Monday, June 25, 2018

सूर्यशतकम् - 86 (महाकवि-श्रीमयूरप्रणीतम्)

क्रामँल्लोलोऽपि लोकाँस्तदुपकृतिकृतावाश्रितः स्थैर्यकोटिं
नॄणां दृष्टिं विजिह्मां विदधदपि करोत्यन्तरत्यन्तभद्राम् ।
यस्तापस्यापि हेतुर्भवति नियमिनामेकनिर्वाणदायी
भूयात्स प्रागवस्थाधिकतरपरिणामोदयोऽर्कः श्रिये वः ॥८६॥


अन्वयः– यः लोलः लोकान् क्रामन् अपि तदुपकृतिकृतौ स्थैर्यकोटिम् आश्रितः, नॄणां दृष्टिं विजिह्यां विदधत् अपि अन्तः अत्यन्तभद्रां करोति, नियमिनां तापस्य हेतुः अपि एकनिर्वाणदायी भवति, प्रागवस्थाधिकतरपरिणामोदयः सः अर्कः वः श्रिये भूयात् ॥८६॥

व्याख्या– यः लोलः चञ्चलः लोकान् भुवनानि क्रामन् लङ्घयन् अपि तदुपकृतिकृतौ तेषां लोकानाम् उपकृतिकृतौ उपकारकरणे स्थैर्यकोटिं स्थिरतायाः अन्तिमपर्यायम् आश्रितः, नॄणां लोकानां दृष्टिं दृशं विजिह्यां कुञ्चितां विदधत् कुर्वन् अपि, (अरालं वृजिनं जिह्ममूर्मिमत् कुञ्चितं नतम् इत्यमरः), अन्तः अभ्यन्तरे अत्यन्तभद्रां सुप्रसन्नां करोति, नियमिनां योगिनां तापस्य दुःखस्य हेतुः अपि एकः निर्वाणदायी मुक्तिदायी भवतीति विरोधः, तापस्य उष्णतायाः इति तत्परिहारः, प्रागवस्थाधिकतरपरिणामोदयः । प्रागवस्थायाः पूर्वावस्थायाः अधिकतरः परिणामः परिणतिः यस्य तथाभूतः उदयः यस्य तथाभूतः सः अर्कः वः युष्माकं श्रिये मङ्गलाय भूयात् । विरोधोऽलङ्कारः ॥८६॥

भावार्थः– यः सूर्यः सत्वरं जगन्ति लङ्घयन्नपि तेषामुपकारकरणे अतीवस्थिरः लोकानां दृष्टिं स्वतापेन कुञ्चितां कुर्वन्नपि अनार्दृष्टिं सुप्रसन्नां कुरुते, पुनश्च योगिनां दुःखस्य उष्णतायाः हेतुः अपि मुक्तिदायी भवति, उदयावस्थायाः क्रमशः प्रचण्डतरः ऊर्ध्वगामी स सूर्यः युष्माकं मङ्गलं विदधातु ॥८६॥

हिन्द्यर्थः– जो सूर्य शीघ्र संसारको आक्रमण (लंघन) करनेसे भी उपकार करनेमें दृढ है, लोगोंकी दृष्टिको कुञ्चित करनेसे भी अन्तरात्माको विशेष भावसे प्रसन्न करता है, योगियोंके तापदायी होनेसे भी मोक्षदाता है, पूर्व उदयकालीन अवस्थासे अधिक परिवर्तनके साथ जानेवाले वह सूर्य आप लोगोंके मङ्गल विधान करें ॥८६॥

आङ्ग्लार्थः-- Though the Sun moves fast in worlds, still is very firm in doing good acts. It dazzles the eyes of people but purifies their internal senses. It causes heat but gives liberation to ascetics. May that Sun, more mature than before, bring you all prosperity. 86

తెలుగు అర్థం--
    అడుగో, అహస్కరుడు ఆతృతతో అరుదెంచాడు. లోకాల కన్నిటికి వెలుగు చూపాలి కదా! అదీ ఆరాటం.
    లోకంలో ఎక్కడా క్షణం నిలువక చంచలుడై ఒకటే పరుగు తీస్తున్నాడు. ఆయన నడకే అంత. ఆయన నడకలో చంచలుడుగా కనిపించినా లోకాలకు ఉపకారం చేయటంలో అచంచలుడు. అందువల్ల లోకులు ప్రభాకరుణ్ణి చంచలుడనీ, అచంచలుడనీ అంటారు.
    మార్తాండుడి తేజస్సు మహోగ్రంగా ఉంటుంది. మానవులు కన్నులెత్తి వీక్షించటానికి శక్యం కాదు. మానవులను ఎదురుగా చూడనివ్వడే కానీ అన్నింటినీ కనినింపజేసేది ఆయనే. అంతరంగంలో చూపును ఆయన ప్రసాదిస్తాడు. అందుకని ఆయన్ని లోకులు చూపు చెరుపువాడు అనీ చూపు ఇచ్చువాడు అనీ అంటారు. సూర్యుడు సామాన్యులకు తాపకారకుడు. యోగులకు నిర్వాణం అందిస్తూ అత్యంతిక సుఖకారకుడు.
    పూర్వ పరిస్థితికంటే రాను రాను అధికాధిక పరిణతి గల వాడై సవితృ దేవుడు సుఖాన్ని అనుగ్రహిస్తాడు. 

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment