Monday, June 25, 2018

सूर्यशतकम् - 81 (महाकवि-श्रीमयूरप्रणीतम्)

॥अथ सूर्यवर्णनम्

सिद्धैः सिद्धान्तमिश्रं श्रितविधि विबुधैश्चारणैश्चाटुगर्भं
गीत्या गन्धर्वमुख्यैर्मुहुरहिपतिभिर्यातुधानैर्यतात्म ।
सार्धं साध्यैर्मुनीन्द्रैर्मुदितमतमनो मोक्षिभिः पक्षपातात्
प्रातः प्रारभ्यमाणस्तुतिरवतु रविर्विश्ववन्द्योदयो वः ॥८१॥


अन्वयः– सिद्धैः सिद्धान्तमिश्रं, विबुधैः श्रितविधि, चारणैः चाटुगर्भं, गन्धर्वमुख्यैः गीत्या, अहिपतिभिः मुहुः, यातुधानैः यतात्म, साध्यैः सार्धं, मुनीन्द्रैः मुदिततममनः मोक्षिभिः पक्षपातात् प्रातः प्रारभ्यमाणस्तुतिः विश्ववन्द्योदयः, रविः वः अवतु ॥८१॥

व्याख्या– सिद्धैः देवविशेषः सिद्धान्तमिश्रं सिद्धान्तसम्बलितं, विबुधैः श्रितविधि श्रितः विधिः यस्मिन् कर्मणि तद् यथा स्यात् तथा विधिम् अनुसृत्य, चारणैः चाटुगर्भं चाटूक्तिर्पूर्णं, गन्धर्वमुख्यैः गीत्या गानेन, अहिपतिभिः फणीन्द्रः मुहुः, यातुधानैः राक्षसैः यतात्म आत्मसंयमपूर्वकं, साध्यैः गणदेवताभिः अर्घेण सह, (मूल्ये पूजाविधावर्घः इत्यमरः), मुनीन्द्रैः मुदिततममनः सानन्दं, मोक्षिभिः मुक्तिकामिभिः पक्षे साध्ये योगे पातः स्थितिः तस्मात् (ल्यब् लोपे पञ्चमी), प्रात; प्रारभ्यमाणस्तुतिः प्रारभ्यमाणा क्रियमाणा स्तुतिः प्रार्थना यस्य सः, प्र+आङ्+रभ्+शानच् कर्मणि, विश्वैः सर्वैः वन्द्यः स्तुत्यः उदयः यस्य सः रविः सूर्यः वः युष्मान् अवतु रक्षतु ॥८१॥

भावार्थः– सिद्धाः सिद्धान्तमनुसृत्य, देवाः यथाविधि, चारणाः चाटुपूर्वकं, किन्नरमुख्याः गानेन, फणीन्द्राः पुनः पुनः, राक्षसाः आत्मसंयममाश्रित्य, साध्याः सम्पूज्य, मुनीन्द्राः सानन्दं, मुक्तिकामिनश्च योग माध्यमेन प्रातः सर्वैः वन्द्यः यं रविं स्तुवन्ति, सः रविः युष्मान् रक्षतु ।
टिणणी-पक्षः साध्योयोगः तस्मिन् पातःस्थितिः तस्मात् पक्षस्तु मासार्धेगृहसाध्ययोः इति हैमः । साध्यो योगान्तरे सुरे इति मेदिनी ॥८१॥

हिन्द्यर्थः– सिद्धगण सिद्धान्तपूर्ण वाक्यों में, देवताएँ विधिके अनुसार, चारण चाटूक्ति से, मुख्य गन्धर्वगण गीत से, सर्पराज वारम्बार, राक्षस संयमके साथ, साध्यगण पूजापूर्वक मुनियों बड़े आनन्द से, और मुक्तिकामा लोग योग से प्रभातमें जिसकी स्तुति करते हैं, विश्ववन्योदय वह रवि आप लोगोंकी रक्षा करें ॥८१॥

आङ्ग्लार्थः-- The Siddhas pray according to their doctrines, the Vivudhas (Gods wise people) following their Sastras, the Caranas with flattering words, the Gandharvas with singing, the chief of serpents repeatedly, the Yatudhanas controlling their impulses, the Sadhyas offering argha, and the illustrious sages with full pleasure. People aspiring for salvation also pray him by meditation. Thus, the Sun whose uprising in the morning is all, may protect you. 81

తెలుగు అర్థం--
    అడుగో! శుభం సుందరంగా సూర్యదేవుడు సాక్షాత్కరించాడు. యోగీశ్వరబృందం స్వామిని హృదయపూర్వకంగా ఆహ్వానిస్తున్నది.
    సిద్ధపురుషులు సిద్ధాంత భాగం తీసి విధివిహితంగా వినయాంజలి ఘటిస్తున్నారు. దేవతా సమూహం వేదోక్త ప్రకారంగా ప్రణామాలు చేస్తున్నది. చారగణం స్వామి గుణవర్ణనం కావిస్తున్నది. గంధర్వవర్గం మనోహరమంజుల మధురగానం ప్రారంభించింది.
    పన్నగరాజులు ఫణాలు విప్పి ప్రణమిల్లుతున్నారు. యాతుధానులు ఆత్మనిగ్రహంతో నమస్కారాలు చేస్తున్నారు. సాధ్యులు సాంజలులై అర్ఘ్యప్రదానం చేస్తున్నారు.
    మహామునీంద్రులు ప్రసన్నహృదయాలతో సంస్తుతి గావిస్తున్నారు. యోగీంద్రులు స్వాత్మభావనతో ప్రశంసిస్తున్నారు. అటువంటి శుభసమయంలో విశ్వవంద్యుడైన రవిరాజు మెల్లమెల్లగా దయచేస్తున్నాడు. ఆదిత్యుడు అందరికీ ఆసీస్సులు అనుగ్రహిస్తున్నాడు.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment