Sunday, June 24, 2018

सूर्यशतकम् - 36 (महाकवि-श्रीमयूरप्रणीतम्)

गन्धर्वैर्गद्यपद्यव्यतिकरितवचोहृद्यमातोद्यवाद्यैः
आद्यैर्यो नारदाद्यैर्मुनिभिरभिनुतो वेदविद्भिर्विभिद्य ।
आसाद्यापद्यते यं पुनरपि च जगद्यौवनं सद्य उद्यन्
उद्द्योतो द्योतितद्यौर्द्यतु दिवसकृतोऽसाववद्यानि वोऽद्य ॥३६॥


अन्वयः– आतोद्यवाद्यैः गन्धर्वैः गद्यपद्यव्यतिकरितवचोहृद्यम् आद्यैः वेदविद्भिः नारदाद्यैः मुनिभिः विभिद्य यः अभिनुतः, यम् आसाद्य पुनरपि च जगत् यौवनम् आपद्यते, सद्यः उद्यन् द्योतितद्यौः दिवसकृतः असौ उद्योतः अद्य वः अवद्यानि द्यतु ॥३६॥

व्याख्या– आतोद्यं वाद्यं येषां तैः गन्धर्वैः गद्यपद्यैः व्यतिकरितं मिश्रितं यत् वचः तेन हृद्यं मनोरमं यथास्यात्तथा यः अभिनुतः स्तुतः, पुनश्च आद्यैः वेदविद्भिः वेदशैः नारदाद्यैः मुनिभिः विभिद्य विवृत्य विस्तृत भावेन इत्यर्थः, यः अभिनुतः, यम् आसाद्य प्राप्य जगत् पुनरपि यौवनम् आपद्यते लभते, सद्यः उद्यन् उदितः, द्योतिता प्रकाशिता द्यौः स्वर्गः येन स; दिवसकृतः अहस्करस्य सूर्यस्य असौ उद्योतः द्युतिः अद्य वः युष्माकम् अवद्यानि गर्हितानि कर्माणि द्यतु खण्डयतु नाशयतु इत्यर्थः । कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः इत्यमरः । ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् वंश्यादिकं तु शुषिरं कांस्यतालादिकं घनम् चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् इत्यमरः । इदमस्तु संनिकृष्टं सभीपतरवर्तिचैतदोरूपम् अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् । वृत्यनुप्रासोऽलङ्कारः ॥३६॥

भावार्थः– यः गन्धर्वैः वीणामृदङ्गवंशीकास्यतालादिवादनपूर्वकं, वेदज्ञः नारदादिभिः मुनिभः ध्यानैः गानैश्च सततं स्तूयते, यं प्राप्य जगत् पुनः यौवनं लभते, सहसा आकाशे द्योतमानः असौ सूर्यस्य किरणराशिः युष्माकम् पापानि खण्डयतु ॥३६॥

टिप्पणी– अनुप्रासरसिकस्य कवेः इत्यस्य प्रयोगवैदग्ध्यं विलोकनीयम् । वेदवेद्यैरिति पाठः सम्यङ् नोपपद्यते । अतः वेदविद्भिरिति कृतम् । सम्भवतः मूलं तालपत्रलेखं पठतस्त्रुटिरियम् । अथवा अनुप्रासमोहादेष भ्रमः ॥३६॥

हिन्द्यर्थः– जिसको गन्धर्व लोग विविध वाद्यवादनपूर्वक स्तुति करते हैं, वेदज्ञ नारदादि प्रधान मुनि भी विस्तारसे वर्णन करके स्तुति करते हैं, जिसको पाकर जगत् फिर भी यौवन लाभ करता है, सहसा उदित होकर आसमानमें फैलनेवाला दिनकरके यह किरणसमूह शीघ्र आपलोगोंके अशुभ कर्म दूर करें ॥३६॥

आङ्ग्लार्थः-- The Gandharvas playing on four types of musical instruments (atodya) sing the solar rays in sweet prose and poetry. Narada and other sages, well-versed in the Vedas praise them vividly. The Universe coming in contact with them regains its youth. May those rays, that spread all over the sky, remove all your evils. 36

తెలుగు అర్థం--
    అడుగో, మహానుభావుడు సూర్యనారాయణుడు వస్తున్నాడంటే లోకమంతా చైతన్యంతో పులకరించిపోతున్నది.
    గద్య పద్య మధురగేయాలతో కవీశ్వరులు సూర్యస్తుతి చేస్తున్నారు. వీణా తాళ మృదంగ వేణు వాద్యముల నినాదాలతో గంధర్వులు మనోహరంగా గానం చేస్తున్నారు. అవి మంగళ మహితములై పరమానందాన్ని కలిగిస్తున్నాయి.
    వేదవేత్తలు జటపనసలు వల్లిస్తున్నారు. తత్త్వవేత్తలైన నారదాది మహర్షులు తన్మయత్వంతో సంకీర్తన గావిస్తున్నారు. లోకానికి మరల నవ యవ్వనం వచ్చినట్లయింది.
    కమల బాంధవుని కమనీయమైన ఉదయకాంతులు లోకానికి నవాలోకాన్ని కలిగిస్తున్నవి. అవిగో, తూర్పుకొండపై పసుపు కుంకుమల కాంతులు ప్రసరిస్తున్నాయి.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment