Monday, June 25, 2018

सूर्यशतकम् - 72 (महाकवि-श्रीमयूरप्रणीतम्)

नेत्राहीनेन मूले विहितपरिकरः सिद्धसाध्यैर्मरुद्भिः
पादोपान्ते स्तुतोऽलं बलिहरिरभसाकर्षणाबद्धवेगः ।
भ्राम्यन् व्योमाम्बुराशावशिशिरकिरणस्यन्दनः सन्ततं वो
दिश्याल्लक्ष्मीमपारामतुलितमहिमेवापरो मन्दराद्रिः ॥७२॥


 ॥इति रथवर्णनम् ॥
 
अन्वयः– नेत्राहीनेन मूले विहितपरिकरः सिद्धसाध्यः मरुद्भिः पादोपान्ते अलं स्तुतः, बलिहरिरभसाकर्षणाबद्धवेगः व्योमाम्बुराशौ भ्राम्यन् अशिशिरकिरणस्यन्दनः अतुलितमहिमा अपरः मन्दराद्रिः इव, वः अपारां लक्ष्मीं सन्ततं दिश्यात् ॥७२॥

व्याख्या– नेत्रं वेष्टनरज्जुः इव अहीनः अहीनां सर्पाणाम् इनः प्रभु; वासुकिः, तेन मूले अधोभागे विहितपरिकरः विहितः कृतः परिकरः वेष्टनं यस्य तथाभूतः, सिद्धाः गन्धर्वाः, साध्याः गणदेवताः, तैः मरुद्भिः देवैः पादोपान्ते पाददेशे अलं स्तुतः प्रार्थितः, बलिः वैरोचनिः, हरिः इन्द्रः तयोः रभसाकर्षणेन यथाशक्ति आकर्षणेन आबद्धः संजातः वेगो यस्य तथाभूतः, व्योम इव अम्बुराशिः अब्धिः तस्मिन् भ्राम्यन्, अतुलितमहिमा अतुलनीयमाहात्म्यः अपरः मन्दराद्रिः इव, अहीनेन महता, नेत्रा चालकेन अरुणेन मूले रथस्य आद्यभूमौ विहितपरिकरः कृतवस्त्रवेष्टनः, सिद्धसाध्यः मरुद्भिः पादोपान्ते अलं स्तुतः, बलिनः बलवन्तः ये हरयः अश्वाः तैः रभसेन आनन्देन अथवा रभसा बलात्। रभसो वेगहर्षयोः इति विश्वः। आकर्षणात् आबद्धवेगः प्राप्तवेगः व्योम आकाशः अम्बुराशिः इव तस्मिन् भ्राम्यन् अतुलितमहिमा, अशिशिरकिरणस्य उष्णांशोः स्यन्दनः रथः वः युष्मभ्यम् अपाराम् अनन्तां लक्ष्मीं श्रियं सन्ततं दिश्यात् ददातु । उपमालङ्कारः ॥७२॥

भावार्थः– वासुकिना परिवेष्टितः, सिद्धसाध्यप्रभृतिभिः देवैः पाददेशे स्तुतः, इन्द्रप्रमुखैः देवैः बलिप्रभृतिभिः रक्षोभिश्च युगपत् आकृष्यमाणः मन्थनदण्डवत् वेगवान् आकाशतुल्ये समुद्रे भ्राम्यन् मन्दराद्रिः इव, महता अरुणेन मूले कृतवस्रवेष्टनः सिद्धसाध्यादिभिः देवैः स्तुतः, बलवद्भिः अश्वैः शीघ्रमाकर्षितः वेगवान् समुद्रतुल्ये आकाशे भ्रमन् महामहिमः सूर्यरथः युष्मभ्यं प्रभूतां श्रियं प्रयच्छतु ॥७२॥

हिन्द्यर्थः– वासुकि द्वारा परिवेष्टित, सिद्ध, साध्य वगैरह देवताओंके द्वारा पाद देशमें सेवित, इन्द्र और बलि प्रभृतियोंके द्वारा मन्थन दण्डकी तरह जोरसे खींचा हुआ मन्दराद्रिके तुल्य, अरुणके द्वारा मूल देशमें वस्त्रसे परिवेष्टित, सिद्ध साध्य प्रभृति देवताओंके द्वारा अर्चित, बलवान् अश्वोंसे आकाशवारिधिमें वेगसे खींचा हुआ महामहिम सूर्यरथ आप लोगोंको चिरकाल सम्पद दान करें ॥७२॥

आङ्ग्लार्थः-- As Mandar mountain tied to its base by rope-like Sesa, and pulled by Vali and Indra moved in the ocean, while Siddhas, Sadhyas and other gods were offering prayers; so the Chariot of the Sun around which a cloth is bound by the expert driver Aruna and pulled by strong horses, moves in the sky, while Siddhas, Sadhyas, and other gods offered prayers. May that majestic Chariot give you much wealth. 72

తెలుగు అర్థం--
    అదిగో, ఆకాశం అపార పారావారంగా శోభిస్తున్నది. అందులో సూర్యరథం మందరపర్వతం వలె దధిభాండంలో కవ్వం రీతిగా తిరుగుతున్నది.
    మయూరమహాకవి ఆ దృశ్యాన్ని కమనీయంగా కల్పన చేశాడు. నేత్రాహీనేనుడు అని శ్లేషను బంధించాడు. వికలుడైన అనూరుడి చేత రథం బాగా బాగుచేయబడింది. నేత్ర అహి ఇనుడు కరచరణాలు లేని సర్పరాజు మందర మహీధర మూలభాగానికి కవ్వపు త్రాడువలె కట్టబడ్డాడు. అని రెండు అర్థాలు అమరినాయి.
    రథచక్ర సమీపంలోను, రథచక్రాలకు సిద్ధులు సాధ్యులు పూలు చల్లి పూజలు చేస్తున్నారు.
    రథ బలమైన హరిదశ్వాలచేత కర్షణా బద్ధమై ప్రయాణిస్తున్నది. మందరం బలి అనే రాక్షసరాజు చేత హరి అనే ఇంద్రుడి చేత కర్షణాబద్ధమై వేగంగా గిరగిరా తిరుగుతున్నది.
    మందరగిరి వంటి సూర్యరథం మానవుల మనోరథాలను తీర్చి మనోవేదనలను తొలగించుగాక.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment