Monday, June 25, 2018

सूर्यशतकम् - 57 (महाकवि-श्रीमयूरप्रणीतम्)

नीत्वाश्वान् सप्त कक्षा इव नियमवशं वेत्रकल्पप्रतोदः
तूर्णं ध्वान्तस्य राशावितरजन इवोत्सारिते दूरभाजि ।
पूर्वं प्रष्ठो रथस्य क्षितिभृदधिपतीन् दर्शयंस्त्रायतां वः
त्रैलोक्यास्थानदानोद्यतदिवसपतेः प्राक्प्रतीहारपालः ॥५७॥


अन्वयः– तूर्णं ध्वान्तस्य राशौ इतरजने इव पूर्वम् उत्सारिते, दूरभाजि, रथस्य प्रष्ठः वेत्रकल्पप्रतोदः त्रैलोक्यास्थानदानोद्यतदिवसपतेः प्रतीहारपालः सप्त कक्षाः अश्वान् इव प्राक् नियमवशं नीत्वा, क्षितिभृदधिपतीन् दर्शयन् वः त्रायताम् ॥५७॥

व्याख्या– तूर्णं शीघ्रं ध्वान्तस्य अन्धकारस्य राशौ समूहे इतरजने इव पूर्वम् आदौ उत्सारिते निवारिते, दूरभाजि दूरं गते सति, रथस्य प्रष्ठः पुरः स्थितः वेत्रकल्पप्रतोदः वेत्रात् ईषदूनः वेत्रकल्पः ईषदसमाप्तौ कल्पब्देश्यदेशीयरः इति कल्पप् वेत्रकल्पः प्रतोदः कविका यस्य तथाभूतः त्रैलोक्यस्य, त्रयाणां लोकानां समाहारः त्रिलोकी, तस्याः भावः त्रैलोक्यं, चतुर्वर्णादीनामिति स्वार्थे ष्यञ् आस्थानदानाय अवस्थानप्रदानाय दानाय च उद्यतस्य दिवसपतेः सूर्यस्य प्रतीहारपालः द्वारपालः सप्तकक्षाः सप्तप्रकोष्ठान् इव सप्त अश्वान् नियमवशं नीत्वा नियन्त्र्य, क्षितिभृदधिपतीन् मुख्यान् राज्ञः बृहतः पर्वतांश्च प्राक् दर्शयन् स्थितः । यथा कश्चन द्वारपालः मुख्यान् नृपान् उपवेशनार्थं गृहान् दर्शयति तथा अरुणोऽपि बृहतः पर्वतान् आदौ दर्शयतीत्यर्थः सः अरुण वः युष्मान् त्रायताम् रक्षतु । आदौ बृहत् पर्वतेषु किरणपात इति भाव । उपमालङ्कारः ॥५७॥

भावार्थः– यथा कस्यचित् सम्राजः वेत्रहस्तो द्वारपालः इतरलोकान् अपसार्य मुख्यान् भूपान् उपवेशनार्थं नियन्त्रिताः शालाः दर्शयति, तथा त्रिभुवनस्य आस्थानदानव्रतिनः सूर्यस्य वेत्रतुल्यकविकाधारी रथद्वारस्थः अरुणः अन्धकारमपसार्य सप्त अश्वान् नियन्त्र्य आदौ बृहतः पर्वतान् दर्शयति । सः अरुणः युष्मान् रक्षतु ॥५७॥

हिन्द्यर्थः– दूसरे लोगोंके समान अन्धकारको अपसारित कर रथके सम्मुख भागमे स्थित, वेत्रतुल्य लगाम हाथमें पकडने वाले, तीन भुवनको आस्थान और दान देनेकेलिए तत्पर सूर्यके सम्राटके प्रतिहार, सात शालाओंकी भाँति, सात अश्वोंको नियन्त्रित कर बडे बडे महीभृतोको (राजा और पर्वतों को) पहले दिखानेवाले अरुण आप लोगोंकी रक्षा करें ॥५७॥

आङ्ग्लार्थः-- As a chief guide of an emperor holding a cane remains at the entrance of seven halls (of the palace), drives other people away and guides the rulers to their seats in the halls, so Aruna, the charioteer of the Sun, who remains busy in providing sustenance to three worlds, sitting in front of the chariot with canelike reins in his hand, drives away the darkness, controls the seven horses, and shows first the great mountains. May that Aruna save you all. 57

తెలుగు అర్థం--
    అడుగో అనూరుడు! సూర్యసారథి! అరుణకాంతులతో అరుదెంచినాడు. ప్రతీహారే ఇంత ఠీవిగా ఉన్నాడే ప్రభువు ఇంకెంత ఠీవిగా ఉంటాడో కదా.
    ఏడు గుర్రాలు  ఏడు కక్ష్యలవలె విరాజిల్లుతున్నాయి. అవి అరుణుని స్వాధీనంలో అణుకువతో ప్రవర్తిస్తున్నాయి. అనూరుడు వేత్రాన్ని లాంఛనప్రాయంగా ధరించాడు. అశ్వహృదయం ఎరిగిన వాడు కదా!
    సార్వభౌముడు విహారానికి వెళుతుంటే ప్రతీహారి ఇతరులను దూరంగా తరుముతున్నట్లు సూర్యసారథి అనూరుడు చీకటి మూకలను దూరంగా పారద్రోలుతున్నాడు. అనూరుడు మనోహరంగా స్యందనమునందు కూర్చొని సూర్యసార్వభౌముడికి మేరుపర్వత ప్రభువులను చూపి వారిని పరిచయం చేస్తున్నాడు లీలామాత్రంగా.
    త్రిలోక రాజ్యసింహాసనంపై ఆసీనుడైన సూర్య సార్వభౌముడు సాక్షాత్కరిస్తున్నాడు. ప్రధాన ప్రతీహారుడుగా ముందు కనిపించే అనూరుడు శుభములనొసగుగాక.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment