रक्षन्त्वक्षुण्णहेमोपलपटलमलं लाघवादुत्पतन्तः
पातङ्गाः पङ्ग्ववज्ञाजितपवनजवा वाजिनस्ते जगन्ति ।
येषां वीतान्यचिह्नोन्नयमपि वहतां मार्गमाख्याति मेरौ
उद्यन्नुद्दामदीप्तिर्द्युमणिमणिशिलावेदिकाजातवेदाः ॥४४॥
अन्वयः– उद्दामदीप्तिः उद्यन् द्युमणिमणिशिलावेदिकाजातवेदाः मेरौ वहतां येषां वीतान्यचिह्नोन्नयम् अपि मार्गम् आख्याति, अक्षुण्णहेमोपलपटलं लाघवात् अलम् उत्पतन्तः पङ्ग्ववज्ञाजितपवनजवाः ते पातङ्गा; वाजिनः जगन्ति रक्षन्तु ॥४४॥
व्याख्या– उद्दामा प्रभूता दीप्तिः यस्य तथाभूतः उद्यन् प्रकाशमानः, द्युमणिः सूर्यः, तस्य मणिशिला सूर्यकान्तोपलः तस्याः या वेदिका, तस्याः जातवेदाः तत्प्रपूतोऽग्निः मेरौ रथं वहतां येषाम् अश्वानां वीतान्यचिह्नोन्नयम् अपि, वीतः रहितः अन्यचिह्नस्य उन्नयः प्रकाशः यस्मिन् तथाभूतमपि मार्गम् आख्याति प्रकटयति, अक्षुण्णं हेमोपलानां पटलं स्वर्णशिलासङ्घातं लाघवात् अनायासेन अलम् उत्पतन्तः अतिक्रामन्तः पङ्गुः इति अवज्ञया जितः पवनस्य जवः वेगः यैः ते तथोक्ताः, पतङ्गस्य इमे पातङ्गाः पतङ्गः पक्षिसूर्ययोः इत्यमरः, ते वाजिनः अश्वाः जगन्ति भुवनानि रक्षन्तु । वाक्यार्थहेतुकं काव्यालिङ्गमलङ्कारः ॥४४॥
भावार्थः– सूर्यकान्तिशिलोत्पन्नः उद्दीन्तः अग्निः मेरौ रथं वहतां वाजिनाम् अन्यचिह्नरहितमपि मार्गं सूचयति, हेमाद्रेः अक्षुण्णं स्वर्णपटलम् अनायासेन लङ्घयन्तः, वायुं पङ्गुं मन्यमानाः, तद्वेगं तिरस्कुर्वाणाः सूर्यस्य ते अश्वाः जगन्ति रक्षन्तु ॥४४॥
हिन्द्यर्थः– प्रचण्ड दीप्तिके साथ उद्गत सूर्यकान्तमणिशिलापटलकी अग्नि, दूसरे चिह्नोंके बिना भी जिन अश्वोंके यात्रापथ सूचित करता है, अक्षुण्ण स्वर्णपटलको आसानीसे कूदकर जाने वाले, पवनको पङ्गु विचार कर उसके वेगको अवज्ञा करके चलनेवाले सूर्यके अश्व जगतकी रक्षा करें ॥४४॥
आङ्ग्लार्थः-- The horses of the Sun ignore the wind as lame and surpass him in swiftness. They leap over the fields of gold lightly without pounding them. The fire produced from the plains of Sunstones indicate their path with no other sign left behind. May those horses protect the world. 44
తెలుగు అర్థం--
అవిగో! సూర్యాశ్వాలు వస్తున్నాయి. ఎంత వేగంగా పరుగిడుతున్నాయి.
అది పర్వత ప్రాంతం అంత కఠినంగా ఉండే మేరు శైలభూములవి. ఆ ప్రాంతంలో దారీ డొంకా లేదు. మార్గానికి ఏ గుర్తులూ లేవు. అవి సూర్యకాంత వేదికలు కాబోలు. మిక్కిలి ప్రకాశంతో మండిపోతున్నట్లు ఉన్నాయి.
సూర్యాశ్వాలు బంగారు రాళ్ళకు కాళ్ళు కొట్టుకొనకుండా చాకచక్యంతో పరుగులు పెడుతున్నాయి.
అశ్వాల గమనం చూస్తుంటే గాలితో పందెం వేసినట్లున్నాయి. గాలిని గేలి చేస్తూ గాలికంటే ముందే వెళుతున్నాయి. ఆ సూర్యాశ్వాలు ప్రజలకు శ్రేయస్సులు కలుగజేయుగాత.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment