Sunday, June 24, 2018

सूर्यशतकम् - 5 (महाकवि-श्रीमयूरप्रणीतम्)

न्यक्कुर्वन्नोषधीशे मुषितरुचि शुचेवौषधीः प्रोषिताभा
भास्वद्ग्रावोद्गतेन प्रथममिव कृताभ्युद्गतिः पावकेन ।
पक्षच्छेदव्रणासृक्स्रुत इव दृषदो दर्शयन् प्रातरद्रेः
आताम्रस्तीव्रभानोरनभिमतनुदे स्ताद्गभस्त्युद्गमो वः ॥५॥


अन्वयः– प्रातः ओषधीशे मुषितरुचि शुचा इव प्रोषिताभा ओषधीः न्यक्कुर्वन् भास्वद्ग्रावोद्गतेन पावकेन प्रथमं कुताभ्युद्गतिः इव, अद्रेः दृषदः पक्षच्छेदव्रणासृक्सृत इव दर्शयन् आताम्रः तीव्रभानोः गभस्त्युद्गमः वः अनभिमतनुदे स्तात् ॥५॥

व्याख्या– प्रातः प्रभाते ओषधीशे चन्द्रे मुषितरुचि मुषिता अपनीता रुक् कान्तिः यस्य तस्मिन् स्युः (प्रभा रुग् रुचिस्त्विड् भा भास् छविद्युतिदीपायः– इत्यमरः), शुचा शोकेन इव प्रोषिताभा प्रोषिता अपगता आभा कान्तिः यासां ताः ओषधीः वृक्षलताः न्यक्कुर्वन् अभिभवन् भास्वान् यः ग्रावा सूर्यकान्तोपलः तस्मात् उद्गतेन उद्भूतेन पावकेन अग्निना प्रथमं कृताभ्युद्गतिः कृतस्वागत इव, पाषाणः प्रस्तरो ग्रावोपलाश्मानः शिला दृषद् इत्यमरः, पक्षच्छेदव्रणासुकस्रुत इव, पक्षच्छेदात् यो व्रणः तस्य यत् असृक् रक्तं तेन स्रुत इव लिप्ता इव अद्रेः पर्वतस्य दृषदः शिलाः दर्शयन् आताम्रः ईषत्ताम्रः तीव्रभानोः सूर्यस्य गभस्त्युद्गमः किरणोद्गमः वः युष्माकम् अनभिमतनुदे अनिष्टनिवारणाय स्तात् भवतु' उत्प्रेक्षालङ्कारः ॥५॥

भावार्थः– स्वामिनि चन्द्रे अस्तमिते ओषधयः दुःखेन इव गतप्रभाः भवन्ति । ताः ओषधीः अभिभवन् सूर्यकान्तमणेः पावकेन प्रथमं कृतस्वागतः, इन्द्रस्य वज्राघातात् पक्षच्छेदजनितशोणितेन रक्तानिव उदयाद्रिपाषाणान् दर्शयन् ईषताम्रः रवेः रश्मिराशिः युष्माकम् अनिष्टं निवारयतु ॥५॥

हिन्द्यर्थः– सवेरे चाँदकी रोशनी जब छिप जाती है, तब शोकसे मानो औषधियोंकी कान्ति भी कम हो जाती है, उन औषधियोंको तिरस्कृत करके, सूर्यकान्त मणियोंसे उद्गत अग्निके द्वारा स्वागत किये हुए, (इन्द्रके द्वारा) पक्षछेदसे मानों घायलहुए मेरुपर्वतके खूनसे पत्थरोंको रंजित करनेवाले ईषत् ताम्रवर्ण, सूर्यका प्रभाप्रवाह आप लोगोंके अनिष्ट निवारण करे॥५॥

आङ्ग्लार्थः-- Making the moon lose its lustre and the plants(lose) their freshness as if overwhelmed with sorrow, and warmly welcomed by the fire, born of the Sun stone, the first appearance of the solar rays makes the stones of the the mountain Meru reddish, as if besmeared with the blood, oozing from the cuts of the wings. May those rays remove all your unpleasantness. ॥5॥
తెలుగు అర్థం--
    శుభంకరమైన ప్రాతఃకాలంలో ఉషోరేఖలు ఉదయిస్తున్నాయి. పసుపు కుంకుమ వర్ణితాలైన ఆ రేఖలు బాలభాస్కరస్వామి ఆగమన సూచకాలు.
    ఆ రేఖలు చూచి ఓషధీశుడైన చంద్రుని ముఖం వెలావెలా పోయింది. ఓషధీశుని విరహం కాంతులు కోలుపోయాయి. భాస్కరదేవుని ప్రతాపంలోని అరుణకాంతి దిశల వ్యాప్తి చెందింది. సూర్యకాంత మణుల నుంచి అగ్నిజ్యోతులు ఉబికి వచ్చి సూర్యభగవానునికి కర్పూర నీరాజనాలు సమర్పిస్తున్నాయి.
    ప్రాక్ పర్వతరాజ శిఖరాలు ఇంద్రుని వజ్రాయుధ ప్రహారాల చేత రాగరంజితాలైనాయి. పర్వత పక్షాలు ఛేదించబడటం చేత అంతా రక్త సిక్తారుణ ప్రభలు దిశలు వ్యాపించాయి.
    ఆ అరుణ కాంతులు శత్రుభంజనం సూచిస్తూ ఆనందమందారాలై ప్రజకు ఆశీస్సులు అనుగ్రహిస్తున్నాయి. అనిష్టాలు తొలగిస్తున్నాయి.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment