Monday, June 25, 2018

सूर्यशतकम् - 71 (महाकवि-श्रीमयूरप्रणीतम्)

चक्री चक्रारपङ्क्तिं हरिरपि च हरीन् धूर्जटिर्धूर्ध्वजान्तान्
अक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूबराग्रं कुबेरः ।
रंहः सङ्घः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य
स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात् स्यन्दनो वः ॥७१॥


अन्वयः– चक्री जगदुपकृतये नित्ययुक्तस्य यस्य चक्रारपङ्क्तिं, हरिः अपि च हरीन् धूर्जटिः धूर्ध्वजान्तान् नक्षत्रनाथः अक्षं, वरुणः अरुणं, कुबेरः कूबराग्रं, प्रीतिप्रसन्नः सुराणां सङ्घः अपि रंहः अन्वहं स्तौति, अहिमरुचेः सः स्यन्दनः वः अवतात् ॥७१॥

व्याख्या– चक्री हरिः जगदुपकृतये, जगताम् उपकृतिः तस्यै जमदुपकाराय, नित्यं सन्ततम् उद्यतस्य चेष्टमानस्य यस्य स्यन्दनस्य चक्रारपङ्क्तिं चक्रस्य अरपङ्क्तिम् अरसमूहं, हरिः इन्द्रः अपि हरीन् अश्वान् धूर्जटिः शिवः धूर्ध्वजान्तान् ध्वजः पताका, धुरि अग्रे युगे वा यो ध्वजः तस्य अन्तान् अग्रभागान् नक्षत्रनाथः चन्द्रः अक्षं, वरुणः अरुणं, कुबेरः कूबराग्रं युगन्धरप्रान्तं, प्रीत्या प्रसन्नः सुराणां सङ्घः अपि रंहः वेगम् अन्वहं प्रत्यहं स्तौति, अहिमा रुचिः यस्य तस्य उष्णांशोः सूर्यस्य सः स्यन्दनः रथः वः अवतात् रक्षतु । अत्र प्रस्तुतानां चक्र्यादीनामेकस्तवनक्रियाभिसम्बन्धात् तुल्ययोगितालङ्कारः ॥७१॥

भावार्थः– विष्णुः जगतः उपकाराय नित्यं प्रवृत्तस्य यस्य रथस्य चक्रारसमूहम् इन्द्रः अश्वान् शिवः ध्वजान्तान् चन्द्रः अक्षं, वरुणः अरुणं, कुबेरः युगन्धरप्रान्तं, प्रीतिमुग्धः देवसङ्घश्च, शीघ्रगामित्वं प्रत्यहं स्तौति, सूर्यस्य सः रथः युष्मान् रक्षतु ॥७१॥

हिन्द्यर्थः– जगतके उपकारकेलिए सर्वदा प्रवृत्त जिस रथके चक्रको विष्णु (चक्री), अश्वोंको इन्द्र (हरि), पताकाकी अग्र भागको शिव धूर्जटि), अक्षको चन्द्र, अरुणको वरुण, कूबरके अग्र भागको कुबेर और वेगको आनन्दसे देवतागण स्तुति करते हैं, सूर्यके वह रथ आप लोगोंकी रक्षा करें ॥७१॥

आङ्ग्लार्थः-- Visnu, the holder of the discuss, praises the wheel, Hari (i.e. Indra) speaks highly of haris (horses), Dhurjati (I.e. Siva) eulogises the end of the banner, Moon, the lord of the stars, commends the axle, Varuna glorifies Aruna, Kubera admires the front portion of the chariot, other gods too praise daily the speed out o'f devotion. That Car of the Sun, which is engaged for the welfare of the world, may save you. 71

తెలుగు అర్థం--
    అదిగో, అది సూర్యభగవానుడి మహిమాన్వితమైన మహారథం. వివస్వత మహారాజరథం, విశ్వమంగళ వినూత్న విలాస విజయ రథం, జనోపకృతి కావించే మనోరథం.
    ఆ సూర్య స్యందనం చక్రపుటాకుల్ని శ్రీమహావిష్ణువు స్తవం చేసి నిత్యనూతనం చేస్తుంటాడు. ఆ ఆదిత్య మహాశ్వాలను దేవేంద్రుడు నిత్యం పూజాపారిజాతాలతో అర్చిస్తుంటాడు. ఆ సప్తాస్వుడి శతాంగం అగ్రభాగాన ప్రకాశించే స్వర్ణపతాకాన్ని శంకర స్వామి స్మరిస్తూ ఉంటాడు.
    ఆ అరుణమూర్తి రథచక్రపు బండి కంటిభాగాన్ని అమృతాంశుడు అనుక్షణం కనిపెట్టి ఉంటాడు. ఆ ప్రభాకరస్వామి విజయరథసారథి అయిన అరుణుణ్ణి వరుణుడు స్తుతి చేస్తుంటాడు. ఆ మార్తాండుడి రథపు కాడి గట్టునొగ ప్రదేశాన్ని కుబేరుడు కాపలా కాస్తుంటాడు. ఆ త్రయీతనుడి తేటి వేగాన్ని దేవతాబృందం అంతా వందిమాగధులై స్తవం చేస్తుంటారు.
    ఇలా దేవతాధిపతులు సూర్యరథ రక్షణ కావిస్తున్నారు. లోకోపకారం కోసం నిత్యం శ్రమించే త్యాగజీవికి సహాయపడి సత్కరింపనివారు ఎవరుంటారు.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment