आवानैश्चन्द्रकान्तैश्च्युततिमिरतया तानवात्तारकाणाम्
एणाङ्कालोकलोपादुपहतमहसामोषधीनां लयेन ।
आरादुत्प्रेक्ष्यमाणा क्षणमुदयतटान्तर्हितस्याहिमांशोः
आभा प्राभातिकी वोऽवतु न तु नितरां तावदाविर्भवन्ती ॥३७॥
अन्वयः– आवानैः चन्द्रकान्तैः च्युततिमिरतया, तारकाणां तानवात् एणाङ्कालोकलोपात उपहतमहसाम् ओषधीनां लयेन, क्षणम् उदयतटान्तर्हितस्य अहिमांशोः आरात् उत्पेक्ष्यमाणा, तावत् न तु नितराम् आविर्भवन्ती, प्राभातिकी आभा वः अवतु ॥३७॥
व्याख्या– आवानैः ईषत् शुष्कैः चन्द्रकान्तैः चन्द्रकान्तमणिभिः च्युततिमिरतया विनष्टान्धकारतया, तारकाणां नक्षत्राणां तानवात् कान्तिहीनतया, एणाङ्कः मृणाङ्कः चन्द्रः, तस्य आलोकलोपात् आलोकक्षयात्। उपहतम् व्याहतं महः तेजः यासां तासाम् ओषधीनां लयेन निष्प्रभतया हेतुना, क्षणम् उदयतटान्तर्हितस्य उदयाचलस्य तटे अन्तर्हितस्य अदृश्यस्य अहिमांशोः तीक्ष्णांशोः सूर्यस्य, अहिमः अंशुः यस्य तस्येति विग्रहः, आरात् समीपे उत्प्रेक्ष्यमाणा अनुमीयमाना, तावत् न तु नितराम् आविर्भवन्ती, तावत् कालं स्पष्टं नाविर्भूता, प्राभातिकी प्रभातकालीना आभा द्युतिः वः युष्मान् अवतु रक्षतु । वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥३७॥
भावार्थः– चन्द्रकान्तमणीनाम् ईषत् शुष्कत्वम् अन्धकारापसरणं, तारकाणां कान्तिहानिः चन्द्रालोकक्षयः ओषधीनां निष्प्रभता च स्पष्टम् असूचयन् यत् उदयतटान्तर्हितः सूर्यः अचिरादेव उदेष्यति । तावत्कालं स्पष्टमदृष्टा सूर्यस्य प्राभातिकी प्रभा युष्मान् अवतु ॥३७॥
हिन्द्यर्थः– ईषत् शुष्क चन्द्रकान्तमणियों से, अन्धकार दूर होने से, ताराओंके कान्ति क्षयसे, चाँदकी रोशनी नष्ट होनेसे, औषधियों के मलिनतासे सूचित, उदयाद्रिके पश्चात् विद्यमान, तब तक आविर्भूत नहीं हुई सूर्यके प्रातःकालीन प्रभा आपलोगोंकी रक्षा करें॥३७॥
आङ्ग्लार्थः-- When the moon-stones become dry, stars turn dim, darkness goes away, medicinal plants lose their lustre and the moonlight disappears, the immediate approach of the morning Sun, hidden behind the slopes of Udayagiri, is then inferred. May that approach of the Sun protect you. 37
తెలుగు అర్థం--
అడుగో వేయి చేతుల వేల్పు రాబోతున్నాడు. తూర్పు తెలతెలవారుతున్నది. తెలిరేకలు విచ్చుకొంటున్నాయి.
కొండలమీద చంద్రకాంతులకు చంద్రకాంతశిలలు చల్లగా ద్రవిస్తూండేవి. సూర్యదేవుడు వస్తున్నాడని ఆ శిలలు చెమర్చటం మానుకొన్నాయి. ఇంతవరకు చిక్కగా అలముకొన్న చిమ్మచీకటి విచ్చుకొన్నది. చుక్కలు పలచబడ్డాయి. చందమామ వెలుగులు సన్నగిల్లాయి. ఓషధులు కాంతిహీనములయ్యాయి. సూర్యుడు వస్తున్నాడంటే చంద్రుడు తన బలగంతో ఆకాశరాజ్యం నుంచి నిష్క్రమిస్తున్నాడు.
ఉదయాద్రి శిఖరాలమాటున అదిగో ఆదిత్యకాంతి కనిపిస్తున్నది. స్పష్టంగా అనిపించటం లేదు కానీ ఆ వెలుగులు కమలాకరుడి కమనీయకాంతులే! ఆ రంగురంగు కిరణాలు అవే.
ఉష్ణరశ్మి ఉదయకాంతులు ప్రజలకు కన్నుల పండువ చేస్తున్నాయి.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment