साद्रिद्यूर्वीनदीशा दिशति दश दिशो दर्शयन् द्राग्दृशो यः
सादृश्यं दृश्यते नो सदशशतदृशि त्रैदशे यस्य देशे ।
दीप्तांशुर्वः स दिश्यादशिवयुगदशादर्शितद्वादशात्मा
शं शास्त्यश्वांश्च यस्याशयविदतिशयाद्दन्दशूकाशनाद्यः ॥९४॥
अन्वयः– यः साद्रिमूर्वीनदीशाः दश दिशः द्राक् दर्शयन् दृशः दिशति, सदशशतदृशि त्रैदशे देशे यस्य सादृश्यं नो दृश्यते, अशिवयुगदशादर्शितद्वादशात्मा, दन्दशूकाशनाद्यः यस्य अतिशयात् आशयवित् अश्वांश्च शास्ति, सः दीप्तांशुः वः शं दिश्यात् ॥९४॥
व्याख्या– यः सूर्यः साद्रिमूर्वीनदीशाः अद्रिश्च, द्यौश्च, उर्वी च नदीशाश्च अद्रिद्यूर्वीनदीशाः तैः सह वर्तमानाः सपर्वताकाशपृथिवीसागराः दश दिशः द्राक् झटिति दर्शयन् प्रकाशयन् दृशः नेत्राणि दिशति परिचालयति, सदशशतदृशि, दशशतदृक् इन्द्रः तेन सह वर्तमाने त्रैदशे तिस्रो दशा येषां ते त्रिदशाः देवाः, तेषामयं त्रैदशः तस्मिन् देशे सुरलोके यस्य सूर्यस्य सादृश्यं साम्यं नो दृश्यते, नोपलभ्यते, अशिवयुगदशादर्शितद्वादशात्मा अशिवयुगम् अमङ्गलकालः प्रलय इत्यर्थः, तस्य दशा स्थितिकालः, तस्यां दर्शिताः प्रकाशिताः द्वादश आत्मानो येन सः, दन्दशूकाः सर्पाः अशनं खाद्यं यस्य सः गरुडः, तस्य आद्यः ज्येष्ठः अरुणः यस्य सूर्यस्य अतिशयात् विशेषतः आशयवित् आशयम् अभिप्रायं वेत्ति जानातीति आशयवित् (विद्+क्विप्) अश्वान् शास्ति चालयति, सः दीप्तांशुः उष्णांशुः सूर्यः वः युष्माकं शं मङ्गलं दिश्यात् विदधातु ॥९४॥
भावार्थः– यः सूर्यः पृथिव्याकाशगिरिसागरैः साकं दशदिशः आलोकयन् प्राणिनामवलोकनशक्तिं जनयति, स्वर्गेऽपि यच्छदृशः कश्चन नावलोक्यते यः पुनः प्रलयकाले द्वादश रूपाणि धारयति, अरुणः यस्य इच्छानुसारम् अश्वान् चालयति, सः सूर्यः युष्माकं मङ्गलं विदधातु । अनुप्रासोऽलङ्कारः ।
टिप्पणी– उर्वीति कथनेन गिरिसागरादीनामन्तर्भुक्तिं जानन्नपि कविः सौरशक्तिप्रकटनार्थमौपलाक्षणिकपदैः तथा निर्दिशति ।
कृत्वा द्वादशधात्मानं द्वादशादित्यतां गतः।
संहृत्यैकोऽर्णवं सर्वं त्वं शोषयसि रश्मिभिः॥
म०भा० ३-३-५९ श्लोके 'द' इत्यस्य प्रयोगो लक्षणीयः ।
हिन्द्यर्थः– जो सूर्य गिरि, समुद्र, आकाशादिसे सारी पृथिवीके साथ दश दिशाओंको आलोकित कर दर्शनशक्ति प्रदान करते हैं, इन्द्रके राज्य स्वर्गमें भी जिसके समान कोई नहीं है, सर्पभक्षक गरुडके बड़ा भाई अरुण जिसके इच्छानुसार अश्वोंको चालित करता है, और जो प्रलयकालमें द्वादश रूप धारण करते हैं, वह उष्णांशु सूर्य आप लोगोका मङ्गल करे॥९४॥
आङ्ग्लार्थः-- The Sun makes visible the ten quarters along with mountains, sky, earth and the seas immediately. He reveals his twelve forms at the inauspicious time of dissolution. There is no one equal to him in the region of gods ruled by Indra. The elder brother of the eater of serpents (Aruna) is fully aware of his intention and controls accordingly the horses. May that brilliant Sun give you happiness. 94
తెలుగు అర్థం--
అడుగో! అంశుమాలి రథం మీద వస్తున్నాడు. ద్వాదశాత్ముడు వైభవంగా దయ చేస్తున్నాడు.
ఏమి ప్రకాశం! ఏమి తేజస్సు! స్వామి వస్తుంటే పర్వతాలు బంగారు కొండలై దండిగా వెలుగుతుంటాయి. వసుంధర తన సంపదలన్నీ స్వామి పాదాల ముందు వారు పోసి ప్రణమిల్లుతున్నది. సప్తసముద్రాలు స్వామికి అర్ఘ్యపాద్యాలిచ్చి సాష్టాంగ నమస్కారాలు చేస్తున్నాయి. దశదిశా లతాంగులు జ్యోతులు వెలిగించి హారతులు యిస్తున్నారు. సూర్య సార్వభౌముని వైభవం ముందు దేవేంద్రవైభవం సాదృశ్యమే లేదు.
ఆ స్వామి సప్తాశ్వాలు అనూరుడి సారథ్యంలో ఎంత వేగంగా నడుస్తాయి. అనూరుడంటే విష్ణువాహనభూతుడైన గరుడాశ్వారులవారి అగ్రజుడు కదా. ఆదిత్యుడు ద్వాదశాత్ముడై ప్రళయకాలంలో అవసరమైన తన పండ్రెండు మూర్తులను ప్రకాశింపచేస్తాడు.
ఆ సవితృస్వామి అందరినీ ఆదుకుంటూ ప్రజలకు సౌభాగ్యాలను ప్రసాదించుగాక.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment