Sunday, June 24, 2018

सूर्यशतकम् - 29 (महाकवि-श्रीमयूरप्रणीतम्)

तीव्रं निर्वाणहेतुर्यदपि च विपुलं यत्प्रकर्षेण चाणु
प्रत्यक्षं यत्परोक्षं यदिह यदपरं नश्वरं शाश्वतं च ।
यत्सर्वस्य प्रसिद्धं जगति कतिपये योगिनो यद्विदन्ति
ज्योतिस्तद्द्विप्रकारं सवितुरवतु वो बाह्यमाभ्यन्तरं च ॥२९॥


अन्वयः– यत् तीव्रं निर्वाणहेतुः यदपि च विपुलं, यत् प्रकर्षेण च अणु, यत् प्रत्यक्षं, यत् परोक्षं, यद् इह, यद् अपरं, यत् नश्वरं, शाश्वतं च, यत् सर्वस्य प्रसिद्धं, यत् जगति कतिपये योगिनः विदन्ति, तत् सवितुः बाह्यम् आभ्यन्तरं च द्विप्रकारं ज्योतिः वः अवतु ॥२९॥

व्याख्या– यत् ज्योतिः तीव्रं तीक्ष्णं, निर्वाण हेतुः मोक्षकारणं, यत् विपुलम् अपि च प्रकर्षेण अणु सूक्ष्मं, यत् प्रत्यक्षं दर्शनीयं परोक्षं च न इन्द्रियग्राह्यं प्रतिपरसमनुभयोऽक्ष्णः इति टच्। यत् इह सन्निकृष्टं यत् अपरं विप्रकृष्टं च यत् नश्वरं नाशशीलं, शाश्वतं नित्यं च, यत् सर्वस्य प्रसिद्धं सर्वैः ज्ञातं, यत् जगति कतिपये केचनैव योगिनः विदन्ति जानन्ति, तत् सवितुः सूर्यस्य बाह्यं बहिर्दृश्यम् आभ्यन्तरम् अन्तर्दश्यं योगसमाधिगम्यं द्विप्रकारं द्विधा दृष्टं ज्योतिः वः युष्मान् अवतु रक्षतु । विरोधोऽलङ्कारः ॥२९॥

भावार्थः– यत् तीव्रमपि निर्वाणहेतुः भवति, विपुलमपि अणुवत् सूक्ष्मं, प्रत्यक्षमपि परोक्षं, पृथिव्यां दृष्टमपि अदृश्यं, विनाशशीलमपि चिरन्तनं, सर्वत्र ख्यातमपि यत् पृथिव्यां कतिपये योगिनः एव विदन्ति, तथाभूतं बाह्यम् आभ्यन्तरं च द्विधा दृष्टं रवेः तेजः युष्मान् रक्षतु ॥२९॥

हिन्द्यर्थः– जो तीव्र होनेसे भी मोक्षका हेतु है, जो व्यापक है और विशेष भावसे सूक्ष्म है, जो प्रत्यक्ष और परोक्ष है, जो यहाँ है और दूरमें है, जो नश्वर और शाश्वत है, जिसे सब जानते हैं और खास कर योगी लोगोंका बोधगम्य है, ऐसे सूर्यके बाह्य और आभ्यन्तर दो प्रकारके तेज आप लोगोंकी रक्षा करें ॥२९॥

आङ्ग्लार्थः-- The ray of the Sun though too hot is the cause of permanent peace. It is vast but very small, visible but beyond comprehension, near but far off, transient but eternal, well-known but very few yogis (asceties) comprehend its true nature. May that ray of the Sun with its double nature internal and external save you all. 29

తెలుగు అర్థం--
    సూర్యభగవానుని తేజస్సు రెండువిధాలుగా ప్రవర్తిల్లుతుంది. బాహ్యము ఆభ్యంతరము అని రెండు మార్గాలుగా పయనిస్తుంది. ఇందులో మొదటిది బహిరింద్రియ గోచరమైనది. రెండవది యోగసమాధిలో గోచరిస్తుంది.
    సూర్యశక్తి పైకి తీవ్రంగా కనిపిస్తుంది. యోగదృష్టితో ఆలోచిస్తే ఆ తేజస్సు నిర్వాణ కారణంగా భాసిస్తుంది. ఒకే కాంతి అతిస్థూలమూ, అతి సూక్ష్మమూ అయింది. అది పరమాణువుకంటే మిక్కిలి చిన్నది, హిమాలయాలకంటే పెద్దది.
    ఆ సూర్యకాంతి ప్రత్యక్షమూ పరోక్షమూ, స్ననిహితమూ దూరస్థమూ, నశ్వరమూ, శాశ్వతమూ. అది జగత్ప్రసిద్ధమూ అతి గోప్యమూ, బహిరింద్రియగోచరమూ అంతలోనే అంతర్గోచరమూ.
    ఆ సూర్యకాంతి బాహ్యంగా ఆలోచిస్తే మానవుల చక్షువులకు కనిపించేది. ఇంకా పరిశీలిస్తే యోగీశ్వరులకు మాత్రమే తెలియబడేది. అది సాధారణదృష్టికి ఐహికంగా, విశేషమైన దృష్టికి ఆధ్యాత్మికంగా కనిపిస్తుంది. ఇటువంటి బాహ్యాభ్యంతర రూపమైన సూర్యతేజం మిమ్మల్ని రక్షించుగాక.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment