धारा रायो धनायापदि सपदि करालम्बभूताः प्रपाते
तत्त्वालोकैकदीपास्त्रिदशपतिपुरप्रस्थितौ वीथ्य एव ।
निर्वाणोद्योगियोगिप्रगमनिजतनुद्वारि वेत्रायमाणाः
त्रायन्तां तीव्रभानोर्दिवसमुखसुखा रश्मयः कल्मषाद्वः ॥११॥
अन्वयः– आपदि धनाय रायः धाराः, सपदि प्रपाते करालम्बपृताः तत्वालोकैकदीपाः त्रिदशपतिपुरप्रस्थितौ वीथ्य एव, निर्वाणोद्योगियोगिप्रगमनिजतनुद्वारि वेत्रायमाणाः दिवसमुखसुखाः तीव्रभानोः रश्मयः वः कल्मषात् त्रायन्ताम् ॥११॥
व्याख्या– आपदि धनाय धनार्थं रायः वित्तस्य धाराः प्रवाहाः, सपदि प्रपाते पतने करालम्बभूताः कराश्रयस्वरूपाः, तत्त्वालोके तत्त्वदर्शने आत्मतत्त्वावगमे इत्यर्थः एकदीपाः अद्वितीयाः दीपस्वरूपाः प्रकाशकाः, त्रिदशपतेः देवराजस्य इन्द्रस्य पुरं स्वर्गः तत्र प्रस्थितौ प्रस्थाने वीथ्यः एव मार्गस्वरूपाः (वीथी वर्त्मनि पङ्क्तौ च गृहाङ्गे नाट्यरूपके– इति हैमः) । निर्वाणाय मुक्तये उद्योगिनः ये योगिनः तेषां प्रगमाय मुक्तये (प्रकृष्टं गमनं प्रगमः नन्दिग्रहीत्यादिना अन्) । निजतनुद्वारि स्वशरीरस्य द्वारदेशे वेत्रायमाणाः वेत्रधारिणः प्रतीहारा इव आचरन्तः, प्रतीहारः योग्यानेव निर्बाधं प्रेवशयति नान्या, दिवसमुखे अहर्मुखे सुखाः सुखकरः तीव्रभानोः उष्णरश्मेः सूर्यस्य रश्मयः किरणाः कल्मषात् पापात् वः युष्मान् त्रायन्ताम् रक्षन्तु ॥११॥
भावार्थः– आपदि धनस्य प्रवाहस्वरूपाः पतनावसरे कराश्रयतुल्याः आत्मतत्त्वावगमे दीपकल्पाः, स्वर्गयात्रिणो मार्गायमाणाः मुक्तिकामिनां निजतनुद्वारि वेत्रधारिप्रतीहारवत् आचरन्तः, यथा प्रतीहारः योग्यानेव प्रवेशयति, नान्यान् तद्वत् मुक्तिपरिपन्थिनां विषयजातानां निरोधकाः मुक्तिमार्गसूचकाश्च दिवसारम्भे सुखकराः सूर्यकिरणाः युष्मान् पापात् रक्षन्तु ॥११॥
हिन्द्यर्थः– आपद् में धन प्राप्तिकेलिए धनकी धाराके स्वरूप, गिर जानेके समय जल्द हाथको सहाय देनेवाले, आत्मतत्त्वज्ञान केलिए प्रदीपकी भॉँति, स्वर्गयात्राके मार्ग स्वरूप, मुक्तकामी योगियोंको आगे बढनेकेलिए अपने शरीरके प्रहरीके समान प्रभातमें सुखकर सूरजकी किरणें आप लोगोंको पापसे दूर रखे॥ ११॥
आङ्ग्लार्थः-- Pleasant in the early morning, and looking like streams of gold for the hard-pressed, the rays of the Sun act like the supporting staff during steep fall. They also serve as lamps to obtain true knowledge and are like paths to attain nirvana (liberation) acting like the stick of a chamberlain indicate the way to yogis aspiring for salvation. May those rays protect you from sins.11
తెలుగు అర్థం--
అవిగో, అవి బాలభానుని బంగారు కిరణాలు. మంగళ తోరణాలు. ప్రకృతికి అలంకరణాలు. విశ్వసుందరికి ఆభరణాలు.
అవి ఉదయవేళల జనాభ్యుదయకరాలు. ప్రజలకు సుఖకరాలు, మంచి మనస్సులకు ఆకరాలు. అవి అర్థంకోరి ప్రార్థించే అభ్యర్థులకు ధనరాసులు కురిపించే వర్షధారలు. అవి సరులు నరక కూపాల్లో పడకుండా కాపాడే ఆధారాలు.
అవి తత్త్వజ్ఞాన కాంతులు నాలుగు ప్రక్కలకు ప్రసారం చేసే ఏకైక ప్రదీపాలు. అవి వీరస్వర్గం అధిరోహించే మహాశూరలకు ఘంటాపథాలు. అవి ముముక్షువులకు మోక్షగవాక్షాలు. శరీరంతో మోక్షం పొందే పరివ్రాజకులను తన శరీర ద్వారమున నిరాటంకంగా ప్రవేశింపచేసే వేత్రాలు ఆ సూర్యకిరణాలు. అవి ముక్తిపురం నిరాటంకంగా ప్రవేశింపచేసే మార్గాలు. ఆ సూర్యకిరణాలు కల్మషహరణాలు.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment