आयान्ती किं सुमेरोः सरणिररुणिता पाद्मरागैः परागैः
आहोस्वित् स्वस्य माहारजनविरचिता वैजयन्ती रथस्य ।
माञ्जिष्ठी प्रष्ठवाहावलिविधुतशिरश्चामराली नु लोकैः
आशङ्क्यालोकितैवं सवितुरघनुदे स्तात् प्रभातप्रभा वः ॥२७॥
अन्वयः– सुमेरोः पाद्मरागैः परागैः अरुणिता आयान्ती सरणिः किम् आहोस्वित् स्वस्य रथस्य माहारजनविरचिता वैजयन्ती किम्? माञ्जिष्ठी प्रष्ठवाहावलिविधुतशिरश्चामराली नु? एवं लोकैः आशङ्क्य आलोकिता सवितुः प्रभातप्रभा वः अघनुदे स्तात् ॥२७॥
व्याख्या– सुमेरोः तदाख्यपर्वतस्य पाद्मरागैः पद्मरागस्य इमे पाद्मरागाः तैः पद्मरागसम्बन्धिभिः परागैः अरुणिता अरुणवर्णविशिष्टा आयान्ती आगच्छन्ती सरणिः मार्गः किम्? (सरणिः पद्धतिः पद्या वर्त्मन्येकपदीति च– इत्यमरः) । आहोस्वित् स्वस्य रथस्य महारजनस्य इदं माहारजनं हैमं कौसुम्भं वासोवा तेन विरचिता निर्मिता रथस्य वैजयन्ती पताका किम्? (चामीकरं जातरूपं महारजतकाञ्चने– इत्यमरः) । माञ्जिष्ठो मञ्जिष्ठया रक्ता माञ्जिली, तेन रक्तं रागात् इति घन् स्त्रियां माञ्जिष्ठीः प्रष्ठाः रथाग्रस्थाः ये वाहाः अश्वाः तेषाम् आवलिः पङ्गिः तया विधुतानां शिरसां चामराली चामरपङ्किः किम्? एवम् इत्थं लोकैः आशङ्क्य आलोकिता सवितुः सूर्यस्य प्रभातप्रभा प्राभातिकी कान्तिः वः युष्माकम् अघनुदे अघं पापं नुदतीति अघनुत् क्विप् तस्मै अघनुदे पापविनाशाय स्तात् भवतु । उत्प्रेक्षालङ्कारः ॥२७॥
भावार्थः– इयं प्रभातप्रभा सुमेरोः पद्यरागपरागैः अरुणिता सरणिः किम्? अथवा स्वर्णेन, कौसुम्भवस्रेण वा विरचिता रथस्य पताका किम्? अथवा रथस्य अग्रे बद्धायाः अश्वश्रेण्याः मञ्जिष्ठारञ्जिता शिरश्चामराली किम्? एवमाशङ्क्य जनैः आलोकिता सा प्रभातप्रभा युष्माकं पापविनाशिनी भवतु ॥२७॥
हिन्द्यर्थः– क्या वह सुमेरुके पद्मरागसे रंजित आने वाला मार्ग है? अथवा सोनेसे निर्मित रथका पताका है क्या? अथवा रथके आगे बँधी हुई घोडोंके शिर पर कम्पमान मञ्जिलारङ्गवाली चामरपंक्ति है क्या? इस तरह भ्रान्तिसे अवलोकित सूर्यकी प्रभातप्रभा आप लोगोंके पाप दूर करें ॥२७॥
आङ्ग्लार्थः-- The early rays of the Sun are looked at anxiously by the people in amazement as to whether they are the paths of Sumeru, studded with dusts of emerald stones? Or the golden banners of the Chariot? or the moving Camaras of manjistha- (colour on the heads of the horses in front? May those rays remove all your sins. 27
తెలుగు అర్థం--
ఆహా, ఏమి రత్నప్రభలు! కెంజాయలూ, క్రొంజాయలూను వెల్లివిరిసినట్లుంది.
ఆ కనిపించేది సుమేరు పర్వత ప్రాంతంగా ఉన్నది. అవి పద్మరాగ మణుల ధూళులవలె కనిపిస్తున్నాయి. ఆ పద్మరాగమణుల ధూళులచేత ఎర్రబడిన సుమేరు పర్వతం నుంచి వచ్చే మార్గమా అన్నట్లున్నది ఆ అరుణరాగ రంజిత కలాపం.
కాకపోతే అది కౌసుంభరాగ పరాగ కాంతిలో భాసించే రవిరాజకేతనం అయి ఉండవచ్చు. అందుకే అంత రమణీయంగా కనిపిస్తున్నది.
అదిగో, సూర్యరథం, సప్తసైంధవాలు పరుగులు తీస్తున్నాయి. ఆ కనిపించే కాంతులు అశ్వశిరోభాగాలపై విరాజిల్లే చామర కాంతులు అయియుంటాయి. అవి మాంజిష్ఠరాగరంజితాలు.
అవి ప్రాక్ దిశాకాంత ఫాలభాగం పైని కుంకుమములు కాబోలు, బంగారు కాంతులు మెరుస్తున్నాయి. అవి ప్రజలకు సౌభాగ్య ప్రదీపకాలు కదా.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment