योक्त्रीभूतान् युगस्य ग्रसितुमिव पुरो दन्दशूकान् दधानो
द्वेधाव्यस्ताम्बुवाहावलिविहितबृहत्पक्षविक्षेपशोभः ।
सावित्रः स्यन्दनोऽसौ निरतिशयरयप्रीणितानूरुरेनः
क्षेपीयो वो गरुत्मानिव हरतु हरीच्छाविधेयप्रचारः ॥६४॥
अन्वयः– पुरः युगस्य योक्त्रीभूतान् दन्दशूकान् ग्रसितुम् इव दधानः, द्वेधाव्यस्ताम्बुवाहावलिविहितबृहत्पक्षविक्षेपशोभः निरतिशयरयप्रीणितानूरुः, हरीच्छाविधेयप्रचारः गरुत्मान् इव असौ सावित्रः स्यन्दनः वः एनः क्षेपीयः हरतु ॥६४॥
व्याख्या– पुरः अग्रतः युगस्य रथाङ्गविशेषस्य योक्त्रीभूतान् योक्तृभावं प्रपन्नान् दन्दशूकान् सर्पान् ग्रसितुं खादितुम् इव दधानः धारयन्, द्वेधाव्यस्ता द्विभागेन विभक्ता अम्बुवाहावलिः मेघपङ्क्तिः एव विहितौ बृहत्पक्षौ तयोः विक्षेपेण शोभा यस्य तथाभूतः, निरतिशयः यो रयः वेगः तेन प्रीणितः अनूरुः येन सः, हरेः विष्णोः सूर्यस्य च इच्छाविधेयः इच्छाधीनः प्रचारः गतिः यस्य सः, गरुत्मान् इव गरुडः इव असौ सावित्रः सौरः स्यन्दनः रथः वः युष्माकम् एनः पापं क्षेपीयः अतिशयेन क्षिप्रं क्षेपीयः, स्थूलदूर इत्यादिना सिद्धम् क्षिप्रतरं हरतु नाशयतु । उत्प्रेक्षोपमयोः संसृष्टिः ॥६४॥
भावार्थः– गरुडः यथा सर्पान् भक्षयितुं धारयति, सौरः रथः तथा युगसम्बद्धानि सर्पतुल्यानि योक्त्राणि धारयति, रथधावनावसरे द्वेधा विभक्ताः मेघाः गरुडतुल्यस्य रथस्य पक्षतुल्याः दृश्यन्ते । गरुडः, रथश्च उभौ शीघ्रगत्या विष्णुम् अनूरु च प्रीणयतः । गरुडः हरे रिव रथोऽपि हरेः सूर्यस्य इच्छानुसारं याति । अतएव गरुडसदृशः सूर्यस्य रथः युष्माकं पापं शीघ्रं विनाशयतु ॥६४॥
हिन्द्यर्थः– आगे जुआमें लगे हुए चमडेको सर्प भावनासे खानेकेलिए मानो धारण करने वाला, जानेके समय दो भागमें विभक्त मेघ रूपी बहे पक्षोंको फैलानेकी शोभा धारण करने वाला, अनूरुको अपने वेगसे खुश कराने वाला, हरि (विष्णु, सूर्य) की इच्छानुसार जाने वाला गरुडके समान सूर्यरथ आप लोगोंके पाप शीघ्र नाश करें॥६४॥
आङ्ग्लार्थः-- The Solar chariot like Garuda pleases Anuru with its high speed, looks beautiful while passing through big clouds, floating in both sides like two wings, carries yokes fastened with ropes looking like snakes in its front as if to devour them, and moves according to the desires of Hari. May that Chariot destroy all your sins immediately.64
తెలుగు అర్థం--
అదిగో, విభాకరుడి విజయం రథం ప్రజలకు వెలుగు చూపే పవిత్రరథం. అది అచ్చు గరుడాళ్వారు వలె ఉన్నది. ఆ స్యందనం అందమే వేరు. ఈ రథానికి గరుత్మంతునికీ ఎన్నో సామ్యాలున్నాయి.
రథానికి కట్టు త్రాళ్ళుగా ఉన్న సర్పాలను తినటానికి గరుత్మంతుడు ముందుకు దూకుతున్నాడా అన్నట్లు రథం మందుకు పయనిస్తున్నది. ఆ రథ గమనవేగానికి మేఘపటలి రెండుగా చీలి గరుడాళ్వారుడి ఉభయపక్షాలవలె భాసిస్తున్నాయి.
ఆ స్యందన గమనం అరుణసారథి అంతరంగానికి ఆనందకారణంగా అనిపిస్తున్నది. ఆ గరుడరథం హరి ఇచ్ఛపై నడుస్తున్నది. గుఱ్ఱాలు కోరిక తీర తమ తమ ప్రతాపం చూపిస్తున్నాయి. గరుడుడుగా ఉన్న ఆ రథం హరి సంకల్పానుగుణంగా నడుస్తున్నది.
గరుత్మంతుని వంటి ఆ సూర్యరథం పాపజాతిని పారద్రోలు గాక.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment