आक्रान्त्या वाह्यमानं पशुमिव हरिणा वाहकोऽग्र्यो हरीणां
भ्राम्यन्तं पक्षपाताज्जगति समरुचिः सर्वकर्मैकसाक्षी ।
शत्रुं नेत्रश्रुतीनामवजयति वयोज्येष्ठभावे समेऽपि
स्थाम्नां धाम्नां निधिर्यः स भवदघनुदे नूतनः स्तादनूरुः ॥५१॥
अन्वयः– यः हरिणा आक्रान्त्या पशुमिव वाह्यमानं, जगति पक्षपातात् भ्राम्यन्तं, वयोज्येष्ठभावे समेऽपि नेत्रश्रुतीनां शत्रुम् अवजयति, हरीणाम् अग्र्यः वाहकः, समरुचिः सर्वकर्मैकसाक्षी, स्थाम्नां धाम्नां निधिः सः नूतनः अनूरुः भवदघनुदे स्तात् ॥५१॥
व्याख्या– यः अरुणः हरिणा विष्णुना आक्रान्त्या विक्रमेण पशुमिव वाह्यमानं वाहनीक्रियमाणं, जगति भुवने पक्षाणां पातात् चालनात् भ्राम्यन्तं पर्यटन्तं, वयोज्येष्ठभावे वयःसु पक्षिषु ज्येष्ठभावे, अरुणपक्षे वयसा ज्येष्ठभावे समेऽपि, ज्येष्ठत्वमुभयोस्तुल्यं, गरुडः पक्षिषु ज्येष्ठः, अरुणस्तु वयसा, नेत्रे श्रुती कर्णौ येषां तेषां चक्षुःश्रवसां सर्पाणां शत्रं गरुडम् अवजयति अभिभवति, हरीणाम् अश्वानाम् अग्र्यः श्रेष्ठः वाहकः, समरुचिः समानुरागः सर्वकर्मेकसाक्षी सर्वकर्मद्रष्टा, स्थाम्नां स्थिराणां धाम्नां तेजसां निधिः निधानं, सः नूतनः अनूरुः भवताम् अघं पापं नुदतीति क्विपि अघनुत् तस्मै अघनुदे पापविनाशाय । स्तात् भवतु । अत्र कविः पदप्रयोगचातुर्येण गरुडात् अरुणस्य वैशिष्ट्यं दर्शयति । व्यतिरेकोऽलङ्कारः ॥५१॥
भावार्थः– गरुडः हरिणा पशुरिव वाह्यते, अरुणस्तु हरीणाम् (अश्वानां) वाहकः, गरुडः पक्षपातेन जगति भ्रमति, अरुणस्तु पक्षपातरहितः सर्वेषु समानुरागसम्पन्नः सर्वकर्मणां साक्षद्द्रष्टा च । गरुडः वयःसु ज्येष्ठः अरुणश्च वयसा ज्येष्ठः गरुडाग्रजः, गरुडः न तेजसां निधानम् अरुणस्तु तेजोनिधिः । अत एव अरुणः अधिकगुणसम्पन्नः भवति । सः अरुणः युष्माकं पापं खण्डयतु ॥५१॥
हिन्द्यर्थः– गरुड हरिके पशुतुल्यस्य वाहक है । जगतमें पक्षपातसे पंखको (हिलाकर) भ्रमण करता है, पक्षियोंमे श्रेष्ठ और सर्पोंके शत्रु है, उस गरुडको हरियोंके (अश्वों के) वाहक, जगतको बिना पक्षपातसे देखने वाले, सब कर्मोंके साक्षी और वयसमें ज्येष्ठ अरुण, स्थायी तेजके आधार होनेसे जीत गया है, वह अनूठ अरुण आप लोगोंके पाप क्षय करें ॥५१॥
आङ्ग्लार्थः-- Though equal in seniority (Anuru is senior in age and Garuda among birds) Anuru wins over the enemy of snakes (Garuda) as he is the chief driver of Haris (horses) where as the latter is used as a draught animal by Hari; the former looks all equally without being partial but the latter moves with paksapata (partiality/flapping the wings). May that Anuru, the permanent abode of lustre and onlooker of all actions, rising afresh, remove all your sins. 51
తెలుగు అర్థం--
అడుగో, సూర్యదేవుని సారథి అనూరుడు. ఎర్రని పట్టుబట్టలు కట్టుకుని మహాతేజస్సుతో వస్తున్నాడు. రథమంతా సిందూరకాంతులే. ఆయన అచ్చంగా గరుత్మంతుని వలెనే ఉన్నాడు. ఔను. ఇద్దరూ అన్నదమ్ములే కదా.
కాంతులు ప్రసరింపచేయటంలో ఇరువురూ సమానులే. వయోదృష్టితో చూస్తే అనూరుడు పెద్దవాడు. వయః అంటే పక్షి అని అర్థం. పక్షుల నాయకుడిగా గరుత్మంతుడు పెద్దవాడు.
మరి గరుత్మంతుడికంటే అనూరుడు ఏవిధంగా మిన్న? అంటే హరిచేత వాహనముగా చేసుకోబడినవాడు గరుత్మంతుడు. హరులనే తానే వాహనాలుగా చేసుకొన్నవాడు అనూరుడు.
గరుత్మంతుడు పక్షపాతంతో అంటే రెక్కలు అల్లార్చటంతో సంచరించేవాడు. అనూరుడు పక్షపాతం లేకుండా సమానమైన కాంతితో ప్రవర్తించేవాడు, సర్వకర్మలసాక్షిగా సంచరించేవాడు.
ఈ విధంగా తమ్మునికన్నా అన్నయ్యే మిన్న అనిపిస్తున్నది.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment