Sunday, June 24, 2018

सूर्यशतकम् - 25 (महाकवि-श्रीमयूरप्रणीतम्)

बिभ्राणः शक्तिमाशु प्रशमितबलवत्तारकौर्जित्यगुर्वीं
कुर्वाणो लीलयाधः शिखिनमपि लसच्चन्द्रकान्तावभासम् ।
आदध्यादन्धकारे रतिमतिशयिनीमावहन्वीक्षणानां
बालो लक्ष्मीमपारामपर इव गुहोऽहर्पतेरातपो वः ॥२५॥


अन्वयः– प्रशमितबलवत्तारकोर्जित्यगुर्वी शक्तिं बिभ्राणः लसच्चन्द्रकान्तावभासं शिखिनम् अपि लीलया अधत्कुर्वाणः अन्धकारेः वीक्षणानाम् अतिशयिनीं रतिम् आवहन् अपरः बालः गुहः इव अहर्पतेः आतपः, वः अपारां लक्ष्मीम् आशु आदध्यात् ॥२५॥

व्याख्या– प्रशमितं ह्रासितं बलवत् गुरु तारकाणां नक्षत्राणाम् और्जित्य तेजस्विता तेनहेतुना गुर्वीम् अन्यत्र प्रशमित बलवतः तारकस्य तारकासुरस्य और्जित्यम् ओजस्विता, तेन गुर्वां महतीं शक्तिं, शक्तिरूपमस्रं च बिभ्राणः धारयन् लसन् प्रस्फुरन् चन्द्रः इव कान्तः उज्ज्वलः अवभासः दीप्तिः यस्य तम् शिखिनम् अग्निम् अन्यत्र लसद्धिः चन्द्रकैः अन्तावभासः यस्य तम् समुज्जलचन्द्रकप्रानौः पत्रैः शोभमानं शिखिनं मयूरम् अधः कुर्वाणः तिरस्कुर्वाणः अन्यत्र वाहनं कुर्वाणः, अन्धकारे तमसि वीक्षणानां चक्षुषाम् अतिशयिनीं रतिं रुचिम् आवहन् अन्यत्र अन्धकारेः शिवस्य नेत्रानन्दं जनयन् अपरः बालः गुहः कार्तिकेयः इव, अहर्पतेः सूर्यस्य बालः आतपः अपारां लक्ष्मीं समृद्धिम् आशु शोघ्रम् आदध्यात् विदधातु । वृत्यनुप्रासोऽलङ्कारः श्लिष्टा उपमा च, तयोः सङ्करः ॥२५॥

भावार्थः– तारकासुरविनाशकः शक्तिरूपम् अस्त्रं धारयन् चन्द्रकशोभितं मयूरं वाहनीकुर्वन् अन्धकारे शिवस्य अवलोकनानन्दं ददानः शिशुः कार्तिकेयः इव तारकाणाम् औज्ज्वल्यम् अपहरन् चन्द्रवत् उज्ज्वलविग्रहम् अग्निम् स्वप्रभया तिरद्ध्वर्वन् अन्धकारे नेत्राणाम् अवलोकनरुचिं जनयन् सूर्यस्य बालातपः, युष्माकम् अविलम्बेन बहुलां समृद्धिं विदधातु ॥२५॥

हिन्द्यर्थः– तारकासुरका वध करनेकेलिए शक्ति रूप अस्त्र धारण करके चन्द्रकशोभित मयूरको वाहन बनाकर अन्धकारि भगवान् शिवजीको आनन्दित करने वाला शिशु कार्त्तिकेयके तुल्य, ताराओंकी ज्योति अपहरण करता हुआ चन्द्रके समान उज्ज्वल देहधारों अग्निको अपनी कान्तिसे हटाकर आखोकी अवलोकन शक्ति देनेवाली सूर्यकी वाल किरण आपकी समृद्धि विधान करें ॥२५॥

आङ्ग्लार्थः-- The light of the Sun takes away the brilliance of the stars, moon-light, fire and makes eyes long for darkness. It appears like young Kartikeya who holds Sakti to kill the powerful demon Taraka and mounting the peacock with crescent-graced feathers attracts the attention of Andhakari Siva. May that light bestow prosperity on you. 25

తెలుగు అర్థం--
    అదుగో, పొడుస్తూన్న బాలుడూ పొన్నపువ్వు ఛాయ. లోకబాంధవుడు చిత్రబాంధవుడు సుమా! విచిత్రమూ, పవిత్రమూ అయింది త్రయీతనువు కాంతి. నానా వర్ణ కిమ్మీరం ఆదిత్య దీప్తీ ఇది సత్యం నిత్యం.
    ఉదయప్రారంభ సమయంలో చల్లని వెన్నెల తెల్లదనం వ్యాపిస్తున్నది. అదే సమయంలో ప్రభాత పరిమళాలు ప్రసరిస్తున్నాయి. మరొక వంక తిమిర సుందరి మషీశేషము యొక్క నల్లదనం ఆమె అలంకరించుకొన్న రమణీయమైన పట్టు వల్లెవాటు చెరుగువలె భాసిస్తున్నది.
    మధ్యాహ్నం అవుతున్నది. కమలాలు బాగా వికసించాయి. పుప్పొడి విరజిమ్ముతున్నాయి. అది పచ్చగా ఉంది. పసిమి రంగులో బంగారు ముద్దవలె నేలతల్లి మెరుస్తున్నది. ప్రకృతి పుప్పొడి రంగులో పచ్చగా ఉంది. సంధ్యాసమయం అయింది. సంజకెంజాయలు వ్యాపించాయి. పశ్చిమాంగన తన ప్రాంగణంలో పసుపునీళ్ళు చల్లినట్లుంది. చిత్రభానుడి కుంచె నుంచి ప్రపంచ చిత్రం అందంగా దర్శనమిస్తున్నది.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment