Monday, June 25, 2018

सूर्यशतकम् - 84 (महाकवि-श्रीमयूरप्रणीतम्)

ध्वान्तस्यैवान्तहेतुर्न भवति मलिनैकात्मनः पाप्मनोऽपि
प्राक् पादोपान्तभाजां जनयति न परं पङ्कजानां प्रबोधम् ।
कर्ता निःश्रेयसानामपि न तु खलु यः केवलं वासराणां
सोऽव्यादेकोद्यमेच्छाविहितबहुबृहद्विश्वकार्योऽर्यमा वः ॥८४॥


अन्वयः– यः ध्वान्तस्य एव न अन्तहेतुः मलिनैकात्मनः पाप्मनोऽपि, प्राक् पङ्कजानां न, परं पादोपान्तभाजां प्रबोधं जनयति, केवलं वासराणां न, निःश्रेयसानामपि कर्ता खलु, एकोद्यमेच्छाविहितबहुवृहद्विश्वकार्यः सः अर्यमा वः अव्यात् ॥८४॥

व्याख्या– यः अर्यमा न ध्वान्तस्य अन्धकारस्य एव अन्तहेतुः, विनाशहेतुः, मलिनैकात्मनः मलिनस्वरूपस्य पाप्मनः पापस्य अपि अन्तहेतुः भवति । प्राक् पूर्व पङ्कजानां न, परन्तु पादोपान्तभाजां चरणाश्रितानां प्रबोधं विकासं चैतन्यं च जनयति, यः न केवलं वासराणां दिवसानां कर्ता, अपि तु निःश्रेयसानां कल्याणानां, निश्चितं श्रेयो निःश्रेयसम्, (अचतुर विचतुर इत्यादिना अजन्तो निपात्यते), मोक्षस्यापि कर्ता खलु, एकोद्यमेच्छाविहितबहुबृहद्विश्वकार्यः एकश्चासौ उद्यमश्चेति एकोद्यमः तस्मिन् या इच्छा, तया विहितानि सम्पादितानि बहूनि बृहन्ति विश्वकार्याणि येन सः, अर्यमा सूर्यः वः युष्मान् अव्यात् रक्षतु ॥८४॥

भावार्थः– सूर्यः न केवलं ध्वान्तं दूरयति, पापमपि नाशयति, सः न केवलं पङ्कजानां, चरणाश्रितानां भक्तानामपि प्रबोधं (विकासं चैतन्यं च) जनयति, सः न केवलं दिवसानां, मङ्गलानां मोक्षस्य च कर्ता खलु, एकया एव प्रचेष्टया बहु विश्वकार्यं कुर्वाणः सः सूर्यः युष्मान् रक्षतु ॥८४॥

हिन्द्यर्थः– जो अन्धकारको ही विनाश नहीं करते साथ मलिन पाप को, पहले केवल पद्मोंके नहीं, पाद (किरण) सेवा करने वालोंके भी प्रबोध (विकास, चैतन्यका जागरण) करते हैं; जो दिनकर हैं, और मोक्षकारक भी हैं, एक उदय होनेकी इच्छासे विश्वके बहुत बृहत्कार्य करनेवाले वह सूर्य आप लोगोंकी रक्षा करें ॥८४॥

आङ्ग्लार्थः-- The Aryama not only removes darkness but also washes the vices. It awakens the lotuses alongwith arousing consciousness of the devotees, who pray at his feet. He is not only the harbinger of day but also is the giver of liberation. Thus, with one attempt he performs many activities in the universe. May that Aryama save you. 84

తెలుగు అర్థం--
    అడుగో! శుభంకరుడైన సూర్యనారాయణమూర్తి ఉదయిస్తున్నాడు. అంశువులతో అందరినీ ఆశీర్వదిస్తున్నాడు.
    సూర్యభగవానుడు తన కిరణ ప్రసారం చేత ప్రగాఢ తమోరాక్షసుల్ని పారద్రోలి జ్ఞానం వెదజల్లుతున్నాడు. ఆ కార్యంతో పాటు ప్రజల పాపపంకిలాన్ని కడిగేస్తున్నాడు.
    పద్మినీ వల్లభుడు జలజాలకు వికాసం చేకూర్చాడు. జీవకోటికి తమ తమ కార్యకలాపాలు చేసుకోవటానికి అన్ని విధాల ఉపయోగపడటానికి కారణభూతుడైన కర్మసాక్షి మందహాసం చేస్తూ వస్తున్నాడు.
    వేదత్రయీ తనుడు సూర్యదేవుడు యోగీశ్వరులకు మోక్షద్వారాలు తెరుస్తాడు. సవితృస్వామి ఒక్క కార్యం చేత చరాచరాలకు ఎన్నో ఉపకారాలు కలిసి వచ్చేలా చేస్తుంటాడు. విశ్వకల్యాణ కారకుడైన విభాకరస్వామి ప్రజల కామితములు నెరవేర్చుగాక.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment