निःस्पन्दानां विमानावलिविततदिवां देववृन्दारकाणां
वृन्दैरानन्दसान्द्रोद्यममपि वहतां विन्दतां वन्दितुं नो ।
मन्दाकिन्याममन्दः पुलिनभृति मृदुर्मन्दरे मन्दिराभे
मन्दारैर्मण्डितारं दधदरि दिनकृत्स्यन्दनः स्तान्मुदे वः ॥७०॥
अन्वयः– निःस्पन्दानां विमानावलिविततदिवाम् आनन्दसान्द्रोद्यमं वहतां, वन्दितुम् अपि नो विन्दतां देववृन्दारकाणां वृन्दैः मन्दारैः माण्डितारम् अरि दधत् पुलिनभृति मन्दाकिन्याम् अमन्दः, मन्दिराभे मन्दरे मृदुः दिनकृत्स्यन्दनः वः मुदे स्तात् ॥७०॥
व्याख्या– निःस्पन्दानां स्थिराणां, विमानानां व्योमयानानाम् आवल्या वितता आच्छादिता द्यौः व्योम यैः तेषाम् आनन्देन सान्द्रोद्यमं प्रभूतोत्साहं वहतां, वन्दितुं पूजयितुमपि नो विन्दताम् अलभमानानां, देववृन्दारकाणां देवमुख्यानां, वृन्दैः समूहैः मन्दारैः जवाकुसुमैः, मण्डितानि अराणि यस्य तत् अरि चक्रं दधत् पुलिनं बिभर्ति इति पुलिनभृत् भृ+क्विप् तस्यां मन्दाकिन्यां गङ्गायाम् अमन्दः अविलम्बितः मन्दिराभे मन्दिरतुल्ये मन्दरे गिरौ मृदुः दिनकृत्स्यन्दनः सूर्यरथः वः युष्माकं मुदे आनन्दाय स्तात्। भवतु । अनुप्रासोऽलङ्कारः। गृहसामान्यवाची मन्दिरशब्दोऽत्र देवालयार्थनिष्ठः, तेन मन्दिरस्य महत्त्वमुपमानत्वं च युक्तम् । देवैरसुरैश्च समुद्रमथनवेलायां मन्दरः मन्थनदण्डरूपमापत् अतस्तत्रैव रथस्य मृदुता युक्ता ॥७०॥
भावार्थः– पूजयितुमागता देवमुख्याः आकाशं विमानैः आच्छाद्य आनन्देन कृतबहूद्यमा अपि यस्य पूजनसुयोगं सहसा न प्राप्नुवन्ति, तत्प्रदत्तैः जवाकुसुमैः शोभितं चक्रं दधत् मन्दाकिन्याः पुलिने तीव्रगतिः, मन्दिरतुल्ये मन्दरगिरौ मन्थरः सूर्यस्य रथः युष्माकमानन्दं तनोतु ॥७०॥
हिन्द्यर्थः– विमानोंके द्वारा आकाशको छा देनेवाले, आनन्दसे बहुत कोशिश करनेसे भी वन्दन करनेकी सुयोगसे वञ्चित, धीर देवग्णके द्वारा मन्दार फूलोंसे मण्डित अरों युक्त चक्रोंको धारण करने वाला, गङ्गाके पुलिनमें चञ्चल, पर मन्दिर सम मन्दिर गिरिमें धीर सूर्यके रथ आप लोगोंको आनन्द दे ॥७०॥
आङ्ग्लार्थः-- The important Gods who do not get even a chance to offer their prayer inspite of their best attempts, cover the sky with their Chariots and wait paitently. They decorate then the spokes of wheel of the chariot with Mandara flowers. That Chariot of the Sun which runs fast in the sandy banks of Mandakini, and is slow on temple like Mandara mountain, may bring you happiness. 70
తెలుగు అర్థం--
అదిగో, అరవిందబంధుని అరదం, ఎంత అందంగా వస్తున్నది. ఎంత కాంతిమయంగా ఉన్నది! రథం వచ్చే మార్గం ఆకాశగంగా సైకత ప్రదేశం, ఇసుకలో కూరుకుపోతున్నా కూడా రథగమన వేగం తగ్గటం లేదు.
ఆదిత్య సూర్యభగవానుడు వస్తున్నాడని పూజాపుష్పాంజలి సమర్పిద్దామని ఆనందంతో అమరముఖ్యులు పరిగెత్తుకుని వస్తున్నారు. క్షణకాలంలోనే ఆ రథం ఆగకుండా వెళ్ళింది. అర్చనావకాశం లభించలేదే అని అమరులు దిగులు పడ్డారు.
కొందరు పట్టు విడవక ఎలాగైనా ప్రభువును అర్చించాలని విమానాలలో విభాకర రథం వెంట పడ్డారు. నగర తుల్యమైన మందరగిరి దగ్గర వేగం కాస్త తగ్గటం వల్ల వారికి అక్కడ అర్చనావకాశం లభించింది.
అమరార్చన అందిన రథం, చక్రాలు, ఆకులు, కడు శోభాయమానంగా ఉన్నాయి. ఆ పూజారథం మీ మనోరథం నెరవేర్చుగాక.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment