भूमिं धाम्नोऽभिवृष्ट्या जगति जलमयीं पावनीं संस्मृताव-
प्याग्नेयीं दाहशक्त्या मुहुरपि यजमानात्मिकां प्रार्थितार्थैः ।
लीनामाकाश एवामृतकरघटितां ध्वान्तपक्षस्य पर्व-
ण्वेवं सूर्योऽष्टभेदां भव इव भवतः पातु बिभ्रत् स्वमूर्तिम् ॥९१॥
अन्वयः– जगति धाम्नः भूमिम्, अभिवृष्ट्या जलमयीं, संस्मृतौ अपि पावनीं, दाहशक्त्या आग्नेयीं, मुहुः प्रार्थितार्थैः अपि यजमानात्मिकां, ध्वान्तपक्षस्य पर्वणि अमृतकरघटिताम् आकाश एव लीनाम् एवं भव इव अष्टभेदां स्वमूर्तिं बिभ्रत् सूर्यः भवतः पातु ॥९१॥
व्याख्या– जगति संसारे धाम्नः तेजसः मूर्तिं स्थानम् क्षितिरूपाम् अभिवृष्ट्या वर्षणेन जलमयीं आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः इति आगमोक्तेः संस्मृतौ अपि स्मरणे अपि पावनीं पवित्रकारिणीम् किंच पवनस्य इयं पावनी, तां वायुरूपाम् दाहशक्त्या उत्तापेन आग्नेयीम् अग्निरूपाम् मुहुः प्रार्थितार्थैः प्रार्थितार्थप्रदानेन यजमानात्मिकाम् ध्वान्तपक्षस्य कृष्णपक्षस्य पर्वणि अमावास्यायाम् अमृतकरः सुधांशुः तेन घटितां सङ्गताम् चन्द्ररूपाम् आकाशे एव लीनाम् आकाशरूपाम् एवं भवः शिवः इव अष्टभेदाम् अष्टप्रकारां स्वमूर्तिं बिभ्रत् धारयन् सूर्यः भवतः युष्मान् पातु रक्षतु ॥९१॥
भावार्थः– जगति सर्वतेजसः आधाररूपेण भूमिरूपाम् वर्षणेन जलरूपाम्, स्मरणमात्रेण पावनात् पवनरूपाम् दाहशक्त्या अग्निरूपाम् ईप्सितार्थप्रदानात् यजमानरूपाम् अमावास्यायां चन्द्रेण सह मिलनात् सूर्यचन्द्ररूपाम् आकाशे विलयात् आकाशरूपाम् शिवेन तुल्याम् अष्टमूर्तिं दधानः सूर्यः युष्मान् रक्षतु ।
टिप्पणी– पृथिवी सलिलं तेजो वायुराकाशमेव च । सूर्याचन्द्रमसौ सोमयाजी चेत्यष्टमूर्तयः । अभिशानशाकुन्तलस्य नान्दीश्लोके शिवोऽष्टमूर्तिरिति वर्णितः । महाभारतेऽपि (३.४९.८) तथा दर्शितः ॥९१॥
हिन्द्यर्थः– तेजके स्थान होनेसे भूमिरूप, वृष्टिसे जलरूप, स्मरणके मात्र पावन (पवित्र) करनेसे पवनरूप, दाहशक्तिके कारण अग्निरूप, ईप्सित अर्थदान करनेसे यजमानरूप, अमावास्यामें चन्द्रके साथ मिलनेसे सूर्य चन्द्र रूप, आकाशमें लीन होनेसे आकाशरूप धारण कर अष्टमूर्ति शिवके समान परिलक्षित सूर्य आप लोगोंकी रक्षा करें ॥९१॥
आङ्ग्लार्थः-- The Sun is the origin of light. By creating rains in this earth, he displays his watery form; he indicates his wind-form as he purifies those who utter his name; he possesses fire-form as he has power to burn; he has Yajamana form as he gives desired objects; as he is hidden in the sky he displays his sky-form and as he meets the moon on Amavasya he reveals both Sun and-moon forms. Thus the Sun has eight forms like Siva. May he give good fortune to you. 91
తెలుగు అర్థం--
అడుగో, అర్యముడు అష్టతనూ విరాజితుడైన విశ్వేశ్వరుడి వలె ప్రకాశిస్తున్నాడు. ఎంత తేజోమయ స్వరూపం! అతడు అచ్చంగా పరంధాముడే సుమా.
ఆదిత్యుడు కాంతికి ఆశ్రయభూతుడు, భువనబాంధవుడు, పూజ్యుడు, భూమిమయ తనూవిరాజమానుడు. అహస్కరుడు, వర్షప్రదాత. భూమికి వర్షమూ హర్షమూ ప్రసాదించే ఆయన జలబాంధవుడు, జలమయతనూశోభితుడు.
చిత్రభానుడు పావనచరిత్రుడు. అందుచే ఆయన పవనమయ తనూసుందరుడు. అంశుమాలి దాహకతేజోదీప్తుడు. అగ్నిమయతనూమంగళుడు. సహస్రాంశువు ఆకాశంతరవర్తి. మహాకాశం దహరాకాశం హృదయాకాశం ఆయన నివాసస్థానాలు. అందువలన ఆయన ఆకాశమయ తనూ శివంకరుడు. గ్రహపతి ప్రార్థితార్థ ప్రాప్తి గలవాడు. యజ్ఞయాగ నిర్వాహకుడు. కనుక యజమాన తత్త్వజ్ఞ శిరోమణి. ఆ ఖద్యోతనుడు అమావాస్య నాడు చంద్రుడితో కలిసి సంచరిస్తాడు. కాబట్టి అరుణుడు చంద్రమయ తను ప్రభాకరుడు. తరణి తనదైన ప్రత్యేకమైన ప్రభాపూర్ణతనువు దాల్చి ఉంటాడు. పూషణుడు కదా!
ఇలా ఆదిత్యుడు ఆదిశంకరుడి వలె అష్టతనూ వంద్యుడై అలరారుతున్నాడు.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment