प्लुष्टाः पृष्ठेंऽशुपातैरतिनिकटतया दत्तदाहातिरेकैः
एकाहाक्रान्तकृत्स्नत्रिदिवपथपृथुश्वासशोषाः श्रमेण ।
तीव्रोदन्यास्त्वरन्तामहितविहतये सप्तयः सप्तसप्तेः
अभ्याशाकाशगङ्गाजलसरलगलावाङ्नताग्रानना वः ॥४५॥
अन्वयः– अतिनिकटतया दत्तदाहातिरेकैः अंशुपातैः पृष्ठे स्तुष्टाः, एकाहाक्रान्तकृत्स्नत्रिदिवपथपृथुश्वासशोषाः, श्रमेण तीव्रोदन्याः, अभ्याशाकाशगङ्गाजलसरलगलावाङ्नताग्राननाः सप्तसन्तः सप्तयः वः अहितविहतये त्वरन्ताम् ॥४५॥
व्याख्या– अतिनिकटतया दत्तः दाहातिरेकः तापाधिक्यं यैः तैः अंशुपातैः किरणपातैः पृष्ठे प्लुष्टाः तापमाप्नुवन्तः एकम् अहः एकाहः, (राजाहःसखिभ्यष्टच् टचि टिलोपः), तेन आक्रान्तः कुत्स्नः समग्रः यः त्रिदिवपथः स्वर्गमार्गः, तेन पृथुः श्वासः शोषश्च येषां तथाभूताः, अतएव श्रमेण तीव्रोदन्याः तीव्रा उदन्या पिपासा येषां ते, अभ्याशे समीपे या आकाशगङ्गा तस्याः जलाय सरलाः अवक्राः गलाः येषां तानि अवाङ्नतानि अधःप्रवृत्तानि अग्राननानि मुखाग्राणि येषां ते तथाभूताः, सप्रतसप्तेः सूर्यस्य सप्तयः अश्वाः, वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः' इत्यमरः, वः युष्माकम् अहितानां विहतिः तस्यै, अमङ्गलनाशाय त्वरन्तां त्वरान्विताः भवन्तु ॥४५॥
भावार्थः– समीपस्थेन सूर्यस्य किरणेन अश्वानां पृष्ठम् उत्तप्तमभूत् । एकेनैव दिवसेन त्रिदिवपथपरिक्रमणात् दीर्घं निःश्वसन्तः क्लान्ताः पिपासवः, समीपवर्तिन्याः स्वर्गङ्गायाः जलपानाय नताननाः अतएव सरलग्रीवाः, सूर्यस्य ते अश्वाः युष्माकम् अमङ्गलं शीघ्रं विनाशयन्तु ॥४५॥
हिन्द्यर्थः– अति निकटसे प्रचण्ड किरणपात होनेके कारण पृष्ट देशमें उत्तप्त एक दिनमें त्रिभुवनके मार्ग अतिक्रम करनेसे लम्बे साँस छोडनेवाले श्रमसे तृषार्त्त होकर निकटमें बहनेवाली स्वर्गङ्गाकी जल पीनेकेलिए मुखको झुकानेवाले सूर्यके अश्व आप लोगोंके अहित दूर करें ॥४५॥
आङ्ग्लार्थः-- The horses remaining close to the Sun, are scorched on their backs. They pant heavily for exertion of traversing three for water of swargariga flowing nearby. May those horses hasten in removing your evils.45
తెలుగు అర్థం--
అవిగో! రవీంద్రుని అశ్వాలు వేగంగా సాగిపోతున్నాయి. ఆ గుఱ్ఱాలు ఎంత శోభాయమానంగా ఉన్నాయి!
సూర్యునికి మిక్కిలి సమీపంలో ఉండటం వల్ల కాబోలు ఆన కిరణాలు వేడి వాటి పిరుదులకు తగిలి ఆ కలిగిన తాపం వల్ల అవి మరింత వేగంగా పరుగులు తీస్తున్నాయి. పగలంతా మిట్ట మధ్యాహ్నం సమయంలో కూడా విశ్రాంతి లేకుండగా ఆకాశమంతా తిరగవలసి రావటం వల్ల ఆ అశ్వాలు దీర్ఘంగా నిట్టూర్పులు విడుస్తున్నాయి.
అశ్వాలకు దప్పిక అవుతున్నది కాబోలు. అవి ఆకాశగంగ వైపు మెడలు చాస్తున్నాయి. తలలు వంచి పక్కకే లాగుతున్నాయి. ఆ అశ్వాల శోభ అహరహం ప్రజల అనిష్టాలను తొలగించుగాక.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment