Monday, June 25, 2018

सूर्यशतकम् - 73 (महाकवि-श्रीमयूरप्रणीतम्)

ज्यायो यद्बीजमह्नामपहृततिमिरं चक्षुषामञ्जनं यद्
-द्वारं यन्मुक्तिभाजां यदखिलभुवनज्योतिषामेकमोकः ।
यद्वृष्ट्यम्भोनिधानं धरणिरससुधापानपात्रं महद्यद्
दिश्यादीशस्य भासां तदधिकममलं मङ्गलं मण्डलं वः ॥७३॥


अन्वयः– ज्यायः यत् अह्नां बीजं, यत् अपहृततिमिरं चक्षुषाम् अञ्जनम् यत् मुक्तिभाजां द्वारं, यत् अखिलभुवनज्योतिषाम् एकम् ओकः, यत् वृष्ट्यम्भोनिधानं, यत् महत् धरणिरससुधापानपात्रं, भासाम् ईशस्य अधिकम् अमलं तत् मण्डलं वः मङ्गलं दिश्यात् ॥७३॥

व्याख्या– ज्यायः प्रशस्यतरं यत् अह्नां दिवसानां बीजम् यत् अपहृतं तिमिरम् अन्धकारः, नेत्ररोगविशेषश्च येन तत् चक्षुषाम् अञ्जनम् यत् मुक्तिभाजां मुक्तिकामिनां द्वारम् यत् अखिलभुवनज्योतिषां सकलजगत्तेजसाम् एकम् ओकः आश्रयस्थानम् यत् वृष्ट्यम्भसां वृष्टिजलानां निधानम् आधारस्वरूपं, यत् महत् विशालं धरणिरससुधापानपात्रं, धरण्याः पृथिव्याः रसः जलम् एव सुधा अमृतं तस्याः पानाय पात्रम् भासां त्विषाम् ईशस्य पत्युः सूर्यस्य अधिकम् अमलं निर्मलं तत् मण्डलं वः युष्माकं मङ्गलं दिश्यात् विदधातु ॥७३॥

भावार्थः– प्रशस्यतरं यत् सूर्यमण्डलं दिवसानां हेतुः, चक्षुषां तिमिरनाशकम् अञ्जनं, मुमुक्षूणां द्वारं, सकलजगत्तेजसाम् एकम् आश्रयस्थलं, वृष्टिजलानामाधारस्वरूपं, धरणिरसामृतस्य महत् पानपात्रं, भास्वतः उज्ज्वलं तत् मण्डलं युष्माकं मङ्गलं विदधातु ॥७३॥

हिन्द्यर्थः– जो मण्डल दिनका अच्छा बीज है, अन्धकारको दूर करनेवाली आखोंके अञ्जन है, मुक्तिकामी योगियोंके द्वार हैं, सारी जगतके तेजके एक आधार है, वृष्टिजलकी सृष्टिकारी है और जो धरणीरसका पान करनेकी एक बद्धा पानपात्र है, भास्वान् सूर्यके वह उज्जल मण्डल आप लोगोंके मङ्गल विधान करें ॥७३॥

आङ्ग्लार्थः-- The majestic orb of the Sun is the prime cause of the day; is like the collyrium that removes darkness/nyctolopia; is the door of those aspiring for salvation; is the repository of all light of the world; is the store-house of rain water, and is the great drinking vessel of the earth. May that orb of the Sun look to your welfare. 73

తెలుగు అర్థం--
    అదిగో, ఆ కనిపించేది సుందర సుదీర్ఘ సువిశాల సువర్ణ సూర్యమండలం. అది సుప్రభావంతము. ఆ అర్కమండలం అహస్సులకు అద్భుతావహమైన అంతర్బీజం. ఆ భాస్కరబింబం జీవకోటి నేత్రాలకు అంజనౌషధం. ఆ జ్యోతిర్మయ మండలం యోగులకు భక్తులకు ముక్తిపురప్రవేశార్హత కలిగించే జ్వాలాతోరణద్వారం. ఆ తేజోమండలం జగత్తులోని సకల కాంతిపుంజాలకు ఏకైకాశ్రయ కేంద్రస్థానం.
    ఆదిత్యమండలం సకల వర్షాలకు హేతువు. సర్వ జలరాశికి ఆధారం. అది సకల చరాచరకోటి పృథ్విమీద గల నీటిని త్రావే సుధా పానపాత్ర.
    అది అఖండ సూర్యమండలం. ప్రచండ తేజోరాశిక్యం. అది మంగళాలకు మారుపేరు. అది సంపూర్ణ శ్రేయస్సులు అందించే ఆదిత్య చక్రం.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment