Sunday, June 24, 2018

सूर्यशतकम् - 41 (महाकवि-श्रीमयूरप्रणीतम्)

मूर्ध्न्यद्रेर्धातुरागस्तरुषु किसलयाद् विद्रुमौघात् समुद्रे
दिङ्मातङ्गोत्तमाङ्गेष्वभिनवनिहितात् सान्द्रसिन्दूररेणोः ।
सीम्नि व्योम्नश्च हेम्नः सुरशिखरिभुवो जायते यः प्रकाशः
शोणिम्नासौ खरांशोरुषसि दिशतु वः शर्म शोभैकदेशः ॥४१॥


[मूर्ध्न्यद्रेर्धातुरागस्तरुषु किसलयो विद्रुमौघः समुद्रे
दिङ्मातङ्गोत्तमाङ्गेष्वभिनवनिहितः सान्द्रसिन्दूररेणुः ।
सीम्नि व्योम्नश्च हेम्नः सुरशिखरिभुवो जायते यः प्रकाशः
शोणिम्नासौ खरांशोरुषसि दिशतु वः शर्म शोभैकदेशः ॥४१॥
    श्लोकेऽस्मिन् धातुरागकिसलयादिपदानां प्रथमान्तत्वे अन्वयः सम्यङ्नोपपद्यते। पञ्चम्यन्तः पाठः युज्यते । अतस्तथैव लिखितम्। तथा सति नापिच्छन्दोहानिः ।]

अन्वयः– उषसि खरांशोः शोणिम्ना अद्रेः मूर्ध्नि धातुरागात्। तरुषु किसलयात् समुद्रे विद्रुमौघात दिङ्मातङ्गोत्तमाङ्गेषु अभिनवनिहितात् सान्द्रसिन्दूररेणोः, सीम्नि व्योग्नः सुरशिखरिभुवः हेम्नः यः प्रकाशः जायते, शोभैकदेशः असौ वः शर्म दिशतु ॥४१॥

व्याख्या– उषसि प्रभाते खरांशोः उष्णांशोः शोणिम्ना रक्ताभया अद्रेः पर्वतस्य मूर्ध्नि शिरसि धातुरागात् धातूनां गैरिकधातूनां रागात्। तरुषु वृक्षेषु, किसलयात् पल्लवात् समुद्रे विद्रुमौघात् प्रवालसमूहात् (स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः इत्यमरः) । दिङ्मातङ्गानां दिग्गजानाम् उत्तमाङ्गेषु शिरःसु अभिनवनिहितात् सद्यःस्थापितात् सान्द्रः घनः यः सिन्दूररेणुः सिन्दूररजः तस्मात्। सीम्नि व्योम्नः आकाशस्य, सुरशिखरी देवगिरिः मेरुः तस्मात् भवतीति तस्मात् मेरुः सुमेरुर्हेमाद्रीरत्नसानुः सुरालयः इत्यमरः । मेरुजातात् हेम स्वर्णात्। हेमशब्दः रत्नसामान्यसूचकः यः प्रकाशः या द्युतिः जायते, शोभैकदेशः सर्वशोभायाः एकमास्पदम् असौ प्रकाशः वः युष्माकं शर्म सुखं दिशतु विदधातु । अनुप्रासोऽलङ्कारः, तद्गुणश्च ॥४१॥

भावार्थः– उषसि सूर्यस्य अरुणया प्रभया मेरोः मूर्ध्नि धातुरागात् वृक्षेषु पल्लवात्। समुद्रे प्रवालसमूहात् दिग्गजानां शिरःसु सद्योनिहितात् घनसिन्दूररजसः, सीम्नि व्योम्नः, सुमेरोरुत्पन्नात् सुवर्णाच्च यः प्रकाशः जायते या समुज्ज्वला द्युतिः उत्पद्यते, तेषां सर्वतेजसामाकरः सूर्यस्य सः प्रकाशः युष्माकं सुखं विदधातु ॥४१॥

हिन्द्यर्थः– प्रभातकालीन सूर्यके लाल किरण द्वारा पर्वतके शिखर पर धातुओंके रागसे, पेडोंके कोमल पत्तोंसे, समुद्रके प्रवालोंसे, दिग्गजोंके शिर पर नये दिये हुए सिन्दूर रजसे, आकाशके सीमापर स्थित मेरु पर्वतके सुवर्णोंसे जो कान्ति निर्गत होती है, उन सबका एकमात्र आधार सूर्यकी किरण आपका मङ्गल विधान करें ॥४१॥

आङ्ग्लार्थः-- The splendour seen in the minerals on the peaks of mountain, in the new leaves of the trees, in corals of oceans, in the fresh vermilion on the heads of diggajas and in the gold of divine mountain meru at the skirt of the sky, is only the out-come of purple red rays of the Sun. May that abode of all splendor make you happy. 41

తెలుగు అర్థం--
    అదిగో అరుణోదయం ఎంత మనోహరంగా ఉన్నది. ఆ కుంకుమాంకిత అరుణ కరుణ కిరణాలు అనేక వినూత్న విశిష్ట భావాలు రేకెత్తిస్తున్నాయి.
    అరుణుడేతెంచాడు. ఆన తేజఃపుంజాలు పర్వత శిఖరాలుపై గైరికాది ధాతువుల రక్తిమను చిందిస్తున్నాయి. వృక్షశిఖరాగ్రాలపై కెంజిగురాకులవలె తళతళ మెరుస్తున్నాయి.
    ఉదయ సంధ్యాసమయ కిరణ సమూహాలు సముద్రంలో ప్రతిఫలించాయి. సముద్రుడు అనురాగ సముద్రడైనాడు. సముద్రునిలో పవడాల సమూహం కాంతులీనుతున్నది. ఆ కిరణాల కాంతి దిగ్గజాల కుంభస్థలాలపై సిందూరపరాగంగా పరిఢవిల్లుతున్నది. అందువల్ల ఆ ఐరావతాలు కుంకుమ కొండలవలె కనిపిస్తున్నాయి.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment