ध्वान्तौघध्वंसदीक्षाविधिपटु वहता प्राक्सहस्रं कराणाम्
अर्यम्णा यो गरिम्णः पदमतुलमुपानीयताध्यासनेन ।
स श्रान्तानां नितान्तं भरमिव मरुतामक्षमाणां विसोढुं
स्कन्धात्स्कन्धं व्रजन्वो वृजिनविजितये भास्वतः स्यन्दनोऽस्तु ॥६३॥
अन्वयः– प्राक् ध्वान्तौघध्वंसदीक्षाविधिपटु, कराणां सहस्रं वहता अर्यम्णा अध्यासनेन यः गरिम्णः अतुलं पदम् उपानीयत, नितान्तं भरं विसोढुम् अक्षमाणाम् श्रान्तानाम् इव मरुतां स्कन्धात् स्कन्धं व्रजन् सः भास्वतः स्यन्दनः वः वृजिनविजितये अस्तु ॥६३॥
व्याख्या– प्राक् आदौ ध्वान्तौघस्य अन्धकारसमूहस्य ध्वंसदीक्षाविधौ विध्वंसनकर्मणि पटु समर्थं, कराणां किरणानां सहस्रं वहता धारयता, अर्यम्णा सूर्येण कर्त्रा, अध्यासनेन उपवेशनेन यः गरिम्णः गौरवस्य अतुलं पदं स्थानम् उपानीयत प्राप्यत, नितान्तं भरं भारं वोढुम् सोढुम् अक्षमाणां असमर्थानां श्रान्तानाम् इव मरुतां स्कन्धात् स्कन्धं एकस्मात् स्तरात् स्तरान्तरं व्रजन् गच्छन् सः भास्वतः सूर्यस्य स्यन्दनः रथः वः युष्माकं वृजिनविजितये वृजिनस्य विजितिः, तस्यै, पापविनाशाय अस्तु भवतु । अनुप्रासोत्प्रेक्षयोः परस्परनैरपेक्षेण संसृष्टिः, समासोक्तिश्च ॥६३॥
भावार्थः– आदौ अन्धकारापनयनसमर्थं करसहस्रं (किरणनिकरं) धारयतः सूर्यस्य उपवेशनेन गुरुः (गौरवान्वितः) अतिभारं वोढुम् असमर्थानां, श्रान्तानामिव वहतां वायूनां स्कन्धात् स्कन्धान्तरं (स्तरात् स्तरान्तरं) व्रजन् सूर्यस्य रथः युष्माकं पापं नाशयतु ॥६३॥
हिन्द्यर्थः– पहले अन्धकारके विनाश करनेमें समर्थ सहस्रांशु सूर्यके बैठनेसे जो महान् गौरवको प्राप्त होता है, बहुत ओजनको सहन करनेमें असमर्थ श्रान्त वायुके एक स्कन्धसे दूसरे स्कन्धमें जाने वाला वह सूर्यरथ आप लोगोंके पाप क्षय करें॥६३॥
आङ्ग्लार्थः-- The Chariot, glorified and made heavier by the sitting of the thousand-rayed Sun, who is expert in demolishing the darkness, changes its course from one sphere of Maruts to another as if they were tired and unable to carry the load. May that Chariot remove all your vices.63
తెలుగు అర్థం--
అదిగో, వెలుగు పట్టాలపై పరువెత్తుకు వస్తున్న కాంతిరథం, అది సూర్యరథం. మార్తాండుని మహారథం. మానవజాతి మనోరథం వస్తున్నది వస్తున్నది.
అది అజ్ఞాన అంధకారాబంధురాన్ని హతమార్చే రవి రథం. ఆదిత్య సత్యమూర్తి అధిరోహించి జైత్రయాత్ర సలిపే అందాల స్యందనం. అది మహాభారం. దానిని లాగటం కూడా చాలా కష్టం. దానికి చక్రం ఒక్కటే. సమర్థవంతాలై హరిదశ్వాలు సైతం లాగలేక అలసిపోతుంటాయి.
అవి జాతి జవనాశ్వాలు. అనా నిత్య పరిశ్రమ వల్ల చాకచక్యంతో రథాన్ని లాగుతున్నాయి. అందుకని ఆ అరదం మారుతస్కంధాలపై మారుతూ మారుతూ నడుస్తుంటాయి. మహావేగంగా హయాలు పయనిస్తున్నాయి.
ఆ రథకాంతులు ప్రజల పాపతమస్సులను పటాపంచలు చేయుగాక.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment