Sunday, June 24, 2018

सूर्यशतकम् - 9 (महाकवि-श्रीमयूरप्रणीतम्)

दत्तानन्दाः प्रजानां समुचितसमयाकृष्टसृष्टैः पयोभिः
पूर्वाह्णे विप्रकीर्णा दिशि दिशि विरमत्यह्नि संहारभाजः ।
दीप्तांशोर्दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो
गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ॥९॥


अन्वयः– समुचितसमयाकृष्टसृष्टैः पयोभिः प्रजानां दत्तानन्दाः, पूर्वाह्णे दिशि दिशि विप्रकीर्णाः, अह्नि विरमति संहारभाजः दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावः दीप्नांशोः गावः पावनानां वः परमपरिमितां प्रीतिम् उत्पादयन्तु ॥९॥

व्याख्या– समुचितसमये ग्रीष्मकालादिषु आकृष्टानि सृष्टानि च तैः आदौ बाष्परूपेण आकृष्टैः पश्चात् जलरूपेण सृष्टैः पयोभिः दुग्धैश्व प्रजानां दत्तानन्दाः दत्तः आनन्द यैः ते, पूर्वाह्णे गाव इव दिशि दिशि विप्रकीर्णाः विक्षिप्ताः अह्नि विरमति दिवसावसाने संहारभाजः प्रत्यासादिताः दीर्घदुःखात् प्रभवं जातं यत् भवभयं तदेव उदन्वान् उदधिः तस्य उत्तारे तरणे नावः नौसदृशाः दीप्नांशोः सूर्यस्य गावः किरणाः गावश्च (सूर्येषुपशुवागवज्रदिङ्नेत्रघृणि भूजले) गोशब्दः पावनानां पूतचरित्राणां वः युष्माकं परम् अपरिमिताम् अत्यधिकां प्रीतिम् आनन्दम् उत्पादयन्तु जनयन्तु । श्लेषोऽलङ्कारः ।
    गोपक्षे- धेनवः यथाकालं दत्तैः पयोभिः लोकान् आनन्दयन्ति, पूवाह्ने तृणादिकं भक्षयितुम् इतस्ततः विचरन्ति, अपराह्णे च परावर्तन्ते तद्दत्तैः पयोभिः पूजा होमादिकं विधाय पूताः लोकाः संसारसागरं तरन्ति, आनन्दं च लभन्ते ॥९॥

भावार्थः– सूर्यस्य किरणाः ग्रीष्मकालादिषु जलाशयानां जलानि बाष्पाकारेण आकृष्य वृष्ट्या सर्वेषामानन्दं जनयन्ति, पूर्वाह्णे सर्वत्र व्याप्ताः ते दिवसावशेषे सङ्कुचिता भवन्ति, भवभयसागरात् त्रातुं नौकासदृशाः ते किरणाः पूतचरित्राणां युष्माकं प्रीतिम् वर्धयन्तु । धेनुपक्षेऽपि प्रदर्शितोऽर्थो योज्यः ॥९॥

हिन्द्यर्थः– समुचित समयमें लेकर वृष्टि जलसे प्रजाओंको आनन्द देनेवाले, सबेरे दिशाओंमें फैलतेहुए और शामको संकोचित, दुःखमय संसारसागरसे उतरनेकेलिए नौकाके सदृश सूर्यकी किरणें पवित्र चित्तवाले आप लोगोंके आनन्द विधान करें ॥९॥

आङ्ग्लार्थः-- Making people happy by giving water (milk) which is extracted at appropriate time, the solar rays like cows get scattered  in the fore-noon, recede when the day comes to a close and act like boats to ferry the pious people out of the ocean of distress. May those rays enhance your happiness. 9

తెలుగు అర్థం--
    అవిగో, అరుణకిరణాలు అందంగా ఆలమందలవలె ఉన్నాయి. ఆనందంగా అలరారుతున్నాయి.
    ఆ గోవుల వంటి కిరణాలు సెలయేళ్ళలో నీళ్ళు కనిపించగానే త్రాగుతున్నాయి. అవి నీళ్ళు తాగి పాలు ఇస్తాయి. పాలు పోసి, పరమాన్నం పెడతాయి. పరమానందం కలిగిస్తాయి.
    అవి అచ్చంగా ఆలమందలే సుమా. అవి ఆదిత్య సత్య దేవుని కరుణకిరణాలు. అవి ఆలమందల వలెనే ఉదయం లేవగానే నానా దిక్కులకు పోతాయి. అన్ని దిక్కుల్లో సంచారం చేసి చివరకు సాయంకాలానికి స్వగృహాలు చేరుకొంటాయి,
    ఆ గోమాతకు అధిక దుఃఖాలను హతమారుస్తాయి. తమ తోకలందించి నరకలోకాలు దాటిస్తాయి. పుణ్యబలం చేకూరుస్తాయి. సంసార సముద్రాలు తరింపచేస్తాయి. నావలై భవసాగరాలు దాటించి పుణ్యలోకాలకు తీసుకుపోతాయి.
    అవి పావనాలలో అతి పావనాలు, అవి మంగళాలలో అతి మంగళాలు, పరమ శ్రేష్ఠాలు, కామధేనువులెంతటి మహిమాన్వితాలలో ఈ గో సమూహాలు అంతటిని, గోవులంటే ఆవులనీ, కిరణాలనీ కూడా అర్థాలు, ఈ కిరణాలు గోవులవలె అందరికీ ఆనందం అందించుగాక.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment