవరకే కాంతిని వారి ఉపయోగం కోసం ప్రసారం చేస్తుంటాడు స్వామి.
    యుగాంతంలో ద్వాదశాత్ముడు పూర్తిగా కన్ను తెరిచాడంటే సప్తసముద్రాలూ సమస్త దేశాలూ తప్తమై మండి మరుస్థలాలు అవుతాయి.
    దయాంతరంగంతో ఆదిత్యుడు ఆలోచించాడు. తన తేజం లోకానికి మేలు చేయాలి కానీ కీడు చేయరాదు. మంటలతో మనుష్యులను మాడ్చరాదు. సదా మహాత్ముల తత్త్వం పరోపకారమే. “నా వల్ల మేలే జరగాలి. అపకారం ఆవంత జరగరాదు” అని తన శక్తినంతా లోపలనే ఇముడ్చుకుని ఉపకారానికి ఉపక్రమించాడు. ప్రాణులకు తగినంత పరిమితంగానే తన తేజస్సును ప్రసారం చేస్తున్నాడు స్వామి.
    మహాత్ముల మనస్సే అంత. ఆ ద్వాదశాదిత్య మండలం ప్రజలకు అఖండ ఆనందాలను కలిగించుగాక.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 77 (महाकवि-श्रीमयूरप्रणीतम्)

यत्प्राच्यां प्राक् चकास्ति प्रभवति च यतः प्राच्यसावुज्जिहानाद्
इद्धं मध्ये यदह्नो भवति ततरुचा येन चोत्पाद्यतेऽहः ।
यत्पर्यायेण लोकानवति च जगतां जीवितं यच्च तद्वो
विश्वानुग्राहि विश्वं सृजदपि च रवेर्मण्डलं मुक्तयेऽस्तु ॥७७॥


अन्वयः– यत् प्राच्यां प्राक् चकास्ति, उज्जिहानात् यतः असौ प्राची प्रभवति, अह्नः मध्ये यत् इद्धं भवति, ततरुचा येन अहः उत्पाद्यते, यत् पर्यायेण लोकान् अवति, यच्च जगतां जीवितं, विश्वं सृजत् अपि च विश्वानुग्राहि, तत् रवेः मण्डलं वः मुक्तये अस्तु ॥७७॥

व्याख्या– यत् मण्डलं प्राच्यां पूर्वस्यां दिशि प्राक् आदौ चकास्ति दीप्यते, उज्जिहानात् उद्गच्छतः यतः यस्मात् असौ प्राची पूर्वा दिक् प्रभवति, उत्कर्षेण वर्तते, अह्नः दिवसस्य मध्ये यत् इद्धं दीप्तं भवति, तता रुक् यस्य तेन व्याप्ततेजसा येन मण्डलेन अहः दिनम् उत्पाद्यते, यत् पर्यायेण क्रमेण, (गत्यर्थकात् इणो घञ्) लोकान् भुवनानि (लोकस्तु भुवने जने इत्यमरः), अवति रक्षति, यच्च जगतां जीवितं जीवनं, विश्वं सृजत् अपि च पुनश्च विश्वानुग्राहि विश्वपोषकं, तत् रवेः सूयस्य मण्डलं वः युष्माकं मुक्तये मोक्षाय अस्तु भवतु । आदित्याज्जायते वृष्टिः वृष्टेरन्नं ततः प्रजाः ॥७७॥

भावार्थः– सूर्यमण्डलं प्राक् प्राच्यां प्रकाशते, तेन प्राची दिक् सर्वोत्कर्षेण वर्तते । तन्मण्डलं क्रमशः दीप्तं सत् दिवसं सृजति, सर्वं जगच्च रक्षति, लोकानां जीवनं तस्मिन् निर्भरशीलम् । तदेव विश्वसृष्टेः हेतुभूतं जगन्मङ्गलविधायकं रवेः तन्मण्डलं युष्माकं मोक्षाय अस्तु ॥७७॥

हिन्द्यर्थः– जो मण्डल पूर्व दिशामें पहले प्रकाश पाता है, जिससे पूर्व दिशा गौरव विमण्डित होती है, दिनके मध्य भागमें जो प्रचण्ड होता है, जिससे दिनकी उत्पति होती है, जो पर्याय क्रमसे आकर संसारकी रक्षा करता है, जो जगतका जीवन है, विश्वके स्रष्टा और उपकारी है, वैसे होने वाला सूर्य मण्डल आप लोगोंको मुक्ति प्रदान करें ॥७७॥

आङ्ग्लार्थः-- The circle of the Sun appears first in the east. Ascending upwards it invests the east with glory. It shines brilliantly in the mid-day; spreading across its brilliance, it heralds the arrival of the day. It is the life-force of the worlds. It creates the entire universe and rears it. May that solar circle give you liberation. 77

తెలుగు అర్థం--
    అవిగో! అవి అర్కమండల మనోహర దీప్తులు, మంగళకరంగా ఆ ఉదయించేది ప్రాచీన దిశ. సూర్యుడు ఎటు పొడిస్తే అటు తూర్పు. దిక్కు లేనివారికి, దిక్కు తెలియనివారికి దిక్కు చూపెట్టేది దినకర సార్వభౌముడు, దినకరుడు కనిపిస్తే అది సుదినం.
    మార్తాండ మహామండలం దినభాగం ప్రకాశవంతంగా వెలుగుతున్నది. మార్తాండుడు వస్తేనే శుభోదయం తెలుస్తుంది. మార్తాండుడు వల్లనే మధ్యాహ్నం గ్రాహ్యమవుతుంది. సవితృదేవుడు సాయంత్రాన్ని కలుగచేస్తాడు. అర్కుడున్నప్పుడే అహము. ఆయన ఉన్నప్పుడే ఈరోజు గడిచేది.
    తపనుడు ఉష్ణకిరణ ప్రసారం చేసి మూడు జగాలను తపింప చేస్తాడు. తపనుడు తపింప చేయటం ప్రజల క్షేమం కోసమే. జీవకోటి చైతన్యం కోసమే. అలా చేయటం జీవుల అభివృద్ధి కొరకే. అది ప్రజలకు ప్రాణదానం వంటిది.
    ఆదిత్యదీప్తి అఖిల ప్రపంచానికి రక్షాకవచం. వరిమండలం మహాయోగీశ్వరులకు ముక్తిమార్గం చూపించే అఖండ జ్యోతి. ఆదిత్యుడు అందరికి ఆరోగ్యం ప్రసాదించుగాక. 

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 76 (महाकवि-श्रीमयूरप्रणीतम्)

कस्त्राता तारकाणां पतति तनुरवश्यायबिन्दुर्यथेन्दुः
विद्राणा दृक्स्मरारेरुरसि मुररिपोः कौस्तुभो नोद्गभस्तिः ।
वह्नेः सापह्नवेव द्युतिरुदयगते यत्र तन्मण्डलं वो
मार्तण्डीयं पुनीताद्दिवि भुवि च तमांसीव मृष्णन्महांसि ॥७६॥


अन्वयः– यत्र उदयगते इन्दुः अवश्यायबिन्दुः यथा तनुः पतति, तारकाणां कः त्राता स्मरारेः दृक् विद्राणा, मुररिपोः उरसि कौस्तुभः नोद्गभस्तिः वह्नेः द्युतिः सापह्नवा इव, भुवि तमांसि इव दिवि महांसि मुष्णत् तत् मार्तण्डीयं मण्डलं वः पुनीतात् ॥७६॥

व्याख्या– यत्र सूर्यमण्डले उदयगते उदयं गते द्वितीया श्रितातीत इति समासः, इन्दुः चन्द्रः अवश्यायबिन्दुः यथा तुषारबिन्दुरिव तनुः क्षीणः पतति, तारकाणां कः त्राता रक्षकः? स्मरारेः शिवस्य दृक् दृष्टिः विद्राणा शक्तिहीना भवति, मुररिपोः मुरारेः उरसि वक्षसि कौस्तुभः मणिः नोद्गभस्तिः न उद्गता गभस्तिः यस्मात् सः तेजोहीनः, वह्नेः अग्नेः द्युतिः तेजः सापह्नवा निष्प्रभा इव भवति, भुवि पृथिव्यां तमांसि अन्धकारान् इव दिवि व्योम्नि महांसि तेजांसि मुष्णत् अपहरत् तत् मार्तण्डीयं सौरं मण्डलं वः युष्मान् पुनीतात् पवित्रयतु ॥७६॥

भावार्थः– सूर्ये उदिते चन्द्रः तुषारबिन्दुवत् क्षीयते, नक्षत्रेशस्य ईदृशी दशा, का कथा नक्षत्राणाम्? महेश्वरस्य दृष्टिः शक्तिहीना भवति, मुरारेः वक्षसि कौस्तुभो मणिः नो राजते, अग्नेः तेजश्च निष्प्रभं भवति, एवं सर्वेषां तेजसां मोषः सम्पद्यते भुवि अन्धकाराः इव दिवि अपि तेजांसि निलीयन्ते । एतादृङ्महातेजसः सूर्यस्य मण्डलं युष्मान् पुनातु ॥७६॥

हिन्द्यर्थः– जिसके उदयसे चाँद भी तुषारबिन्दुके समान क्षीण हो जाता है, ताराओं की रक्षा करेगा कौन? भगवान् शिवकी आँखें म्लान हो जाती हैं; मुरारिके वक्षमें कौस्तुभ निष्प्रभ हो जाता है, अग्निका तेज छिप जाता है, पृथिवीसे अन्धकारकी भाँति व्योमसे सब तेजोंको हरण करनेवाला सूर्यमण्डल आप लोगोंको पवित्र करें ॥७६॥

आङ्ग्लार्थः-- When the circle of the Sun rises the moon disappears like dew drops. Who can then protect the stars ? The eye of Siva dazzles, the Kaustubha jewel of Visnu does not emit rays, the brightness of fire is concealed. Like darkness from earth it takes away the brightness from heaven. May that solar circle purify you. 76

తెలుగు అర్థం--
    అదిగో, మార్తాండ మండలం, మంగళకరంగా సాక్షాత్కరిస్తూ అపరంజి కాంతులను విరజిమ్ముతున్నది. దిశలు సర్వం హరిద్రమయం. సవితృ కాంతిమయం.
    ఆకాశవీథిలో ఆదిత్యదేవుడి సత్యదీధితులు చూచి రేరాజు చిన్నబుచ్చుకున్నాడు. ఆయన ముఖం ఆవగింజంత అయింది. ఇది గమనించి కానికాలం వచ్చిందని తారకలు తమదారి తాము చూచుకుంటున్నాయి.
    సూర్యమండస తేజస్సు గమనించి దయాకరుడైన శంకరుని కన్ను నిదురలోకి వెళ్ళింది. వెన్నుడి ఎదపై కౌస్తుభం కాంతులు కుంఠితం కాసాగాయి. అగ్నిహోత్రుడు ఇది ఎవరి తేజస్సు అని ఆశ్చర్యపోతున్నాడు.
    మార్తాండ మండలం దివి భువి అంతరాలాల అంతట మహా తేజస్సులను విరజిమ్ముతున్నది. తిమిరం ఎక్కడా నలుసంత కూడా కనిపించటం లేదు. ఎంత మంచి రోజులు వచ్చాయి మానవాళికి. అజ్ఞానాంధకారం అంతరించి అర్కకాంతులు అంతటా నిండాయి. శుభం.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 75 (महाकवि-श्रीमयूरप्रणीतम्)

प्रत्युप्तस्तप्तहेमोज्ज्वलरुचिरचलः पद्मरागेण येन
ज्यायः किञ्जल्कपुञ्जो यदलिकुलशितेरम्बरेन्दीवरस्य ।
कालव्यालस्य चिह्नं महिततममहोमूर्न्धि रत्नं महद्यद्
दीप्तांशोः प्रातरव्यात् तदविकलजगन्मण्डनं मण्डलं वः ॥७५॥


अन्वयः– यत् मण्डलम् अलिकुलशितेः अम्बरेन्दीवरस्य ज्यायःकिञ्जल्कपुञ्जः, प्रातः पद्मरागेण येन प्रत्युप्तः अचलः तप्तहेमोज्ज्वलरुचिः महिततमं कालव्यालस्य चिह्नम् अहोमूर्ध्नि महत् रत्नम् अविकलजगन्मण्डनं, दीप्तांशोः तत् मण्डलं वः अव्यात् ॥७५॥

व्याख्या– यत् मण्डलम् अलिकुलमिव शितेः नीलस्य, अम्बरमेव इन्दीवरं तस्य व्योमनीलोत्पलस्य ज्यायःकिञ्जल्कपुञ्जः ज्यायान् केसरराशिः, (प्रशस्य शब्दादीयसुनि, ज्य च इति ज्यादेशः) । प्रातः पद्मस्येव रागो यस्य तेन पद्मरागेण येन मण्डलेन प्राप्तः व्याप्तः अचलः तप्तहेम इव उज्ज्वला रुचिः यस्य सः तप्तस्वर्णाभः भवति, यत् महिततमं प्रशस्यतमं काल एव व्यालः सर्पः तस्य चिह्नं, पुनश्च अहोमूर्ध्नि दिवसशिरसि महत् रत्नम् अविकलं अखण्डं (चिरन्तनं) जगन्मण्डनं विश्वालङ्कारस्वरूपं दीप्तांशोः उष्णांशोः सूर्यस्य तत् मण्डलं वः युष्मान् अव्यात् रक्षतु । परम्परितं मालारूपकमलङ्कारः ॥७५॥

भावार्थः– यत् सूर्यमण्डलं भ्रमरवत् नीलाभस्य अम्बरनीलोत्पलस्य महान् केसरपुञ्जो भवति, प्रातः पद्मरागसदृशस्य यस्य भासा मेरुः तप्तकाञ्चनकान्तिं धारयति, कालसर्पस्य महत् चिह्नं, दिवसशिरसो महत् रत्नं, विश्वस्य अलङ्कारस्वरूपं, तत् प्राभातिकं सूर्यमण्डलं युष्मान् रक्षतु ॥७५॥

हिन्द्यर्थः– जो मण्डल अलि-कुल-नील आकाश नीलोत्पलके प्रभूत परागपुञ्ज हैं, प्रभातमें जिसके तेजसे मेरु पर्वत तरल सोनेकी कान्ति धारण करता है, काल सर्पके प्रदर्शक, दिवसके शिरपर महान रत्नके तुल्य जगतकी शोभावर्द्धक उष्णांशु सूर्यके वह मण्डल आप लोगोंकी रक्षा करें ॥७५॥

आङ्ग्लार्थः-- The most adorable orb of the Sun decorates the entire creation in the morning. It has the colour of the lotus/ruby. It invests the mountain with the brilliance of molten gold and looks like the long filaments of sky like lily resembling the colour of the cluster of bees. It is a distinguishing mark of time-like snake and appears as a magnificient crest-jewel on the head of the day. May that orb protect you. 75

తెలుగు అర్థం--
    అదిగో, ఆదిత్యమండలం, ఎంత మనోజ్ఞంగా ఉన్నది. అది ఈ ప్రాంతంలో ప్రకృతికి బంగారు భూషణంలాగా ఉన్నది.
    ఉదయ సమయంలో పూర్వదిశాభూమి బంగారు ముద్దవలె ఉన్నది. అందులో ప్రాచీన పర్వతం పై ప్రభాకరమండలం పద్మరాగ మణివలె భాసిస్తున్నది.
    ఆకాశం నల్ల కలువవలె ఉన్నది. దాని మీద భ్రమర నీలిమ కాంతివలె వెలుగులు వ్యాపించినాయి. ఆ అళిరాజు నీలిమల పై తగులుకొన్న పుప్పొడి సముదాయమా అన్నట్లు ఉన్నది సూర్యమండల ఛవి.
    కాలము కాళీయ సర్పం వలె ఉన్నది. కాళీయుడి శిరముపై మహారత్నం వలె ప్రకాశిస్తున్నది ప్రభాకర మండలం. ఆ మండలం జగత్తుకు మహామండనంగా మంగళకరంగా శోభలు విరజిమ్ముతున్నది.
     ఆ సూర్యమండలం మహీప్రజకు మంగళములు అందించుగాక.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

सूर्यशतकम् - 74 (महाकवि-श्रीमयूरप्रणीतम्)

वेलावर्धिष्णु सिन्धोः पय इव खमिवार्धोद्गताग्य्रग्रहोडु
स्तोकोद्भिन्नस्वचिह्नप्रसवमिव मधोरास्यमस्यन्मनांसि ।
प्रातः पूष्णोऽशुभानि प्रशमयतु शिरःशेखरीभूतमद्रेः
पौरस्त्यस्योद्गभस्तिस्तिमिततमतमःखण्डनं मण्डलं वः ॥७४॥


अन्वयः– वेलावर्धिष्णु सिन्धोः पयः इव, अर्धोद्गताग्र्यग्रहोडु खम् इव, स्तोकोद्भिन्नस्वचिह्नप्रसवं मनांसि अस्यत् मधोः आस्यमिव, अद्रेः शिरःशेखरीभूतम् उद्गभस्ति, स्तिमिततमतमःखण्डनं, प्रातः पौरस्त्वस्य पूष्णः मण्डलं वः अशुभानि प्रशमयतु ॥७४॥

व्याख्या– वेलायां तटप्रदेशे वर्धिष्णु वर्धनशीलं अलकृञ् निराकृञ् इत्यादिना इष्णुच् सिन्धोः समुद्रस्य पयः जलमिव, अग्र्याः ग्रहाः अग्र्यग्रहाः, ते च उडूनि च तेषां समाहारः अग्र्यग्रहोडु, अर्धोदितम् अग्र्यग्रहोड यस्मिन् तत् खम् आकाशम् इव, स्तोकम् अल्पम् उद्भिन्नः प्रकटितः स्वचिह्नप्रसवः निजाविर्भावसूचकफलपुष्पादिः यस्मिन् तत् मनांसि अस्यत् मनोविक्षेपकम् मधोः वसन्तस्य आस्यं मुखमिव, अद्रेः पर्वतस्य मेरोः शिरःशेखरीभूतं शिरोमुकुटस्वरूपम् उद्गता गभस्तयः किरणाः यस्य तत् स्तिमिततमं निश्चलतमं यत् तमः अन्धकारः तस्य खण्डनं नाशकं, प्रातः पौरस्त्यस्य पूर्वदिग्भवस्य दक्षिणापश्चात् पुरसस्त्वक् इति त्यकच पूष्णः सूर्यस्य मण्डलं वः युष्माकम् अशुभानि अमङ्गलानि प्रशमयतु नाशयतु । मालोपमालङ्कारः ॥७४॥

भावार्थः– तटे वर्धनशीलं समुद्रजलमिव, अर्धदृष्टग्रहनक्षत्रमाकाशमिव, ईषद्विकसितपुष्पफलं वसन्तस्य मुखमिव, उदयाद्रेः शिरोमुकुटतुल्यं ऊर्ध्वप्रसारितरश्मिजालं तमोनाशि, पूर्वस्यां दिशि उद्धृतं सूर्यमण्डलं युष्माकम् अमङ्गलु नाशयतु ॥७४॥

हिन्द्यर्थः– वेलामें वर्द्धनशील सिन्धुके जलके समान, अर्द्धोदित ग्रहनक्षत्रोंको धारण करनेवाले आकाशके तुल्य, अपने आगमनका सूचक मनोमुग्धकर अर्द्धप्रकाशित फल फूलोंको धारण करने वाला वसन्तके मुखके सदृश, पर्वत (मेरु) शृङ्गके मुकुटकी तरह देदीप्यमान, दृश्यमान किरणोंसे अन्धकारको दूर करने वाला पूर्व दिशामें उदित सूर्यमण्डल आप लोगोंके अमङ्गल दूर करें ॥७४॥

आङ्ग्लार्थः-- The circle of the Sun rises in the East in the morning, removes benumbing darkness, seems like a crown on the peak of the mountain, appears as the waves increasing on shore, looks like the sky filled with half-risen planets and stars, and approaches like the onset of the spring with distinctive feature of fresh sprouting that distracts mind. May that circle put all your worries to an end. 74

తెలుగు అర్థం--
    అదిగో, సూర్యమండలం. ఈ అఖండ జ్యోతిర్మండలం తూర్పు కొండపై దర్శనీయంగా ఉన్నది. కన్నులపండగ చేస్తున్నది.
     అది పాలసముద్రం వలె వేలావర్ధిష్ణువు. నియమిత సమయాలలో అభివృద్ధి చెందుతుంది. ఆకాశంవలె నిర్మలంగా ప్రకాశిస్తున్నది. అది అన్ని ప్రధాన గ్రహకేంద్రాలకు నివాస స్థానం.
    ఆదిత్య మండలం వసంత ప్రారంభం వలె స్వచిహ్న ప్రసవాలను దర్శింపచేస్తుంది. మండల కాంతి స్పర్శకు కొన్ని పుష్పాలువికసిస్తాయి. పుష్పాలు ప్రభాకర మండల మండితాలు. మరి కొన్ని సూర్య చిహ్నితావిర్భావాలు. భానుడికి పద్మినీ వల్లభుడు, లోకబాంధవుడనే పేర్లు అందుకే వచ్చాయి.
    భానుమండలం మానవ మానసాలకు మహానందం కలిగిస్తుంది. ఆ భాస్కరమండలం ఉదయవేళ పూర్వపర్వత శిఖరాలకు అలంకారాభరణం. ఆ సూర్య మండలం కిరణాలు ఊర్ధ్వదిశా ప్రకటితాలు.
    అది ఆదిత్య మండలం. అశుభాలను అణచివేయటంలో అద్వితీయం. అంజలి ఘటించండి.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా