Sunday, June 24, 2018

सूर्यशतकम् - 23 (महाकवि-श्रीमयूरप्रणीतम्)

नो कल्पापायवायोरदयरयदलत्क्ष्माधरस्यापि गम्या
गाढोद्गीर्णोज्ज्वलश्रीरहनि न रहिता नो तमःकज्जलेन ।
प्राप्तोत्पत्तिः पतङ्गान्न पुनरुपगता मोषमुष्णत्विषो वो
वर्तिः सैवान्यरूपा सुखयतु निखिलद्वीपदीपस्य दीप्तिः ॥२३॥

अन्वयः– अदयरयदलक्ष्माधरस्य कल्पापायवायोः अपि नो गम्या, गाढोद्रीर्णोज्ज्वलश्रीः अहनि तमत्कज्जलेन नोरहिता न, पतङ्गात् प्राप्तोत्पत्तिः पुनः मोषं न उपगता, निखिलद्वीपदीपस्य उष्णत्विषः अन्यरूपा वर्तिः सा एव दीप्तिः वः सुखयतु ॥२३॥

व्याख्या– अदयरयदलत्साधरस्य अदयः तीव्रः यः रयः वेगः तेन दलन्तः विदीर्यन्तः क्ष्माधराः पर्वताः यस्मिन् तस्य कल्पापायवायोः कल्पस्य स्थितस्य जगतः अपायः विनाशः प्रलय इत्यर्थः, तस्मिन् यः वायुः तस्य, प्रलयकालीनप्रचण्डवातस्य अपि नो गम्या न निर्वाप्या इत्यर्थः । अहनि दिवसे गाढम् उद्गीर्णा प्रसृता उज्ज्वला श्रीः कान्तिः यस्याः तथाभूता, तमः अन्धकारः एव कज्जलं तेन नो रहिता न, रहिता एव, द्वौ नवौ प्रकृतार्थवोधकौ, पतङ्गात् सूर्यात् प्राप्ता अधिगता उत्पत्तिः यस्याः तथाभूता, पतङ्गः पक्षिसूर्ययोः इत्यमरः, मोषं न उपगता कदाचिदपि न निर्वापिता, निखिलद्वीपदीपस्य अखिलजगतः दीपसदृशस्य, उष्णत्विषः उष्णा त्विट् द्युतिः यस्य तस्य उष्णांशोः, स्तु प्रभारुगरुचिस्त्विड्भा भात्छविद्युतिदीपायः इत्यमरः, सा एव अन्यरूपा अन्यप्रकारा असाधारणी वर्तिः आलोकवर्तिका, वः युष्मान् सुखयतु सुखिनःकरोतु । अनुप्रासरूपकयोः सङ्करः ॥२३॥

भावार्थः– पर्वतमपि चालयता प्रलयकालीन महावातेनापि न निर्वाप्या, अहनि गाढं दीप्यमाना, तमोरहिता, पतङ्गात् उत्पन्ना, परं पतङ्गैः न निर्वापनार्हा, अखिलजगतः दीपस्वरूपस्य सूर्यस्य असाधारणी वर्तिका सा प्रभा युष्मान् सुखयतु ॥२३॥

हिन्द्यर्थः– तीव्र वेगसे पर्वतोंको भी विदलित करने वाली, प्रलयकालीन वायुसे भी न बुह्मने वाली, गहरी उज्ज्वल कान्तिसे युक्त, तमोरूप कज्जलसे रहित, पतङ्गसे सूर्यसे) जात, और पतङ्गनेसे छोटा सा कीटो से) न बुज्ञने वाली, सारे जगप्ते दीप सदृश उष्णांशु सूर्यके सर्वथा विलक्षण एक वर्त्तिकारूप दीन्ति आप लोगोंको सुखी करें॥२३॥

आङ्ग्लार्थः-- Even the terrible storms that uproot the mountains in Pralaya (Universal dissolution) are not able to flicker the flames of the solar lamp. That brilliant lamp, produced by Patariga (Sun) is not extinguished by pataṅgas (insects) and keeps away the collyrium-like darkness in the day. May that extra-ordinary lamp of the whole world give you happiness. 23

తెలుగు అర్థం--
    ఆదిత్యుడు ఆకాశదీపం, ఆయన నిత్యసత్యజ్యోతి. ఆయన విఖ్యాతి త్రిలోకాతీతం. ఆ దినకరదీప్తి తేజోవిలసితం.
    వాయువు దీపాలను ఆర్పివేస్తుంది. ప్రళయకాల ప్రభంజనం పర్వతాలను పగులగొడుతుంది. కులనగాలను కూల్చివేస్తుంది. సప్తసాగరాలను ఘోషిల్లజేస్తుంది. కానీ సూర్యకాంతిని ఏమీ చేయలేదు. విభాకర దీధితి విశ్వవిజయజ్యోతి.
    సాధారణమైన దీపాన్ని మిడుతలు కూడ ఆర్పివేస్తాయి. కానీ అద్భుత కాంతుల్ని ప్రసరింపచేసే ఈ దీపం పతంగకృత వినాశం లేనిది. పైగా ఈ కాంతి సూర్యుని నుండి ఆవిర్భవిస్తుంది కాబట్టి ఇది పతంగ కృతోత్పత్తిగలది. పతంగ అనే శబ్దానికి మిడుత అని సూర్యుడని రెండు అర్థాలు.
    మామూలు దీపం ఒక గృహానికే పూర్తిగా కాంతిని ఇవ్వలేదు. కానీ సూర్యజ్యోతి సమస్త జంబూప్లక్షాది ద్వీపాలను కూడా తేజోవంతం చేస్తుంది. వృక్షాలను పెంచుతుంది. పూలు పూయిస్తుంది. ఫలాలు అందిస్తుంది. ఆదిత్యసంపద ఆరోగ్యం ఆనందం కలిగిస్తుంది.
    దినకరదీపం అనంతప్రభావం గలది. దీనిముందు గృహదీపం అత్యల్పం కదా.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment