Monday, June 25, 2018

सूर्यशतकम् - 87 (महाकवि-श्रीमयूरप्रणीतम्)

व्यापन्नर्तुर्न कालो व्यभिचरति फलं नौषधीर्वृष्टिरिष्टा
नेष्टैस्तृप्यन्ति देवा न हि वहति मरुन्निर्मलाभानि भानि ।
आशाः शान्ता न भिन्दन्त्यवधिमुदधयो बिभ्रति क्ष्माभृतः क्ष्मां
यस्मिंस्त्रैलोक्यमेवं न चलति तपति स्तात्स सूर्यः श्रिये वः ॥८७॥


अन्वयः– यस्मिन् तपति कालः व्यापन्नर्तुः न, ओषधिः फलं न व्यभिचरति, वृष्टिः इष्टा, देवाः इष्टैः न तृप्यन्ति नहि, मरुत् वहति, भानि निर्मलाभानि, आशाः शान्ताः, उदधयः अवधिं न भिन्दन्ति, क्ष्माभृतः क्ष्मां बिभ्रति, त्रैलोक्यम् एवं चलति, सः सूर्यः वः श्रिये स्तात् ॥८७॥

व्याख्या– यस्मिन् सूर्ये तपति, भावे सप्तमी, कालः वसन्तादिः व्यापन्नर्तुः विनष्टर्तुः न भवति, ओषधिः धान्ययवादिः फलं न व्यभिचरति, यथाकालं फलं प्रसूते इत्यर्थः, वृष्टिः इष्टा अनुकूला, देवाः इष्टैः यागादिभिः न तृप्यन्ति नहि तृप्यन्ति एव, मरुत् वायुः वहति, भानि नक्षत्राणि [नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम् इत्यमरः], निर्मला आभा कान्तिः येषां तानि निर्मलद्युतीनि भवन्ति, भशब्दोऽत्र भाधारनभोमण्डलवाची; आशाः दिशः शान्ताः प्रसन्नाः, उदधयः अवधिं सीमां न भिन्दन्ति न लघयन्ति, क्ष्माभृतः राजानः पर्वताश्च क्ष्मां पृथिवीं बिभ्रति धारयन्ति, त्रैलोक्यम् त्रिभुवनम् एवं चलति, सः सूर्यः वः युष्माकं श्रिये मङ्गलाय स्तात् भवतु ॥८७॥

भावार्थः– यस्मिन् सूर्ये तपति, ऋतवः यथाकालम् आयान्ति यान्ति च, धान्यव्रीह्यादयः वृक्षलताश्च पुष्पफलं धारयन्ति, वृष्टिः यथाकालं भवति, देवाः यज्ञादिभिः तृप्यन्ति, वायुः सम्यक् वहति, नभोमण्डलं विमलं भवति, दिशः प्रसन्नाः दृश्यन्ते, सागराः सीमां न लङ्घयन्ति, राजानः गिरयश्च पृथिवीं पुष्णन्ति, एवं विश्वं यथारीति प्रचलति, सः सूर्यः युष्माकं मङ्गलं विदधातु ।
टिप्पणी- न चलति स्थाने 'प्रचलति' इति विधेयम् अन्यथा नञः आधिक्यं स्यात् ॥८७॥

हिन्द्यर्थः– जिस सूर्यके प्रकाशसे ऋतुएँ नियत समय पर आती हैं; वृक्षलताएँ बिना विध्नसे फल धारण करती हैं; ठीक समय पर वृष्टि होती है, देवताएँ यज्ञादिसे तृप्त होते हैं; वायु बहता है; ताराएँ निर्मल कान्ति धारण करते हैं; दिशाएँ निर्मल होती हैं; समुद्र वेलालंघन नहीं करता; पर्वत पृथिवीको परिपुष्ट करते हैं; इस तरह ठीकसे तीन भुवन चलता है; वह सूर्य आप लोगोंका मङ्गल करें ॥८७॥

आङ्ग्लार्थः-- When the Sun shines, the cycle of seasons does not deviate its course; plants never fail to bear fruits in time; rains fall in due course; the gods are pleased with sacrifices, wind blows favourably; the stars shine brilliantly; the quarters remain calm; the seas never transgress their limits; and the kings/mountains look after earth well. May that Sun confer good fortunes on you. 87

తెలుగు అర్థం--
    అడుగో, కర్మసాక్షి సాక్షాత్కరించాడు. అందరినీ అనుగ్రహించాడు. కర్మసాక్షి రాకపోతే కాలచక్రమే ఆగిపోతుంది. ఇది సుదినం అయింది.
    ఆ స్వామి కనిపించని దినం దుర్దినం కదా! కమల బాంధవుడు ప్రకాశిస్తేనే ఋతుధర్మం సరిగ్గా సాగుతుంది. ఓషధులు ఫలవంతమవుతాయి.
    వేయిచేతులు రేనివల్లనే హర్షంగా వర్షాలు కురుస్తాయి. సవితృ దేవుడివల్లనే యాగాలు యజ్ఞాలు సక్రమంగా సాగుతాయి. యజ్ఞాలవల్లనే దేవతా సమూహం సంతోషిస్తుంది. తృప్తితో పరాలు ప్రసాదిస్తుంది. విశ్వకల్యాణం జరుగుతుంది.
    వనజబాంధవుడి వల్లనే వాయువులు క్రమంగా వీస్తున్నాయి. ఏ వాయువులు ఎప్పుడు వీచాలో వివస్వతుడికే ఎరుక. సూర్యుడి వల్లనే చుక్కలు మెరుస్తున్నాయి. లేకపోతే అంతా చీకటే.
    సప్తాశ్వుడి వల్ల సాగరాలు మేరమీరక కట్టబడి ఉన్నాయి. భువనబంధువు వల్లనే భూభరాలు భూమిని భరిస్తున్నాయి. మూడు లోకాల నియమబద్ధంగా నిర్మలంగా నిలకడగా ప్రకాశిస్తున్నాయి. జీవకోటి ఆ స్వామి వల్లనే జీవిస్తున్నది. ఆ ఆదిత్యమూర్తి అందరికీ అధికసంపదలిడుగాక!

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment