Monday, June 25, 2018

सूर्यशतकम् - 80 (महाकवि-श्रीमयूरप्रणीतम्)

चक्षुर्दक्षद्विषो यन्न तु दहति पुरः पूरयत्येव कामं
नास्तं जुष्टं मरुद्भिर्यदिह नियमिनां यानपात्रं भवाब्धौ ।
यद्वीतश्रान्ति शश्वद् भ्रमदपि जगतां भ्रान्तिमभ्रान्ति हन्ति
ब्रध्नस्याख्याद् विरुद्धक्रियमथ च हिताधायि तन्मण्डलं वः ॥८०॥

 
॥इति मण्डलवर्णनम् ॥

अन्वयः– यत् दक्षद्विषः चक्षुः पुरः कामं न दहति तु पूरयति एव, यत् मरुद्भिः न आस्तम् अपि तु जुष्टम् यत् इह भवाब्धौ नियमिनां यानपात्रम् यत् शश्वत् वीतश्रान्ति भ्रमदपि अभ्रान्ति जगतां भ्रान्तिं हन्ति, विरुद्धक्रियम् अथच हिताधायि, ब्रध्नस्य तत् मण्डलं वः अव्यात् ॥८०॥

व्याख्या– यत् मण्डलं दक्षद्विषः शिवस्य चक्षुः, तु किन्तु पुरः अग्रतः कामं कन्दर्पं न दहति, न भस्मीकरोति, कामम् अभिलाषं पूरयति एव, यत् मरुद्भिः वायुभिः न आस्त न क्षिप्तम् परन्तु मरुद्भिः देवैः जुष्टं सेवितम् यत् इह भवाब्धौ भवसागरे नियमिनां योगिनां यानपात्रं नौकास्वरूपं भवति, यत् शश्वत् सर्वदा वीता त्यक्ता श्रान्तिः यस्मिन् तत् भ्रमत् अपि भ्रमणं कुर्वत् अपि अभ्रान्ति निःसंशयं जगतां भ्रान्तिं भ्रमम् आलोकदानेन हन्ति नाशयति, विरुद्धा विपरीता क्रिया कर्म यस्य तत् विरुद्धक्रियम् अथच हिताधायि हितमाधातुं शीलमस्येति, ताच्छील्ये णिनिः, हितकरं ब्रध्नस्य सूर्यस्य तत् मण्डलं वः युष्मान् अव्यात् रक्षतु । विरोधोऽलङ्कारः ॥८०॥

भावार्थः– यत् मण्डलं शिवस्य नेत्रं सत् अपि कामं न दहति, सर्वेषां कामं (अभिलाषं) पूरयति, यत् चालयितुं मरुतः न प्रभवन्ति, प्रत्युत मरुतः (देवाः) सेवन्ते, भवसागरतरणे यत् योगिनां नौकासदृशं भवति, यत् सर्वदा भ्रमदपि जगतां भ्रमं भ्रान्तिं निर्भ्रमं दूरीकरोति, एवं स्वयं विरुद्धक्रियमपि लोकानां हितकारकं तत् सूर्यमण्डलं युष्मान् रक्षतु ॥८०॥

हिन्द्यर्थः– जो दक्षशत्रु (शिव)के नेत्र होनेसे भी कामको दग्ध नहीं करता है, पर कामको (कामना को) पूरण करता है; जिसे मरुत् (वायु) चालित नहीं कर सकता, पर मरुतों (देवताएँ) पूजा करते हैं, जो इस संसार-सागरमें उतरने के लिए योगियोंकी नाव है जो विश्रामके बिना बहुवार जगतको भ्रमण करनेसे (स्वयं भ्रमी होने से) भी ठीक रूपसे जगतका भ्रम दूर करता है, ऐसे विरुद्ध कर्म करने वाला होकर भी हित साधन करने वाला सूर्यमण्डल आप लोगोंका रक्षा करें ॥८०॥

आङ्ग्लार्थः-- The circle of the Sun is the eye of Siva (enemy of Daksa) which does not burn Kama (cupid) but fulfils kama (all desires). Winds do not fling it away, rather serve it. It acts like a boat to ferry the saints in the ocean of the world. It moves all over the worlds without feeling fatigued. It removes the ingorance completely. Thus, though of contrasting nature, it is conducive to welfare of all. May that circle of the Sun save you. 80

తెలుగు అర్థం--
    అదిగో, అది అర్కమండలం! అది అఖండ జ్యోతిర్మయం. దాని చర్య చిత్రాతి చిత్ర భరితం.
    ఆదిత్యమండలం ఆదిశంకరుడి మూడవనేత్రం వలె ఉన్నది. ఆనేత్రం చంచలుడైన కాముడికి దాహకారణం. భక్తులమనోరథాలు తీర్చటంలో కామదం. అక్కడ కామదాహకం, ఇక్కడ కామదం.
    ఆ ఆదిత్యమండలం మహాయోగీస్వరులకు సంసారసాగరం దాటించే నావ. ఆ నావ ప్రభంజనం చేత భంజింపబడదు. దేవతలచేత సేవింపబడుతూ ఉంటుంది. అటు మరుత్తులంటే వాయువులు ఇటు మరుత్తులంటే దేవతలు.
    అట్లే ఆ ఆదిత్యమండలం విశ్రామం లేక నిరంతరం భ్రమిస్తూ ఉంటుంది. అయినా లోకుల భ్రాంతిని అభ్రాంతిగా చేస్తుంది అంటే మిథ్యా జ్ఞానాన్ని నిస్సంశయంగా అణచివేస్తుంది.
    ఇలా విభాకరమండలం విరుద్ధక్రియలు చేస్తూ కూడా ప్రజలకు హితమే చేస్తూ ఉంటుంది కానీ అహితం చేయదు. మేళ్ళు చేకూర్చటం దానిపని.
    అట్టి సూర్యమండలం మహీస్థలిలోనూ మహాకాశంలోనూ అందరికి మహాశ్రేయములు చేకూరుస్తుంది.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment