सानौ सा नौदये नारुणितदलपुनर्यौवनानां वनानाम्
आलीमालीढपूर्वा परिहृतकुहरोपान्तनिम्ना तनिम्ना ।
भा वोऽभावोपशान्तिं दिशतु दिनपतेर्भासमाना समाना-
राजी राजीवरेणोः समसमयमुदेतीव यस्या वयस्या ॥३८॥
अन्वयः– अरुणितदलपुनर्यौवनानां वनानाम् आली न न आलीढपूर्वा, परिहृतकुहरः तनिम्ना उपान्तनिम्ना, यस्याः समाना वयस्या इव राजीवरेणोः राजिः समसमयम् उदेति, औदये सानौ भासमाना, दिनपतेः सा भा, वः अभावोपशान्तिं दिशतु ॥३८॥
व्याख्या– अरुणितदलपुनर्यौवनानाम् अरुणितानि अरुणवर्णं प्रापितानि यानि दलानि पत्राणि तैः पुनर्योवनं येषां तेषाम्, प्रौढपत्राणामपि अरुणवर्णसंयोगात् अप्रौढानामिव प्रतीयमानानामिति भावः वनानाम् अरण्यानाम् आलीं श्रेणीं न न आलीढपूर्वा पूर्वम् आलिङ्गिता इत्यर्थः द्वौ नञौ प्रकृतार्थबोधकौ । लिह आस्वादने, नपुंसके भावे क्तः । परिहतानि त्यक्तानि कुहराणि गह्वराणि यया सा, तनिम्ना अल्पशः उपान्ते गह्वरमुखे, तत्सविधे वा निम्ना अधोगामिनी, यस्या; समाना वयस्या इव समकोटिका सखी इव राजीवरेणोः राजिः पद्यपरागपङ्क्तिः समसमयं समकालम् उदेति आविर्भवति, औदये सानौ उदयाचलस्य शृङ्गप्रदेशे भासमाना दीप्यमाना दिनपतेः सूर्यस्य सा भा द्युतिः वः अभावोपशान्तिम् अभावोपशमनं दिशतु करोतु इत्यर्थः । राजीवरेणोः राजिः अपि अरुणितदलपुनर्यौवनानां पद्मवनानाम् आलिः पङ्क्तिरेव आली सखी, तां पूर्वमालिङ्ग्य पद्मगह्वरं परित्यज्य अल्पशः पद्मोपान्ते निपत्य उदयोन्मुखस्य भानोः मरीचिवत् ऊर्ध्वमुत्तिष्ठति । उपमायमकयोः सङ्करः ॥३८॥
भावार्थः– अरुणवर्णेन रञ्जितैः पत्रैः पुनः यौवनं लभमानामिव दृश्यमानाम् अरण्यानीम् आलिङ्गन्ती सूर्यस्य प्रभा गह्वराणि परित्यज्य केवलं गह्वरमुखे तत्सविधे च पतति । तस्याः सवयाः सखी इव पद्मपरागपङ्क्तिः अपि अरुणितदलां नलिनीमालिङ्ग्य पद्मगह्वरं परित्यज्य युगपत् आविर्भवति, उदयाचलस्य शुङ्गप्रदेशे दृश्यमाना सूर्यस्य सा प्रभा युष्माकमभावं पूरयतु ॥३८॥
हिन्द्यर्थः– लाल पत्तोंसे फिर यौवनको प्राप्त होनेकी तरह मालूम हुए, अरण्योंको स्पर्श करनेवाली गह्वरोंको छोड़कर उनके मुखमें कमसे पतित, उदयाचलके शिखरमें फैलनेवाली सूरजकी किरणें आप लोगोंके अभाव दूर करें ॥३८॥
आङ्ग्लार्थः-- The rays of the Sun appear on the peaks of Udayagiri simultaneously with friend-like pollens of lotuses. They turn the leaves of forests red and make them look like regaining the youth. Leaving the caves they touch slightly downwards. May those rays fulfil all your desires. 38
తెలుగు అర్థం--
అవిగో! అరుణారుణ సూర్యప్రభలు. ఆ ఉదయాద్రి సానువులపై స్వర్ణరుచులు వ్యాపించాయి. ఆ ప్రభలు దిశాంగనలకు పసుపు కుంకుమలు పంజారం చేస్తున్నాయి.
రవి ప్రభలపై ప్రేమతో పద్మరాగాలు వచ్చాయి. అవి వాటితో పాటు పర్వత సానువులపై విహారం చేస్తున్నాయి. బాలభానుడు ఉదయించగానే వనం యవ్వనం పొందినట్లుంది. వనం లోని అరుణపత్ర కాంతులు దేదీప్యమానంగా మెరిసి హసిస్తున్నాయి.
అరుణప్రభలు తన ప్రౌఢత చేత ఇంకా విజృంభింపక గుహ్యాభ్యంతరాలను నిమ్న ప్రదేశాలను పరిహసిస్తున్నాయి. లోకబాంధవుడు కిరణరాజితో దశదిశలను సమానంగా భాసమానం చేస్తూ దయ చేస్తున్నాడు.
అందరికీ ఆనందం అందించే విధంగా సూర్యప్రభలు ప్రకాశిస్తున్నాయి. సూర్యోదయ సమయం అటువంటి ప్రభావ సంపన్నమయింది.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment