वाचां वाचस्पतेरप्यचलभिदुचिताचार्यकाणां प्रपञ्चैः
वैरञ्चानां तथोच्चारितचतुरऋचां चाननानां चतुर्णाम् ।
उच्येतार्चासु वाच्यच्युतिशुचिचरितं यस्य नोच्चैर्विविच्य
प्राच्यं वर्चश्चकासच्चिरमुपचिनुतात् तस्य चण्डार्चिषो वः ॥४०॥
अन्वयः– अर्चासु यस्य वाच्यच्युतिशुचिचरितम् अचलभिदुचिताचार्यकाणाम् उच्चारितचतुरऋचां वैरञ्जानां चतुर्णाम् आननानां वाचस्पतेः अपि वाचां प्रपञ्चैः उच्चैः विविच्य न उच्येत, तस्य चण्डार्चिषः चकासत् प्राच्यं वर्चः वः चिरम् उपचिनुतात् ॥४०॥
व्याख्या– अर्चासु पूजासु यस्य रवेः वाच्यच्युतिशुचिचरितं वाच्यस्य वक्तव्यस्य च्युतिः अवसानं यस्मिन् तत् अनिर्वचनीयं शुचिचरितं शुद्धचरितम् अचलं भिनत्ति इति अचलभित् इन्द्रः, तस्य उचिताः योग्याः ये आचार्याः एव आचार्यकाः तेषां, पुनश्च अः विष्णुः, तत्सम्बद्धाः ऋचः अऋचः (शाकपार्थिवादिवत् समासः, विष्णुर्हि सूर्यरूप इत्यागमः । ऋत्यकः इति, प्रगह्यभावः) । उच्चारिताः चतस्रः अ ऋचः यैः तेषाम् वैख्यानां विरञ्चेः ब्रह्मणः इमे वैरञ्चाः तेषां चतुर्णाम् आननानां मुखानां, वाचस्पतेः बृहस्पतेः अपि वाचां गिरां प्रपञ्चैः विस्तारैः उच्चैः विविच्य सम्यक् विचार्य न उच्येत वर्णयितुं न शक्येत, तस्य चण्डार्चिषः उष्णांशोः सूर्यस्य चकासत् दीप्तं, प्राच्यं प्राचि भवं प्राच्यं पूर्वस्यां दिशि दृश्यमानं वर्चः तेजः वः युष्मान् चिरम् उपचिनुतात् पुष्णातु । युष्माकं समृद्धिं सम्पादयतु इत्यर्थः । अनुप्रासोऽलङ्कारः ॥४०॥
भावार्थः– चतुर्वेदपाठपटुभिश्चतुर्भिः मुखैः ब्रह्मा, बृहस्पतिः अपि, इन्द्रस्य अन्ये आचार्याश्च यस्य अनिर्वचनीयं शुद्धं चरितं बहु विविच्यापि सम्यक् वर्णयितुं न प्रभवेयुः, तस्य चण्डांशोः सूर्यस्य पूर्वस्यां दिशि दृश्यमानं दीप्तं तेजः युष्माकं समृद्धिं सम्पादयतु ॥४०॥
टिप्पणी– ऋक् पदमिह मन्त्रसामान्यवाचि । 'च' इत्यस्य प्रयप्नेवैचित्र्यं लक्षणीयम् । चतुररुचामिति प्रयोगस्य औचित्यं चिन्त्यम् ॥४०॥
हिन्द्यर्थः– जिसके पवित्र अनिर्वर्णनीय गुणोंको इन्द्रके बडे आचार्य, चतुर्वेद पाठ करनेमें पटु ब्रह्माके चार मुख और बृहस्पति भी बहुत विवेचना करके ठीक भावसे वर्णन नहीं कर सकते हैं, उसी उष्णांशुके पूर्वदिशामें प्रकाश पानेवाली कान्ति आपकी समृद्धि विधान करें ॥४०॥
आङ्ग्लार्थः-- Vacaspati, other acaryas of Indra and four mouths of Virahci, well versed in reciting the mantras of four Vedic hymns fail, inspite of their sincere efforts to depict the inscrutable and pious deeds of the Sun. May the rays of that Sun, appearing in the east endow you with everlasting prosperity. 40
అడుగో! సూర్యభగవానుడు దయచేస్తున్నాడు. ప్రజలారా! దేవతలారా! స్వాగతం చెప్పండి. స్వస్తి పలకండి.
ఈ ఆదిత్యుడు సామాన్యదేవుడు కాదు. సకల దేవతలకు అధిపతి దేవేంద్రుడికి ఆచార్యపీఠం వహించే వాచస్పతి వాక్కులకు కూడా ఆయనను వర్ణించటం అలవి కాదు. బృహస్పతి కూడా ఈ ఆదిత్య సత్యతేజస్సు నిత్య మహస్సును వర్ణించలేడు. అంత గొప్పవాడు ఈ ద్వాదశాదిత్యుడు.
బ్రహ్మదేవుని నాలుగు ముఖాలలో నుంచి నాలుగు వేదాలు ఉదయించాయి. ఆ వేదమంత్రాలు పాపాలను పారద్రోలగల శక్త సంభరితములైనవి. ఆ వేదాలు కూడా ఈ ద్వదశాదిత్యుడి మహత్తు ఇట్టిదని వివరింపజాలవు.
ఈ ద్వాదశాదిత్యుడు మన భాగ్యం ఫలించి నేడు మన ముందుకు దయచేస్తున్నాడు. దర్శించి తరించండి.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment