पाशानाशान्तपालादरुण वरुणतो मा ग्रहीः प्रग्रहार्थं
तृष्णां कृष्णस्य चक्रे जहिहि नहि रथो याति मे नैकचक्रः ।
योक्तुं युग्यं किमुच्चैःश्रवसमभिलषस्यष्टमं वृत्रशत्रोः
त्यक्तान्यापेक्षविश्वोपकृतिरिव रविः शास्ति यं सोऽवताद् वः ॥५९॥
अन्वयः– हे अरुण, आशान्तपालात् वरुणतः पाशान् प्रग्रहार्थं मा ग्रहीः । कृष्णस्य चक्रे तृष्णां जहिहि, मे रथः नैकचक्रः नहि याति, वृत्रशत्रोः युग्यम् उच्चैःश्रवसम् अष्टमं योक्तुम् अभिलषसि किम् त्यक्तान्यापेक्षविश्वोपकृतिः रविः इति यं शास्ति सः वः अवतात् ॥५९॥
व्याख्या– हे अरुण । आशान्तपालात् पश्चिमदिक्पालात् वरुणतः (पञ्चम्यास्तसिल्) पाशान् प्रग्रहार्थ रश्मिनिमित्तं मा ग्रहीः न गृहाण, न माङ्योगे इति अडभावः । कृष्णस्य चक्रे सुदर्शने तृष्णाम् अभिलाषं जहिहि त्यज, मे रथः नैकचक्रः बहुचक्रः नहि याति, एकेनैव चक्रेण चलति, वृत्रशत्रोः इन्द्रस्य युग्यं, युगं रथाङ्ग वहतीति युग्यः अश्वः तद्वहतिरथयुगप्रासङ्गम् इति यत तम् उच्चैःश्रवसम् अष्टमाश्वरूपेण योक्तुम् अभिलषसि किम्? नैतद्युक्तम् इति। इत्थं त्यक्तान्यापेक्षविश्वोपकृतिः, अन्यस्य अपेक्षा अन्यापेक्षा, विश्वस्य उपकृतिः विश्वोपकृतिः त्यक्ता अन्यापेक्षा विश्वोपकृतिः येन सः, अन्यान् अनपेक्ष्य विश्वस्य उपकारं चिकीर्षुः रविः सूर्यः इति पूर्वोक्तप्रकारेण यं शास्ति उपदिशति, सः अरुणः युष्मान् अवतात् रक्षतु । अनुप्रासोऽलङ्कारः ॥५९॥
भावार्थः– श्लोकेऽस्मिन् रविः अरुणम् उपदिशति- हे अरुण, प्रग्रहार्थं वरुणतः पाशान् न नय, स्वप्रग्रहं व्यवहर । कृष्णस्य चक्रे तृष्णां त्यज, मम रथः एकेन एव चक्रेण चलति, इन्द्रस्य उच्चैःश्रवसम् अश्वम् अष्टमाश्वरूपेण ग्रहीतुम् अभिलषसि किम्? सप्तभिरेव अश्वैः मे रथश्चलति, अष्टमो नावश्यकः । एवं प्रकारेण कस्यचित् अपरस्य साहाय्यमनपेक्ष्य विश्वस्य उपकारं चिकीर्षुः रविः यम् अरुणम् उपदिशति, सः अरुणः युष्मान् अवतात् ॥५९॥
हिन्द्यर्थः– हे अरुण । दिक्पाल वरुणसे पाशको लगामकेलिए मत लो, कृष्णके चक्र लानेमें आशा मत रखो, क्योंकि यह मेरा रथ अनेक चक्रसे नहीं चलता है । इन्द्रके अश्व उच्चैःश्रवाको अष्टम अश्व बनाना चाहते हो क्या? यह ठकि नहीं। दूसरोंकी सहायता बिना विश्वके उपकार करनेमें तत्पर सूर्य इस तरह जिसको उपदेश देते हैं, वह अरुण आप लोगोंकी रक्षा करें ॥५९॥
आङ्ग्लार्थः-- The Sun who does not depend on other for the welfare of the world, says-"O Aruna do not accept the noose from Varuna to use it as rein, do not hanker after the wheel of Krsna, as my chariot does not need more wheels, do not aspire for the horse Ucchaihsravas of Indra (the killer of Vrtra) to yoke as eighth one". May that Aruna protect you. 59
తెలుగు అర్థం--
అడుగో, ఆదిత్య మహారాజు విజయం చేస్తున్నాడు. వస్తూనే అనూరుడకి హెచ్చరికలిస్తున్నాడు.
అరుణా! నీవు ప్రయాణం విషయంలో ఏమాత్రం భయపడబోకు. భయపడి సందేహించి ఎవరినీ ఏమీ సహాయం కోరకు. అసహాయశూరుడైన సూర్యుడు ఇతరుల సహాయం కోరటం అంటే తలవంపులు సుమా!
పగ్గాలు చాలవేమో అని పాశాలకు పశ్చిమాధిపతి దగ్గరకు పరుగులు పెట్టబోకు. మన దగ్గరున్నవి చాలు. అవి చాలా శక్తిమంతాలు. మన రథానికి ఒకే చక్రం గదా అని కంగారు పడి విష్ణుచక్రం కోసం విష్మువు కొరకు వెళ్ళనవసరం లేదు. మన రథం ఏకచక్రం పై మహావేగంగా పోతుంది. మన గుర్రాలు ఏడే ఉన్నాయి. జతలు కుదరటంలేదని ఎనిమిదవ గుర్రంకోసం ఇంద్రుని కడకు ఉచ్చైశ్రవం కోరి వెళ్ళకు. ఈ సప్తాశ్వాలు రథాన్ని నేర్పుగా వేగంగా లాగుతాయి. ఆదుర్దా వద్దు.
ఏ సహాయం కోసం ఎవరినీ అర్థింపకు. అచంచలమైన చక్కని విశ్వాసంతో ఉండు అంటూ ఇతరుల సహాయం అపేక్షించకుండానే విశ్వోపకృతి కలిగించే సూర్యభగవానుడు అనూరునికి ధైర్యం కలిగిస్తున్నాడు.
ఆ విధంగా భగవానుని దగ్గర అభయం పొందుతున్న అనూరుడు మిమ్ము రక్షించుగాక!
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment