Monday, June 25, 2018

सूर्यशतकम् - 76 (महाकवि-श्रीमयूरप्रणीतम्)

कस्त्राता तारकाणां पतति तनुरवश्यायबिन्दुर्यथेन्दुः
विद्राणा दृक्स्मरारेरुरसि मुररिपोः कौस्तुभो नोद्गभस्तिः ।
वह्नेः सापह्नवेव द्युतिरुदयगते यत्र तन्मण्डलं वो
मार्तण्डीयं पुनीताद्दिवि भुवि च तमांसीव मृष्णन्महांसि ॥७६॥


अन्वयः– यत्र उदयगते इन्दुः अवश्यायबिन्दुः यथा तनुः पतति, तारकाणां कः त्राता स्मरारेः दृक् विद्राणा, मुररिपोः उरसि कौस्तुभः नोद्गभस्तिः वह्नेः द्युतिः सापह्नवा इव, भुवि तमांसि इव दिवि महांसि मुष्णत् तत् मार्तण्डीयं मण्डलं वः पुनीतात् ॥७६॥

व्याख्या– यत्र सूर्यमण्डले उदयगते उदयं गते द्वितीया श्रितातीत इति समासः, इन्दुः चन्द्रः अवश्यायबिन्दुः यथा तुषारबिन्दुरिव तनुः क्षीणः पतति, तारकाणां कः त्राता रक्षकः? स्मरारेः शिवस्य दृक् दृष्टिः विद्राणा शक्तिहीना भवति, मुररिपोः मुरारेः उरसि वक्षसि कौस्तुभः मणिः नोद्गभस्तिः न उद्गता गभस्तिः यस्मात् सः तेजोहीनः, वह्नेः अग्नेः द्युतिः तेजः सापह्नवा निष्प्रभा इव भवति, भुवि पृथिव्यां तमांसि अन्धकारान् इव दिवि व्योम्नि महांसि तेजांसि मुष्णत् अपहरत् तत् मार्तण्डीयं सौरं मण्डलं वः युष्मान् पुनीतात् पवित्रयतु ॥७६॥

भावार्थः– सूर्ये उदिते चन्द्रः तुषारबिन्दुवत् क्षीयते, नक्षत्रेशस्य ईदृशी दशा, का कथा नक्षत्राणाम्? महेश्वरस्य दृष्टिः शक्तिहीना भवति, मुरारेः वक्षसि कौस्तुभो मणिः नो राजते, अग्नेः तेजश्च निष्प्रभं भवति, एवं सर्वेषां तेजसां मोषः सम्पद्यते भुवि अन्धकाराः इव दिवि अपि तेजांसि निलीयन्ते । एतादृङ्महातेजसः सूर्यस्य मण्डलं युष्मान् पुनातु ॥७६॥

हिन्द्यर्थः– जिसके उदयसे चाँद भी तुषारबिन्दुके समान क्षीण हो जाता है, ताराओं की रक्षा करेगा कौन? भगवान् शिवकी आँखें म्लान हो जाती हैं; मुरारिके वक्षमें कौस्तुभ निष्प्रभ हो जाता है, अग्निका तेज छिप जाता है, पृथिवीसे अन्धकारकी भाँति व्योमसे सब तेजोंको हरण करनेवाला सूर्यमण्डल आप लोगोंको पवित्र करें ॥७६॥

आङ्ग्लार्थः-- When the circle of the Sun rises the moon disappears like dew drops. Who can then protect the stars ? The eye of Siva dazzles, the Kaustubha jewel of Visnu does not emit rays, the brightness of fire is concealed. Like darkness from earth it takes away the brightness from heaven. May that solar circle purify you. 76

తెలుగు అర్థం--
    అదిగో, మార్తాండ మండలం, మంగళకరంగా సాక్షాత్కరిస్తూ అపరంజి కాంతులను విరజిమ్ముతున్నది. దిశలు సర్వం హరిద్రమయం. సవితృ కాంతిమయం.
    ఆకాశవీథిలో ఆదిత్యదేవుడి సత్యదీధితులు చూచి రేరాజు చిన్నబుచ్చుకున్నాడు. ఆయన ముఖం ఆవగింజంత అయింది. ఇది గమనించి కానికాలం వచ్చిందని తారకలు తమదారి తాము చూచుకుంటున్నాయి.
    సూర్యమండస తేజస్సు గమనించి దయాకరుడైన శంకరుని కన్ను నిదురలోకి వెళ్ళింది. వెన్నుడి ఎదపై కౌస్తుభం కాంతులు కుంఠితం కాసాగాయి. అగ్నిహోత్రుడు ఇది ఎవరి తేజస్సు అని ఆశ్చర్యపోతున్నాడు.
    మార్తాండ మండలం దివి భువి అంతరాలాల అంతట మహా తేజస్సులను విరజిమ్ముతున్నది. తిమిరం ఎక్కడా నలుసంత కూడా కనిపించటం లేదు. ఎంత మంచి రోజులు వచ్చాయి మానవాళికి. అజ్ఞానాంధకారం అంతరించి అర్కకాంతులు అంతటా నిండాయి. శుభం.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment