मार्गोपान्ते सुमेरोर्नुवति कृतनतौ नाकधाम्नां निकाये
वीक्ष्य व्रीडानतानां प्रतिकुहरमुखं किन्नरीणां मुखानि ।
सूतेऽसूयत्यपीषज्जडगति वहतां कन्धरार्धैर्वलद्भिः
वाहानां व्यस्यताद्वः सममसमहरेर्हेषितं कल्मषाणि ॥४८॥
अन्वयः– सुमेरोः मार्गोपान्ते कृतनतौ नाकधाम्नां निकाये नुवति, प्रतिकुहरमुखं व्रीडानतानां किंनरीणां मुखानि सूते असूयति अपि बलद्भिः कन्धरार्धैः वीक्ष्य ईषज्जडगति वहताम् असमहरेः वाहानां हेषितं वः कल्मषाणि समं व्यस्यतात् ॥४८॥
व्याख्या– सुमेरोः हेमाद्रेः मार्गोपान्ते मार्गसमीपे, कृता नतिः नमस्कारः यैः तस्मिन्, नाकः स्वर्गः धाम गृहं येषां तेषां देवानां, निकाये समूहे नुवति स्तुतिं कुर्वति, भावे सप्तमी, प्रतिकुहरमुखं कुहराणां मुखेषु इति प्रतिकुहरमुखं, विभक्त्यर्थे अव्ययीभावः, प्रतिकुहरमुखं व्रीडया लज्जया नतानां किंनरीणाम् अश्वमुखीनां मुखानि, सूते सारथौ असूयति अनाकाङ्क्षति अपि, बलद्भिः वक्रैः कन्धरार्धैः ग्रीवार्धैः वीक्ष्य अवलोक्य ईषत् जडा शिथिला गतिः यस्मिन् कर्मणि तद् यथा स्यात्तथा, क्रियाविशेषणं, वहतां गच्छताम् असमाः हरयः अश्वाः यस्य तस्य सप्ताश्वस्य सूर्यस्य अश्वानां ह्रेषितं ह्रेषारवः, वः युष्माकं कल्मषाणि पापानि, समं युगपत् व्यस्यतात् अपनयतु ॥४८॥
भावार्थः– सुमेरोः मार्गसमीपे उदीयमानं सूर्यं देवाः नमश्चक्रुः । तदानीं नमस्करणार्थं स्थितानां, स्वकीयरूपस्य असौष्ठवात् लज्जया अधोमुखीनां, किन्नरीणां मुखानि विलोकयितुं सूर्याश्वाः सारथेः अरुणस्य इच्छामवमत्य वक्रकन्धराः अभूवन् । तेषां च गतिः कियत्क्षणं शिथिलाभूत् । अश्वानां तत्कालं सञ्जातं ह्रेषितं युष्माकं पापं हरतु ॥४८॥
हिन्द्यर्थः– सुमेरु पर्वतके मार्गके पास देवता जब स्तुति करते थे, तब कन्दराओंके द्वार पर स्थित, अश्वमुखी किन्नरियोंके लज्जानत मुखोंको सारथिकी अनिच्छासे भी गरदन टेढी कर दिखते हुए धीरगतिवाले सूर्यके अश्वोकी हिनहिनाहट आप लोगोंके पाप क्षय करें॥४८॥
आङ्ग्लार्थः-- The horses of the Sun make the charioteer angry for their slow pace, as they glance bending their heads at the bashful kinnans, standing at the entrance of the caves near the path of Sumeru, at the time of prayers by the Gods. May the neigh of those horses ward off all your sins.48
తెలుగు అర్థం--
అవిగో! సూర్యఘోటకాలు, సుమేరు పర్వతం పైకి వచ్చాయి. ఎంత శోభాయమానంగా ఉన్నది ఆ ప్రాంతం!
అమరగణం అంతా నిలబడి అర్ఘ్యపాద్యాలతో పూజాపుష్పాలతో ఆదిత్యదేవుణ్ణి అర్చిస్తున్నారు. ఆ దృశ్యం అత్యద్భుతం. ఆదిత్య దేవుని మహిమ అమోఘం. ఆ ప్రక్క మేరుపర్వత సుందర గుహాముఖద్వారాలతో అశ్వవదనలైన కిన్నరస్త్రీలు సిగ్గుతో నిలబడి ఉన్నారు. తమ జాతి సామ్యం చేత వారిని చూడాలని కాబోలు, వారు వాలు మెడలు సగం వంచి అటువైపే చూస్తున్నారు. వాటి గమన వేగం కూడా మందగించింది. అశ్వహృదయం ఎరిగిన అనూరుడు సమయోచితంగా అదలిస్తున్నాడు. ఆ గుర్రాలు హేషితాలు, కిన్నరస్త్రీలకు మధురమనోహర భావప్రేరకాలు.
ఆ సూర్యాశ్వాలు ప్రజలపాపధూలిని దూరంగా దులిపి వేయుగాక.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment