Monday, June 25, 2018

सूर्यशतकम् - 53 (महाकवि-श्रीमयूरप्रणीतम्)

मुञ्चन् रश्मीन् दिनादौ दिनगमसमये संहरंश्च स्वतन्त्र-
स्तोत्रप्रख्यातवीर्योऽविरतहरिपदाक्रान्तिबद्धाभियोगः ।
कालोत्कर्षाल्लघुत्वं प्रसभमधिपतौ योजयन् यो द्विजानां
सेवाप्रीतेन पूष्णात्मसम इव कृतस्त्रायतां सोऽरुणो वः ॥५३॥

अन्वयः– यः दिनादौ रश्मीन् मुञ्चन् दिनगमसमये संहरन् च स्वतन्त्रः, स्तोत्रप्रख्यातवीर्यः, अविरतहरिपदाक्रान्तिबद्धाभियोगः, कालोत्कर्षात् द्विजानाम् अधिपतौ प्रसभं लघुत्वं योजयन् सेवाप्रीतेन इव पूष्णा आत्मसमः कृतः सः अरुणः वः त्रायताम् ॥५३॥

व्याख्या– यः सूर्यः अरुणश्च दिनादौ प्रभाते रश्मीन् किरणान् प्रग्रहान् च मुञ्चन् सायं संहरन् सङ्कोचयन् स्वतन्त्रः स्वाधीनः, स्तोत्रेषु प्रख्यातं वर्णितं वीर्यं यस्य सः, अन्यत्र तोत्रे अश्वचालनवेत्रप्रयोगे कुशलः, अविरतं निरन्तरं हरिपदस्य विष्णुपदस्य आक्रान्त्यै आक्रमणाय बद्धः सम्पन्नः अभियोगः प्रयासः यस्य तथाभूतः सूर्यः, अरुणस्तु हरीणाम् अश्वानां पदाक्रान्त्यै आशु पादप्रक्षेपणाय कृतोद्यमः, कालोत्कर्षात् समयप्रभावात् द्विजानाम् अधिपतौ द्विजराजे चन्द्रे, प्रसभं बलात् लघुत्वं कान्तिहीनत्वं योजयन् (सूर्यः) अरुणपक्षे, द्विजानां पक्षिणाम् अधिपतौ गरुडे लघुत्वम् अवरजत्वं योजयन् सूर्यः अरुणश्च क्रियासम्पादनदृष्ट्या तुल्यौ प्रतिपादितौ । अरुणस्य सेवया प्रीतः इव सूर्यः तं स्वतुल्यं कुरुते । सः अरुणः युष्मान् त्रायतां रक्षतु । श्लेषोऽलङ्कारः ॥५३॥

भावार्थः– सूर्यः प्रभाते स्वस्य रश्मीन् प्रसारयति सायं संहरति, अरुणश्च प्रभाते शीघ्रधावनार्थम् अश्वानां रश्मीन् प्रग्रहान् शिथिलयति, सायं तु सङ्कोचयति, स्तुवतां भक्तानां स्तोत्रेषु सूर्यस्य गौरवं वर्णितम्, तोत्रे (अश्वानां चालनार्थं वेत्रप्रयोगे) अरुणोऽपि कुशलः, सूर्यः हरेः पदं (विष्णुपदम्) आक्रान्तुं चेष्टते, अरुणश्च हरीणां (अश्वानां) शीघ्रं पदचालनार्थं यत्नशीलो भवति, समयक्रमेण सूर्यः द्विजराजं (चन्द्रं) हीनप्रभं कुरुते, अरुणश्च द्विजानां पक्षिणां राजानं गरुडं कनीयान् इति प्रमाणयति । सेवया तृप्तः इव सूर्यः अरुणं कार्यसम्पादनदृष्ट्या आत्मनः समकोटिकं मन्यते । सः सूर्यकल्पः अरुणः युष्मान् रक्षतु ॥५३॥

हिन्द्यर्थः– जो प्रभातमें रश्मि (किरण और लगाम) को ढीली करनेमें और सन्ध्यामें संहृत करनेमें स्वतत्र है, जिसके महिमा स्तोत्रमें वर्णित है, निरन्तर हरिपद (आकाश और अश्वोंका चरण) प्रसरणमें यत्नशील, समयके अनुसार द्विजाधिप (चन्द्र और गरुड) को लघु बनानेवाले जिस अरुणके सेवामें संतुष्ट होकर सूर्य उसको अपने समान बना लिये हैं, वह अरुण आप लोगोंकी रक्षा करे॥५३॥

आङ्ग्लार्थः-- Both the Sun and Aruna set free the rasmis (rays/reins) in the beginning and withdraw them at the close of the day independently. Their valour is known from stotra (hymns) and totra (whip). The Sun tries always to go across the sky (Haripada) while Aruna hastens the speed of horses (Haris) to go across the sky. Both make dvijadhipati (the moon/Garuda, the king of birds) much inferior due to favourable course of time. Thus having been pleased the Sun has elevated Aruna to his equal status. May that Aruna protect all of you. 53

తెలుగు అర్థం--
    అడుగో, ఆ తూర్పు కొండపై అరుణారుణకరుణకిరణాలతో అరుదెంచేదెవరు? ఆదిత్యుడా? అనూరుడా? తనను సేవించటం వల్ల ప్రీతి పొంది సూర్యుడు అనూరుడిని తనంతటి వాడిని చేశాడు. వారిద్దరికి సామ్యం చక్కగా కనిపిస్తున్నది.
    రశ్ములకు కిరణాలు పగ్గాలు అని అర్థాలు. సూర్యుడు కిరణ ప్రసారం చేస్తాడు. అనూరుడు గుఱ్ఱాల పగ్గాలు సారించి స్వారీ చేయిస్తాడు. సాయంకాలం ఇద్దరు రశ్ములను ఉపసంహరించుకొంటారు.
    భగవానుడు సూర్యుడి స్తోత్రంతో ప్రీతి పొంది ఆయురారోగ్యాలు ప్రసాదిస్తాడు. అనూరుడు తోత్రం అంటే మునుకోలను ధరించి అశ్వాలను అదిలిస్తాడు.
    హరిపదం అంటే ఆకాశం అని అశ్వపాదం అని అర్థాలు. ఆదిత్యుడు ఆకాశంపై గమిస్తాడు. అనూరుడు అశ్వపాదాలను నడపటంలో నిమగ్నుడైతాడు. ద్విజాధిపతికి చంద్రుడు గరుడుడు అని అర్థాలు. సూర్యుడు చంద్రుడిని మించుతాడు. అనూరుడు గరుడుడిని మించుతాడు. అటువంటి సూర్యసమానుడైన అనూరుడు ఆయురారోగ్యాలు ప్రసాదించుగాక.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment