Sunday, June 24, 2018

सूर्यशतकम् - 6 (महाकवि-श्रीमयूरप्रणीतम्)

शीर्णघ्राणाङ्घ्रिपाणीन् व्रणिभिरपघनैर्घर्घराव्यक्तघोषान्
दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः ।
घर्मांशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्तेः
दत्तार्घाः सिद्धसङ्घैर्विदधतु घृणयः शीघ्रमंहोविघातम् ॥६॥

 

अन्वयः– एकः यः अघोघैः शीर्णघ्राणाङ्घ्रिपाणीन् व्रणिभिः अपघनैः घर्घराव्यक्तघोषान् दीर्घाघ्रातान् पुनरपि उल्लाघयन् घटयति, अन्तः द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्तेः तस्य घर्मांशोः सिद्धसङ्घैः दत्तार्घाः घृणयः शीघ्रं वः अंहोविघातं विदधातु ॥६॥

व्याख्या– एकः अद्वितीयः यः सूर्यः अघोघैः पापसमूहैः शीर्णघ्राणाङ्घ्रिपाणीन् घ्राणं च अङ्घ्री च पाणी च तेषां समाहारः घ्राणांघ्रिपाणि प्राण्यङ्गत्वात् एकवद्भावः, शीर्णं घ्राणाङ्घ्रिपाणि येषां तान् शीर्णनासिकापादकरान्, व्रणिभिः व्रणयुक्तैः अपघनैः शरीरैः उपलक्षिता, घर्घरः अव्यक्तश्च घोषः येषां तान् अव्यक्तशब्दं कुर्वाणान् दीर्घाघ्रातान् दीर्घम् आघ्रातं श्वासक्रिया येषां तान् जनान् उल्लाघयन् रोगमुक्तान् कुर्वन् पुनरपि घटयति योजयति सुस्थ मङ्गं प्रापयतीत्यर्थः, अन्तः हदये द्विगुणा, घना बहुला या घृणा दया तस्याः तया वा निघ्ना आयत्ता निर्विघ्नवृत्तिः विघ्नरहिता क्रिया यस्य तस्य घर्मांशोः सूर्यस्य, (अधीनो निघ्न आयत्तः– इत्यमरः), सिद्धसंघैः सिद्धसमूहैः (सिद्धो व्यासादिके देवयोनौ निष्पन्नमुक्तयोः– इति हैमः), दत्तार्घाः दत्तः अर्घः येभ्यः ते, मूल्ये पूजाविधावर्घः इत्यमरः, घृणयः किरणाः, गभस्तिघृणिधुष्णयः इत्यमरः, शीघ्रं वः युष्माकम् अंहोविघातं पापविनाशं विदधतु, कुर्वन्तु, अनुप्रासोऽलङ्कारः ॥६॥

भावार्थः– पापफलं भुञ्जानाः, शीर्णनासापाणिपादाः व्रणिताङ्गाः अस्पष्टवाचः दीर्घं नित्श्वसन्तः कुन्तरोगिणः यस्य किरणसेवया रोगमुक्ताः भवन्ति, अविहतकार्यकलापस्य यस्य सर्वो व्यापारः करुणानुसारी भवति, यस्य किरणान् सिद्धाः सर्वदा पूजयन्ति, उष्णांशोस्तस्य ते किरणाः युष्माकं पापम् अचिरादेव विनाशयन्तु ॥६॥

हिन्द्यर्थः– पापसे गलित नाक पाद हाथवाले, व्रणित देहसे अस्पष्ट घर्घर स्वरवाले, लम्बे साँस छोडनेवाले रोगियोंको नीरोग कर अधिक दयासे काम करनेवाले सूर्यकी जिस किरणोंको सिद्ध समूह पूजा करते हैं, वे किरणें आप लोगोंके पापको नाश करें ॥६॥

आङ्ग्लार्थः-- The Sun cures those who because of their numerous sins have bodies festered with wounds, nose feet and hands emaciated, and who emit long drawn sighs and utter indistinct words. His rays vindicate his unbounded and unimpeded compassion and are always worshipped by the Siddhas. May those rays ward off all your sins quickly. ॥6॥

తెలుగు అర్థం--
    అవిగో, బాలభాస్కర కిరణాలు వస్తున్నాయి. అవి ఆరోగ్యభాస్కర కిరణాల, అవి ఆరోగ్యభాస్కర కిరణాలు, అవి భక్తులకు యశస్కరాలు, అవి ప్రకృతి వైద్య పరికరాలు, రోగహరణాలు, ఆయుఃకారణాలు, అవి తేజస్సుకు దోహదాలు.
    ప్రజలు పూర్వజన్మ సంచితాలుగా, ప్రారబ్ధకర్మ ఫలితాలుగా కష్టాలను అనుభవిస్తున్నారు. క్లేశాలు మానసిక రోగాలు, అనారోగ్యాలు పొందుతుంటారు. ఆర్తితో అల్లాడి వికలమైన అవయవాలతో బాధలు పడుతూ, దుర్భర దుఃఖాలు పొందుతుంటారు. నీరన వ్యాధులతో నీరుకారిపోతుంటారు.
    ఇది పరికించిన పద్మబాంధవుడు పరుగు పరుగున వస్తున్నాడు. ప్రజలు వ్యాధుల్ని పారకొట్టాలని, అందరినీ ఆనందపరచాలని అనేక ఔషధ కిరణాలు తెస్తున్నాడు. లోకబాంధవుడు పైకి తీక్ష్ణ కిరణుడుగా ఉన్నా మనస్సులో ప్రజలపై ఎంత దయో చెప్పగలిగింది కాదు కదా.
    ఆ జగద్బాంధవుణ్ణి కారుణ్య ప్రసార ప్రభువుని అమరులు సిద్ధులు అర్చిస్తున్నారు. ఆయనకు ప్రణమిల్లుతున్నారు. అడుగడుగునా ఆదిమ ఋషులు అనుగ్రహస్తాలు జోడించి “వైద్యో నారాయణో హరిః” అని స్తుతిస్తున్నారు.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment