Sunday, June 24, 2018

सूर्यशतकम् - 18 (महाकवि-श्रीमयूरप्रणीतम्)

अस्तव्यस्तत्वशून्यो निजरुचिरनिशानश्वरः कर्तुमीशो
विश्वं वेश्मेव दीपः प्रतिहततिमिरं यः प्रदेशस्थितोऽपि ।
दिक्कालापेक्षयासौ त्रिभुवनमटतस्तिग्मभानोर्नवाख्यां
यातः शातक्रतव्यां दिशि दिशतु शिवं सोऽर्चिषामुद्गमो वः ॥१८॥


अन्वयः– अस्तव्यस्तत्वशून्यः निजरुचिरनिशानश्वरः यः प्रदेशस्थितः अपि दीपः वेश्म इव विश्वं प्रतिहततिमिरं कर्तुम् ईशः, शातक्रतव्यां दिशि नवाख्यां यातः, दिक्कालापेक्षया त्रिभुवनम् अटतः, तिग्मभानोः सः असौ अर्चिषाम् उद्गमः वः शिवं दिशतु ॥१८॥

व्याख्या– अस्तश्च व्यस्तश्च अस्तव्यस्तौ, तयोःभावः अस्तव्यस्तत्वं, तेन शून्यः विनाशविपर्ययरहितः निजरुचिरेण स्वकीयदीप्त्या निशायाः रात्र्याः नश्वरः क्षयकृत् इण्नशजिसर्तिभ्यः क्वरप् इति क्वरप् अथवा निजा स्वकीया या रुचिरनिशा रात्रिः तस्यां नश्वरः अदृश्यः, यः प्रदेशस्थितः अपि एकदेशस्थितोऽपि दीपः वेश्म गृहम् इव, (गृहं गेहोदवसितं वेश्मसद्मनिकेतनम्– इत्यमरः) । विश्वं सर्वं जगत् प्रतिहततिमिरं प्रतिहतं तिमिरं येन तथाभूतं निवारितान्धकारं कर्तुं विधातुम् ईशः समर्थः, शातक्रतव्यां शतक्रतोः इन्द्रस्य इयं शातक्रतवी तस्यां दिशि ऐन्द्र्यां पूर्वस्यां दिशि नवाख्यां यातः प्रत्यहं नूतनत्वं प्राप्तः दिक्कालापेक्षया दिशां प्राच्यादीनां कालानां पूर्वाह्णादिसमयानाम् अपेक्षया अनुसारं त्रिभुवनम् त्रयाणां भुवनानां समाहारः त्रिभुवनम् त्रिलोकीं पात्राद्यन्तस्य न इति निषेधात् द्विगोः इति न ङीप्, अटतः पर्यटतः, तिग्मभानोः तिग्मः तीक्ष्णाः भानुः किरणों यस्य तस्य उष्णांशोः सूर्यस्य सः असौ अर्चिषां तेजसाम् उद्गमः उदयः वः युष्माकं शिवं मङ्गल दिशतु विदधातु । उपमालङ्कारः ॥१८॥

भावार्थः– विनाशविपर्ययरहितः सूर्यस्य किरणराशिः दीपः गृहस्य अन्धकारमिव रात्रेः अन्धकारं सम्पूर्णं निष्कासयति । त्रिभुवनं भ्रमतः तस्य सूर्यस्य किरणसमूहः प्रभाते पूर्वस्यां दिशि प्रत्यहं नूतनः व्यपदिश्यते । असौ पूर्वादिसर्वा दिशः प्रकाशयति, पूर्वाह्णादिकं कालं च सृजति । एवं भूतः किरणराशिः युष्माकं मङ्गलं विदधातु ।
टिणणी– दीपः अस्तव्यः निर्वाप्यः तत्त्वशन्यः अनिजरुत्तिः अनिशा दिवसः तत्र नश्वरः अदीप्तद्युतिः भवति इत्यर्थः सूच्यते ॥१८॥

हिन्द्यर्थः– विनाशव्यसनसे रहित, अपने तेजसे रात्रिको नाश करने वाले, एक जगह रहने पर भी दीपक घरके तुल्य विश्वके अन्धकारको दूर करने वाले, पूर्व दिशामें नूतन रूपसे प्रतिभात, दिशाएँ और काल सृष्टिकेलिए त्रिभुवनमें धूमने वाले, सूर्यके तेज आपके मङ्गल करें ॥१८॥

आङ्ग्लार्थः-- As a lamp burning steadily in a place removes darkness with its flame, so the rays of the Sun remove darkness of night with brilliant rays. Free from mortality and worries those rays traverse the three worlds regularly and appear new in the eastern quarters every day. May those rays bring happiness to you. 18

తెలుగు అర్థం--
     దీపం దివాకరదీధితి ఒకటి కాదు. దీపం రాత్రిపూట గృహంలోని చీకటిని తొలగిస్తుంది. దినమణిద్యుతి లోకంలోని అంధకారం అంతా మాయం చేస్తుంది.
    దీపం అస్తవ్యం, సవితృకాంతి స్తవనీయం, దీపం తత్త్వజ్ఞానశూన్యం, దివాకరదీధితి తత్తవిజ్ఞాన దాయకం. దీపం వినాశసంభవం. లోకబంధుప్రభ వినాశబాధారహితం. దీపం స్వయం శక్తిహీనం.  ద్యుమణిద్యుతి స్వయంప్రకాశ విలసితం. దీపం తైలాది పరాపేక్షితం. ఆదిత్యసత్యజ్యోతి పరాపేక్షరహితం. సహజ ప్రభాభాసితం.
    మార్తాండ మరీచి అనశం అనశ్వరం. అది మూడులోకాలను వెలిగిస్తుంది. అది సదా నిశ్చలం. దానికి ప్రాతక్రొత్తలు లేవు.
    దివాకరుడు దిక్కాల విభాగంవల్ల మాత్రం ప్రాచీనం ఉదయించి అర్వాచీనం అస్తమిస్తున్నట్లు కనిపిస్తాడు. అంతే. అసలు కర్మసాక్షికి ఉదయాస్తమయాలు లేనేలేవు. ఆయన త్రయూ తనూరూపుడు. ఆయన నిత్యుడు సత్యుడు ఆద్త్యుడు. సవితృతేజం సర్వలోకవ్యాప్తం.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment