पर्याप्तं तप्तचामीकरकटकतटे श्लिष्टशीतेतरांशौ
आसीदत्स्यन्दनाश्वानुकृतिमरकते पद्मरागायमाणः ।
यः सोत्कर्षां विभूषां कुरुत इव कुलक्ष्माभृदीशस्य मेरोः
एनांस्यह्नाय दूरं गमयतु स गुरुः काद्रवेयद्विषो वः ॥५६॥
अन्वयः– कुलक्ष्माभृदीशस्य मेरोः श्लिष्टशीतेतरांशौ तप्तचामीकरकटकतटे आसीदत्-स्यन्दनाश्वानुकृतिमरकते पद्मरागायमाणः यः विभूषां पर्याप्तं सोत्कर्षां कुरुते इव, सः काद्रवेयद्विषः गुरुः वः एनांसि अह्नाय दूरं गमयतु ॥५६॥
व्याख्या– कुलक्ष्माभृदीशस्य कुलक्ष्माभृत्सु ईशः, तस्य कुलपर्वतेश्वरस्य महेन्द्रादयः कुलाचलाः सप्त । “महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः। विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः” । मेरोः श्लिष्टः संलग्नः शीतेतरांशुः उष्णांशुः यत्र तादृशे तप्तचामीकरकटक-तटे चामीकरपूर्णं कटकं चामीकरकटकं (शाकपार्थिवादिवत् समासः), तप्तं यत् चामीकर-कटकं तस्य तटे, हेममयमध्यदेशे, आसीदत्स्यन्दनाश्वानुकृतिमरकते, आसीदन्तः गच्छन्तः अवसन्ना वा ये स्यन्दनाश्वाः रथाश्वाः तेषाम् अनुकृतिः प्रतिविम्बम् एव मरकतं मरकतमणिः तस्मिन् पद्मरागायमाणः पद्मरागः इव आचरति पद्मरागायते, (कर्तुः क्यङ् सलोपश्च इति आचारेऽर्थे क्यङ्) पद्मरागायते इति पद्मरागायमाणः, यः अरुणः विभूषां शोभां पर्याप्तम् अतिशयेन सोत्कर्षाम् उत्कर्षसहितां कुरुते इव राजते, काद्रवेयद्विषः सर्पशत्रोः गरुडस्य गुरुः सः अरुणः वः युष्माकम् एनांसि पापानि अह्नाय झटिति दूरं गमयतु नाशयतु ॥५६॥
भावार्थः– कुलाचलाधीशस्य मेरोः सौरप्रभोद्भासिते हेममयकटके अश्वानां प्रतिबिम्बानि मरकतानीव अदृश्यन्त । तत्र पद्मरागवत् राजमानः अरुणः शोभाम् अतिशयेन अवर्धयत् । सर्पद्विषः गरुडस्य ज्येष्ठभ्राता सः अरुणः युष्माकं पापम् अचिरादेव खण्डयतु ॥५६॥
हिन्द्यर्थः– सूर्यकिरणोंसे उद्भासित पर्वतेश मेरुके स्वर्णमय कटि देशमें अश्वोंके मरकत पटलोंके समान प्रतिविम्बोंके ऊपर पद्मरागकी भाँति जो सुषमाको और भी बढा देते हैं, वह सर्पशत्रु गरुडके बडे भाई अरुण आप लोगोंके पापका शीघ्र खण्डन करें ॥५६॥
आङ्ग्लार्थः-- When the Sun remains in the middle of shining golden region of Meru, the lord of mountains (Kulacalas), and the horses of the Chariot resemble emerald stones, Aruna, looking like ruby, creates an exquisite beauty. May that Aruna, the elder brother of Garuda (The enemy of snakes) remove all your vices. 56
తెలుగు అర్థం--
అడుగో, అరుణసారథి, స్యందనాన్ని సారిస్తున్నాడు. అరుణుడు ఎంత కాంతిమంతంగా ఉన్నాడు.
ఆ సూర్యరథం మేరుపర్వతం దగ్గరకు వచ్చింది. సూర్యుని కాంతిచ్ఛటలకు ఆ ప్రాంతం ధగధగలాడుతున్నది. ఆ అశ్వాల ఆకు పచ్చకాంతులు అచట ప్రతిబింబించి గరుడపచ్చలు పొదిగినట్లుగా ఉన్నది.
ఆ కాంతుల మధ్య అరుణరాగరంజితుడైన అనూరుడు పద్మ రాగమణిలాగ ప్రకాశిస్తూ మేరువుకే ఆభరణంలాగా తేజరిల్లుతున్నాడు. పరమాద్భుతమైన సౌందర్యశోభతో ఆ కాంతిప్రవాహాల మధ్యలో అనూరుడు అనుపమానంగా శోభిస్తున్నాడు.
గరుడాగ్రజుడైన అనూరుడు మీ పాపపటలాన్ని పటాపంచలు చేయుగాక!
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment