अश्यामः काल एको न भवति भुवनान्तोऽपि वीतेऽन्धकारे
सद्यः प्रालेयपादो न विलयमचलश्चन्द्रमा अप्युपैति ।
बन्धः सिद्धाञ्जलीनां न हि कुमुदवनस्यापि यत्रोज्जिहाने
तत्प्रातः प्रेक्षणीयं दिशतु दिनपतेर्धाम कामाधिकं वः ॥२०॥
अन्वयः– अन्धकारे वीते एकः कालः अश्यामः न, भुवनान्तोऽपि, प्रालेयपादः अचलः न, चन्द्रमाः अपि सद्यः विलयम् उपैति, यत्र उज्जिहाने, नहि सिद्धाञ्जलीनां, कुमुदवनस्य अपि बन्धः भवति, प्रातः प्रेक्षणीयं दिनपतेः तत् धाम वः कामाधिकं दिशतु ॥२०॥
व्याख्या– अन्धकारे वीते अपसरति, नहि एकः कालः दिवसरूपः अश्यामः अविद्यमाना श्यामा रात्रिः यस्मिन् सः तामसीरहितः शुभ्रः इत्यर्थः, भुवनान्तोऽपि, भुवनानां जगताम् अन्तः शेषसीमा अपि शुभ्रो भवति, न केवलं प्रालेयं तुषारः पादे यस्य सः हिमालयः विलयं द्रवणम् उपैति, चन्द्रमाः अपि विलयं म्लानिम् अदृश्यताम् च उपैति । यत्र यस्मिन् सूर्ये उज्जिहाने उदिते न केवलं सिद्धाञ्जलीनां बन्धः नमस्कारात्मकः सिद्धानाम् अञ्जलिबन्धः, अपितु कुमुदवनस्य बन्धः मुद्रितावस्था भवति । रात्रौ कुमुदं विकसति, दिवा तु मुद्रितं भवति । प्रातः प्रभाते प्रेक्षणीयं दर्शनीयं दिनपतेः सूर्यस्य तत् धाम तेजः युष्मभ्यं कामाधिकं कामनायाः अधिकं दिशतु ददातु । पक्षान्तरे मा लक्ष्मीः का? तस्याः अधिकं प्रयच्छतु मा । लक्ष्मीः केवलं धनदात्री, असौ तु रुजादिकमुपशाम्य ततः अधिकं त्रितापनाशकं सर्वविधं सौभाग्यं प्रयच्छति ॥२०॥
भावार्थः– प्रातः अन्धकारे अपसरति न केवलं दिवसरूपी कालः श्यामारहितः शुभ्रः, समग्रः संसारोऽपि आलोकितः भवति । पुनश्च हिमालयस्य हिमं द्रवति, चन्द्रमाः म्लानिम् अदृश्यतां च उपैति । सूर्ये उदिते सिद्धाः अञ्जलिं बद्ध्वा नमस्कुर्वन्ति, कुमुदवनं मुद्रितं भवति । प्रातः दर्शनीयं दिनपतेः सूर्यस्य तेजः युष्माकं कामनायाः अधिकं फलं प्रयच्छतु ॥२०॥
हिन्द्यर्थः– अन्धकार दूर होनेसे एक दिवसरूपी काल नहीं, सारे संसारके सीमा भी धवल (श्यामारहित, रात्रिरहित) हो जाते हैं; सिर्फ हिमाचल नहीं, हिमांशु (चाँद) भी शीघ्र विलयको (द्रवण और विलीनता को) प्राप्त होते हैं, जिसके प्रकाश होनेसे न केवल सिद्धोंके (देवता विशेषों का) नमस्कारात्मक अञ्जलि बद्ध होती है, कुमुद वनका भी मुद्रितावस्था होती है । सवेरे दर्शनीय सूर्यके यह तेज आपको कामनासे अधिक प्रदान करें ॥२०॥
आङ्ग्लार्थः-- With darkness receding in the morning the entire creation gets lightened. The snow covers the mountain slopes and the moon retreats. The Siddhas with folded hands bend in veneration and the lilies are closed with the rising of the Sun. May that graceful orb of the Sun rising in the morning fulfil more than you desire. 20
తెలుగు అర్థం--
సూర్యోదయం సర్వజనాభ్యుదయం, సూర్యస్మరణం చాలా శక్తివంతమైన మంత్రం, తంత్రం, యంత్రం.
సూర్యోదయం కాగానే అజ్ఞానానికి ప్రతీక అయిన అంధకారం అంతరించి పోతుంది. జ్ఞానప్రతీక అయిన అంధకారం అంతరించి పోతుంది. జ్ఞాన ప్రతీక అయిన ప్రకాశం ప్రసరిస్తుంది. అంతేకాదు కాలం అంతా ప్రకాశవంతమవుతుంది. లోకం అశ్యామమవుతుంది. లోకులు కన్నులు తెరుస్తారు.
సూర్యోదయం కాగానే నేలపై హిమపర్వత పాదభూముల మంచు కరిగిపోతుంది. ఆకాశంపై విహారం చేసే హిమాంశువు కూడా కళవరపడి కాంతివహీనత పొందుతాడు. హిమం అంతరించి పోతుంది.
సూర్యోదయం కాగానే సిద్ధులు, సాధ్యులు, యక్షులు, కింపురుషాదులు అందరూ అతి భక్తిశ్రద్ధలతో సూర్యనమస్కారాలు చేస్తారు. సూర్యుని ముందు చేతులు జోడిస్తారు. ముకుళిత హస్తులౌతారు. ఇంతేకాదు, మానవులే కాదు కలువపూలు సైతం ముదంతో ముకుళితమౌతాయి. సూర్యుడంటే వాటికి కూడా ఎంత భక్తి!! కమలాలు తన్మయత్వంతో తలలెత్తుతాయి. ఇది సూర్యోదయ ప్రభల ప్రభావం.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment